SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ मूलं - ११ २५७ वृ. अथ किं तत् स्थापनावश्यकमिति प्रश्ने सत्याह-'ठवणावस्सयं जण्ण' मित्यादि, तत्र स्थाप्यते-अमुकोऽयमित्यभिप्रायेण क्रियते निर्वर्त्यत इति स्थापना - काष्ठकर्म्मादिगतावश्यकवत्साध्वादिरूपा सा चासौ आवश्यकतद्वतोरभेदोपचारादावश्यकं च स्थापनावश्यकं, स्थापनालक्षणं च सामान्यत इदम् “यत्तु तदर्थवियुक्तं तदभिप्रायणे यच्च तत्करणि लेप्यादिकर्म्म तत्स्थापनेति क्रियतेऽल्पकालं च ॥ इति, विनेयानुग्रहार्थमत्रापि व्याख्या- तुशब्दो नामलक्षणात् स्थापनालक्षणस्य भेदसूचकः, स चासावर्थश्च तदर्थो-भावेन्द्र भावावश्यकादिलक्षणस्तेन वियुक्तं रहितं यद्वस्तु 'तदभिप्रायेण' भावेन्द्राद्यभिप्रायेण 'क्रियते' स्थाप्यते तत् स्थापनेति सम्बन्धः, किंविशष्टं यदित्याह-यच्च 'तत्करणि' तेन- भावेन्द्रियादिना सह करणिः सादृश्यं यस्य (तत्) तत्करणि-तत् सादृशमित्यर्थः, चशब्दात्तदकरणि चाक्षादि वस्तु गृह्यते, असदृशमित्यर्थः, किं पुनस्तदेवंभूतं वस्त्वित्याह'लेप्यादिकर्मे 'ति लेप्यपुत्तलिकादित्यर्थः, आदिशब्दात् काष्ठपुत्तलिकादि गृह्यते, अक्षादि वाऽनाकारं, कियंतं कालं तत् क्रियत इत्याह- अल्पः कालो यस्य तदल्पकालम्-इत्वरकालमित्यर्थः, चशब्दाद्यावत्कथिकं च शाश्वतप्रतिमादि, यत्पुनर्भावेन्द्राद्यर्थरहितं साकारमनाकारं वा तदर्थाभिप्रायेण क्रियते तत् स्थापनेति तात्पर्यमित्यार्यार्थः । इदानीं प्रकृतमुच्यते - 'जंनं 'ति 'ण' मिति वाक्यालङ्कारे, यत्काष्ठकर्मणि वा चित्रकर्म्मणि वा यावत् वराटके वा एको वा अनेको वा सद्भावस्थापनया वा असद्भावस्थापनया वा 'आवस्सए'त्ति आवश्यकतद्वतोरभेदोपचारत्तद्वानिह गृह्यते, ततश्चैको वा अनेको वा, कथंभूताः ?, अत उच्यते - आवश्यकक्रियावानावश्यकक्रियावन्तो वा 'ठवणा ठविज्जइ 'त्ति स्थापनारूपं स्थाप्यते-क्रियते, आवृत्त्या बहुवचनान्तत्वे स्थापनारूपाः स्थाप्यन्ते - क्रियन्ते, तत् स्थापनाऽऽवश्यकमित्यादिपदेन सम्बन्ध इति समुदायार्थः । काष्ठकर्म्मादिष्वाश्यकक्रियां कुर्व्वन्तो यत् स्थापनारूपः साध्वादयः स्थाप्यन्ते तत् स्थापनाऽऽवश्यकमिति तात्पर्यम् । - अधुना अवयवार्थ उच्यते तत्र क्रियत इति कर्म काष्ठे कर्म काष्ठकर्म-काष्ठनिकुट्टितं रूपमित्यरथ्:, 'चित्रकर्म चित्रलिखितं रूपकं' पोत्थम्मे व' ति अत्र पोत्थं पोतं वस्तमित्यर्थः, तत्र कर्म्म-तत्पल्लवनिष्पन्नं धीउल्लिकारूपकमित्यर्थः, अथवा पोत्थं पुस्तकं तच्चेह संपुटकरूपं गृह्यते, तत्र कर्म्म तन्मध्ये वर्त्तिकालिखितं रूपकमित्यर्थ::, अथवा पोत्थं - ताडपत्रादि तत्र कर्म्म-तत्छेदनिष्पन्नं रूपकं, 'लेपकर्म्म' लेप्यरूपकं, ग्रन्थिमं' कौशलातिशयाद् ग्रन्थिसमुदायनिष्पादितं रूपकं 'वेष्टिमं' पुष्पवेष्टनक्रमेण निष्पन्नमानन्दपुरादिप्रतीतरूपम् अथवा एकं द्वयादीनि वा वस्त्राणि वेष्टयन् कश्चित् रूपकं उत्थापयति तद्वेष्टिमं, 'पूरिमं' भरिमं पित्तलादिमयप्रतिमावत् 'संघातिमं' बहुवस्त्रादिखण्डसंघातानिष्पन्नं कञ्चुकवत्, 'अक्षः ' चन्दनको 'वराटक:' कर्पदकः, अत्र वाचानान्तरे अन्यान्यपि दन्तकर्मादिपदानि दृश्यन्ते तान्यप्युक्तानुसारतो भावनीयानि, वाशब्दाः पक्षान्तरसूचका:, यथासम्भवमेवमन्यत्रापि, एतेषु काष्ठकर्मादिषु आवश्यककक्रियां कुर्व्वन्तः एकादिसाध्वादयः, सद्भावस्थापनया असद्भावस्थापनया वा 30/17 Jain Education International - For Private & Personal Use Only -- www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy