SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं २, उद्देशक : १ तेषु स्थिताः कषाया विषयरूपतया, अध्यात्मनि च विषयिरूपतया प्रसन्नचन्द्रैकेन्द्रियादीनामिति गाथार्थः ।। तदेवं कषायस्थान- प्रदर्शनेन सूत्रपदोपात्तं स्थानं परिसमाप्य तेषामेव कषायाणां सूत्रमूलपदोपात्तानां जेतव्यत्वाधिकृतानां निक्षेपमाह - नि. [१८१] नामंठवणादविए उप्पत्ती पच्चए य आएसो । रसभावकसाए या तेण य कोहाइया चउरो || बृ. यथाभूतार्थनिरपेक्षमभिधानमात्रं नाम, सद्भावसद्भावरूपा प्रतिकृतिः, स्थापना, कृतभीमभ्रकुट्युत्कटललाट(पट) घटितत्रिशूलरक्तास्यनयनसन्दष्टाधरस्पन्दमानस्वेदसलिलचित्रपुस्ताद्यक्षवराटकादिगतेति, द्रव्यकषाया ज्ञशरीरभव्यशरीराभ्यां व्यतिरिक्ताः कर्म्मद्रव्यकषाया नोकर्म्मद्रव्यकषायाश्चेति, तत्रादित्सितात्तानुदीर्णोदीर्णाः पुद्गल द्रव्याप्राधान्यात् कर्म्मद्रव्य- कषायाः, नोकर्म्मद्रव्यकषायास्तु बिभीतकादयः, उत्पत्तिकषायाः शरीरोपधिक्षेत्रवास्तुस्थाण्वादयो यदाश्रित्य तेषामुत्पत्तिः, तथा चोक्तम् - 11911 'किं एत्तो कट्टयरं जं मूढो थाणुअम्मि आवडिओ । थाणुस्स तस्स रूसइ न अप्पणो दुप्पओगस्स " प्रत्ययकषायाः कषायाणां ये प्रत्ययाः- यानि बन्धकारणानि, ते चेह मनोज्ञेतरभेदाः शब्दादयः, अत एवोत्पत्तिप्रत्ययोः कार्यकारणगतो भेदः, आदेशकषायाः कृतिमकृतभ्रुकुटीभङ्गादयः, रसतो रसकषायः कटुतिक्तकषायपञ्चकान्तर्गतः, भावकषायाः शरीरोपधिक्षेत्रवास्तुस्वजनप्रेष्यार्चादिनिमित्ताविर्भूताः शब्दादिकामगुण- कारणकार्यभूतकषायकर्मोदयात्मपरिणामविशेषाः क्रोधमानमायालोभाः, ते चैकैकशोऽनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसअवलनभेदेन भिद्यमानाः षोडशविधा भवन्ति तेषां च स्वरूपानुबन्धफलानि गाथाभिरभिधीयन्ते, ताश्चेमाः 11911 ॥२॥ 17 Jain Education International 1 “जलरेणुपुढविपव्वयराईसरिसो चउव्विहो कोहो । तिणिसलयाकट्ठट्ठियसेलत्थंभोवमो माणो ॥ मायावलेहिगोमुत्तिमेंढसिंगघणवंसमूलसमा । लोभो हलिद्दकद्दमखंजणकिमिरायसामाणो ॥ पक्खचउमासवच्छरजावजीवाणुगामिणो कमसो । देवनरतिरियनारयगइसाहण हेयवो भणिया ||" ॥३॥ - एषां च नामाद्यष्टविधकषायनिक्षेपाणां कतमो नयः कमिच्छतीत्येतदभिधीयते तत्र नैगमस्य सामान्यविशेषरूपत्वान्नैकगमत्वाच्च तदभिप्रायेण सर्वेऽपि साधवो नामादयः, सङ्गव्यवहारौ तु कषायसम्बन्धाभावादादेशसमुत्पत्ती नेच्छतः, ऋजुसूत्रस्तुवर्त्तमानार्थनिष्ठत्वादा-देशमुत्पत्तिस्थापना नेच्छति, शब्दस्तु नाम्नोऽपि कथञ्चिद्भावान्तर्भावान्नामभावाविच्छतीति गाथातात्पर्यार्थः ।। तदेवं कषायाः कर्म्मकारणेत्वेनोक्ताः, तदपि संसारस्य, स च कतिविध इति दर्शयति - नि. [१८२] ९७ दव्वे खित्ते काले भवसंसारे अ भावसंसारे । पंचविहो संसारो जत्थेते संसरति जिआ । For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy