SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ मूलं-१३२ मू.(१३३ ) से कितं सण्णिसु?, २ तिविहं पन्नत्तं, तंजहा-कालिओवएसेणं हेऊवएसेणं दिद्विवाओवएसेणं, से कितं कालिओवएसेणं?, कालिओवएसेणं जस्स णं अत्थिईहा अवोहो मरगणा गवसणा चिंता वीमंसा से णं असन्नीति लगभइ, से तं कालिओवएसेणं । से किं ते हंऊवएसणं?, जस्सणं अत्थि अभिसंधारणपुब्बिआ करणसत्ती से णं सण्णीति लब्भइ, जस्स णं नत्थि अभिसंधारणपविआ करणसत्ती सेणं असणीति लब्भइ, सेतं हेऊवएसेणं से कि तं दिद्विवाओवएसेणं?. दिडिवाओवएसेणं सण्णिसुअस्स खओवसमेणं सण्णी लब्भइ, असण्णिसुअस्स अखोवसमेणं असण्णी लब्भइ, सेतंदिहिवाओवएसेणं, सेतं सण्णिसुअंसेतं असण्णिसुआ वृ.'से कि त'मित्यादि, अथ किं तत्संनिश्रुतं?, संज्ञानं संज्ञा साऽस्यास्तीति संज्ञी तस्य श्रुतं संज्ञिश्रुतं, आचार्य आह-संज्ञिश्रुतं त्रिविधं प्रज्ञप्तं, संज्ञिनस्त्रिभेदत्वात्, तदेव त्रिभेदत्वं संज्ञिनो दर्शयति, तद्यथा-कालिक्युपदेशेन १ हेतुपदेशेन २ दृष्टिवादोपदेशेन ३, तत्र कालिक्युपदेशेनेत्यत्रादिपदलोपाद्दीर्घकालिक्युपदेशेनेति द्रष्टव्यं । _ 'सेकिंत'मित्यादि, अथ कोऽयं कालिक्युपदेशेन संज्ञी?, इह दीर्घकालिकीसंज्ञा कालिकोति व्यपदिश्यते, आदिपदलोपादुपदेशनमुपदेश:-कथनमित्यर्थः दीर्घकालिक्या उपदेशः दीर्घकालिक्युपदेशस्तेन, आचार्य आह-कालिक्युपदेशेन संज्ञी स उच्यते यस्य प्राणिनोऽस्ति-विद्यते ईहासदर्थपर्यालोचनमपोहो-निश्चयो मार्गणा-अन्वयधन्वेिषणरूपा गवेपणा-व्यतिरेकधर्मस्वरूपपर्यालोचनं चिन्ता-कथमिदं भूतं कथं चेदं सम्प्रति कर्त्तव्यं कथं चैतद्भविष्यतीति पर्यालोचनं विमर्शनं विमर्श:-इतमित्थमेव घटते इत्थं वा तद्भुतमित्थमेव वा तद्भावीति यथावस्थितवस्तुम्वरूपनिर्णयः स प्राणी 'ण'मिति वाक्यालङ्कारे संज्ञीति लभ्यते, स च गर्भव्युत्क्रान्तिकपुरुपादिरौपपातिकश्च देवादिर्मनः पर्याप्तियुक्तो विज्ञेयः, तस्यैव त्रिकालविपयचिन्ताविमर्शादिसम्भवाद्, आह च भाष्यकृत् "इह दीहकालिगि कालिगित्ति सन्ना जया सुदीहंपि। संभरइ भूयमेस्सं चिंतेइ य किह नु कायव्वं ।।१।। कालियसन्नित्ति तओ जस्स मई सो य तो मनोजोगगे। खंधऽनंते धेत्तुं मन्नइ तल्लद्धिसंपत्तो ॥२॥" एप च प्रायः सर्वमप्यर्थं स्फुटरूपलभते, तथाहि-यथा चक्षुष्मान् प्रदीपादिप्रकाशेन स्फुटमर्थमुपलभते तथैपोऽपि मनोलब्धिसम्पन्नो मनोद्रव्यावष्टम्भसमुत्थविमर्शवशतः पूर्वापरानुसन्धानेन यथावस्थितं स्फुटमर्थमुपलभते, यस्य पुनर्नास्ति ईहा अपोहो मार्गणा गवेषणा चिन्ता विमर्शः सोऽसंज्ञीति लभ्यते, स च सम्मूच्छिमपञ्चेन्द्रियविकलेन्द्रियादिविज्ञेयः, सहि स्वल्पस्वल्पतरमनोलब्धिसम्पन्नत्वादस्फुटमस्फुटतरमर्थं जानाति, तथाहि-संज्ञिपञ्चेन्द्रियापेक्षया सम्मूच्छिमपञ्चेन्द्रियोऽस्फुटमर्थं जानाति, ततोऽप्यस्फुटं चतुरिन्द्रियः, ततोऽप्यस्फुटतरं त्रीन्द्रियः, ततोऽप्यस्फुटतमंद्वीन्द्रियः, ततोऽप्यस्फुटतममेकेन्द्रियः, तस्य प्रायो मनोद्रव्यासम्भवात्, केवलमव्यक्तमेव किञ्चिदतीवाल्पतरं मना द्रव्यं, यदृशादाहारदिसंज्ञा अव्यक्तरूपाः प्रादुष्यन्ति, 'सेत्त'मित्यादि, सोऽयं कालिक्युपदेशेन संजी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy