SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २४१ मूलं-१६१ वृ. 'मूय'मित्यादि, मूकमिति प्रथमतो मूकं शृणुयात्, किमुक्तं भवति?-प्रथमश्रवणे संयतगात्रस्तूष्णीमासीत, ततो द्वितीये श्रवणेहुङ्कारं दद्यात्, वन्दनं कुर्यादित्यर्थः, ततस्तृतीये वाढंकारं कुर्यात्, वाढमेवमेतन्नान्यथेति, ततश्चतुर्थे श्रवणे तु गृहीतपूर्वापतसूत्राभिप्रायो मनाक् प्रतिपृच्छां कुर्यात्, कथमेतदिति?, पञ्चमे मीमांसां-प्रमाणजिज्ञासां कुर्यादिति भावः षष्ठे श्रवणे तदुत्तरोत्तरगुणप्रसङ्गः पारगमनं चास्य भवति, ततः सप्तमे श्रवणे परिनिष्ठा-गुरुवदनुबाषते। एवं तावच्छ्रवण- . विधिरुक्तः, सम्परति व्याख्यानविधिमभिधित्सुराहमू.(१६२) सुत्तत्थो खलु पढमो बीओ निज्जुत्तत्तिमिीसिओ भणिओ। तइओ निरविसेसो एस विही होइ अनुओगे। वृ. 'सुत्तत्थी' इत्यादि, प्रथमानुयोग: सूत्रार्थः सूत्रार्थप्रतिपादनपरः, खलुशब्द एवकारार्थः, स चावधारणे, ततोऽयमर्थः-गुरुणा प्रथमोऽनुयोगः सूत्रार्थाभिदानलक्षण एक कर्तव्यः, मा भूत् प्राथमिकविनेयानां मतिमोह:, द्वितीयोऽनुयोगः सूत्रस्पर्शिकनियुक्तिमिश्रितो भणितस्तीर्थकरगणधरैः, सूत्रस्पर्शिकनियुक्तिमिश्रितं द्वितीयमनुयोग गुरुर्विदध्यादित्याख्यातं तीर्थकरणगणधरैरिति भावः, तृतीयश्चानुयोगो निरवशेषः-प्रसक्तानुप्रसक्तप्रतिपादनलक्षण इत्येपःउक्तलक्षणो विधिर्भवत्यनुयोगे व्याख्यायाम्, आह-परिनिष्ठा सप्तमे इत्युक्तं, त्रयश्चानुयोगप्रकारास्तदेवत्कथम्?, उच्यते, त्रयाणामनुयोगानामन्यतमेन केनचित्प्रकारेण भूयो २ भाव्यमानेन सप्तं पाराः श्रवणं कार्यते ततो न कश्चिद्दोपः, अथवा कञ्चिन्मन्दमतिविनेयमधिकृत्य तदुक्तं द्रष्टव्यं, न पुनरेष एव सर्वत्र श्रवणविधिनियमः, उद्घटितज्ञविनेयानांसकृच्छ्रवणत एवाशेषग्रहणदर्शनादिति कृतं प्रसङ्गेन। मू.(१६३) से तं अंगपविट्ट, से तं सुअनाणं, से तं परोक्खनाणं, सेतं नंदी। वृ. 'सेत्त'मित्यादि, तदेतच्छुतज्ञानं, तदेतत्परोक्षमिति॥ नन्द्यध्ययनं पूर्व प्रकाशितं येन विपमभावार्थम्। तस्मै श्रीचूर्णिकृते नमोऽस्तु विदुषे परोपकृते ।।१।। मध्ये समस्तभूपीठं, यशो यस्याभिवर्द्धते। तस्मै श्रीहरिभद्राय, नमष्टीकाविधायिने॥२॥ वत्तिर्वाचूणिवा रम्याऽपिन मन्दमेधसां योग्या। अभवदिह तेन तेषामुपकृतये पत्न एष कृतः॥३॥ बह्वर्थमल्पशब्दं नन्द्यध्ययनं विवृण्वता कुशलम्। यदवापि मलयगिरिणा सिद्धि तेनाश्नुतां लोकः॥४॥ अर्हन्तो मङ्गलं मे स्युः, सिद्धाश्च मम मङ्गलम्॥ साधवो मङ्गलं सम्यग, जैनो धर्मश्च मङ्गलम्।।५।। मुनि दीपरत्नसागरेण संशोधिता सम्पादिता नन्दीसूत्रस्य मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता ४४ प्रथमाचूलिका नन्दीसूत्रं-समाप्त | 30/16 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy