SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ मूलं-१४१ ३३५ समाः-शास्त्रोक्तलक्षणाविसंवादिन्यश्चतुर्दिग्वतिन: अवयवरूपाश्चतस्त्रोऽस्त्रयो यत्र तत् समासान्तात्प्रत्यये समचतुरस्रं संस्थानं, तुल्यारोहपरिणाहः, सम्पूर्णलक्षणोपेपाङ्गोपाङ्गावयवः स्वांगुलाष्टाधिकशतोच्छ्रयः सर्वसंस्थानप्रधानः पञ्चेन्द्रियजीवशरीराकारविशेष इत्यर्थः १, नामेरुपरि न्यग्रोधवन्मण्डलम-आद्यसंस्थानलक्षणयुक्तत्वेन विशिष्टाकारं न्यग्रोधमण्डलं, न्यग्रोधोवटवृक्षः, यथा चायमुपरि वृत्ताकारतादिगुणोपेतत्वेन विशिष्टाकारो भवत्यधस्तु न तथा, एवमेतदपीति भावः २, सह आदिना-नाभेरधस्तनकायलक्षणेन वर्तत इति सादि, ननु सर्वमपि संस्थानमादिना सहैव वर्तते ततो निरर्थकं सादित्वविशेषणं, सत्यं, किं त्वत एव विशेषणवैफल्यप्रसङ्गादाद्यसंस्थानलक्षणयुक्त आदिरिह गृह्यते, ततस्तथाभूतेन आदिना सह यद्वर्तते नाभेस्तूपरितनकाये आद्यसंस्थानलक्षणविकलं तत्सादीति तात्पर्यम् ३, यत्र पाणिपादशिरोग्रीवं समग्रलक्षणपरिपूर्ण शेषं तु हृदयोदरपृष्ठलक्षणं कोष्ठं-लक्षणहीनं तत् कुब्नं ४, यत्र तु हृदयोदरपृष्ठं सर्वलक्षणोपेतं शेषं तु हीनलक्षणं तद्वामनं, कुब्जविपरीतमित्यर्थः ५, यत्र सर्वेऽप्यवयवाः प्रायो लक्षणविसंवादिन एव भवन्ति तत्संस्थानं हुण्डमिति ६।। __ अत्र च सर्वप्रधानत्वात् समचतुरस्रस्य प्रथमत्वं, शेषाणां तं यथाक्रमं हीनत्वाद्वितीयादित्वमिति पूर्वानुपूर्वीत्वं, शेषभावना पूर्ववदिति । आह-यदीत्थं संस्थानानुपूर्वी प्रोच्यते तर्हि संहननवर्णरसस्पर्शाद्यनुपूर्योऽपि वक्तव्याः स्युः, तथा च सत्यानुपूर्वीणामियत्तैव विशीर्यते, ततो निष्फल एव प्रागुपन्यस्तो दशविधत्वसंख्यानियम इति, सत्यं, किन्तु सर्वासामपि तासां वक्तुमशक्यत्वादुपलक्षणमात्रमेवायं संख्यानियमः, एतदनुसारेणान्या अप्येता अनुसर्तव्या इति तावल्लक्षयामः, सुधिया त्वन्यथाऽपि वाच्यं, गम्भीरार्थत्वात्, परममुनिप्रणीतसूत्रविवक्षायाः, एवमुत्तरत्रापि वाच्यमित्यलं विस्तरेण ।। सामाचार्यानुपूर्वी विवक्षुराह मू. (१४२) से किं तं सामायारीआनुपुव्वी ?, २ तिविहा पन्नत्ता, तंजहा-पुव्वानुपुव्वी पच्छानुपुव्वी अनानुपुव्वी । से किं तं पुव्वानुपुव्वी?, २- वृ. तत्र समाचरणं समाचार:-शिष्टजनाचरितः क्रियाकलापस्तस्य भाव इति यणप्रत्यये स्त्रियामीकारे च सामाचारी, सा च त्रिविधा-ओघनिर्युक्त्यभिहितार्थरूपा ओघ सामाचारी १, इच्छामिच्छद्यर्थविपया दशधासामाचारी २, निशीथकल्पाद्यभिहितप्रायश्चित्तपदविभागविषया पदविभागसामाचारी ३, उक्तं च-“सामाचारी तिविहा ओहे दसहा पयविभागे'त्ति, तत्रेह दशधासामाचारीमाश्रित्योक्तममू. ( १४३) इच्छामिच्छातहक्कारो आवस्सिआ य निसीहिआ। आपुच्छणा य पडिपुच्छा छंदना य निमंतणा। वृ. 'इच्छामिच्छातहक्कारो' इत्यादि, अत्र कारशब्दः प्रत्येकमभिसम्बध्यते, ततश्चैषणमिच्छा-विवक्षितक्रियाप्रवृत्त्यभ्युपगमस्तयाकरणमिच्छाकारः, आज्ञाबलाभियोगरहितो व्यापार इत्यर्थः १, मिथ्या-असदेतद् यन्मयाऽऽचरितमित्येवं करणं मिथ्याकारः, अकृत्ये कस्मिँश्चित् कृते मिथ्या-वितमिदं न पुनर्यथा भागवद्भिरुक्तं तथैवेतन्मच्चेष्टितमतो दुष्कृतं-दुराचीर्णम् इत्येवमसक्रियानीवृत्त्यभ्युपगमो मिथ्याकार इति तात्पर्यम् २, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy