SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन-मूलसूत्रम्-२-२३/८५९ चकारस्य प्रश्लेपाद् यश्चायं पञ्च शिक्षा:-प्राणातिपातादिविरमणोपदेशात्मिका: संजाता यस्मिनसौ पञ्चशिक्षितः, तारकादेराकृतिभणत्वादितच्, यद्वा पञ्च शिक्षितानि-उक्तशिक्षारूपाणि यस्मिन्नसौ पञ्चशिक्षितो वर्द्धमानेन देशित इति योगः, 'महामुनि'त्ति सुव्यत्ययान्महामुनिनेत्युभयोरपि विशेषणं महामुनीना वा, अनयोविंशष् किं नु कारणमित्युत्तरेण सम्बन्धः, अनेन धर्मविषयः संशयो व्यक्तीकृतः। सम्प्रत्याचारधर्मप्रणिधिविषयं तमेवाभिव्यनक्ति-'अचेलकश्च' उक्तन्यायेनाविद्यमानचेलकः कुत्सितचेलको वा यो धर्मो वर्धमानेन देशित इत्यपेक्ष्यते, तथा 'जो इमो'त्ति पूर्ववद्, यश्चायं सान्तराणि-वर्द्धमानस्वामिसत्कयतिवस्त्रापेक्षया कस्यचित्कदाचिन्मानवर्णविशेषतो विशेषितानि उत्तराणि च-महाधनमूल्यतया प्रधानानि प्रक्रमाद्वस्त्राणि यस्मिन्नसौ सान्तरोत्तरो धर्मः पार्श्वेन देशित इतीहापेक्ष्यते, एकं कार्य-मुक्तिलक्षणं फलं तदर्थं प्रपन्नौ-प्रवृत्तावेककार्यप्रपन्नौ तयोः प्रक्रमात्पार्श्ववर्द्धमानयोः, उभावपि हि मुक्त्यर्थमेव प्रवृत्तावितिकृत्वा, 'विशेष' उक्तरूपे 'किमि'ति संशये 'नु' वितर्के 'कारणं' हेतुः?, कारणभेदेन हि कार्यभेदसम्भव इति भावः, शेषं स्पष्टमिति सूत्रपञ्चकार्थः ।। एवं च विनेयचिन्तोत्पत्तौ यत्केशिगौतमावकार्टा तदाहमू. (८६०) अह ते तत्थ सीसाणं, वित्राय पवियक्कियं। समागमे कयमई, उभओ केसिगोयमा॥ मू. (८६१) गोअमो पडिरूवन्नू, सीससंघसमाउले । जिटुं कुलमविक्खंतो, तिंदुयं वनमागओ। मू.(८६२) केसी कमारसमणे, गोअमंदिस्समागयं। पडिरूवं पडिवर्ति, सम्मं संपडिवज्जई। मू.(८६३) पलालं फासुअंतत्थ, पचमं फुसुतिनानि य। गोयमस्स निसिज्जाए, खिप्पं संपणामए॥ वृ.'अथे' त्यनन्तरं 'ते' इति तौ प्रक्रान्तौ 'तत्रे'ति श्रावस्त्यां प्रकर्षेण वितर्कितं-विकल्पितं प्रवितार्कितं 'समागमे' मीलके 'कृतमती' विहिताभिप्रायावभूतामिति शेषः, केसिगोयमे'त्ति केशिगौतमौ, ततश्च ‘पडिरूवन्नु'त्ति प्रतिरूपविनयो-यथोचित्तप्रतिपत्तिरूपस्तं जानातीति प्रतिरूपज्ञः 'ज्येष्ठं' प्रथमभावितया कुलं' पार्श्वनाथसन्तानम् 'अपेक्षमाणः' विगणयन् 'प्रतिरूपाम्' उचितां 'प्रतिपत्तिम्' अभ्यागतकर्त्तव्यरूपां 'सम्यग्' अवैपरीत्येन समिति-सांमुख्येन प्रतिपद्यते--अङ्गीकरोति संप्रतिपद्यते। __ प्रतिपत्तिमेवाह-'पलालं' प्रतीतं 'प्रासुकं' विगतजीवं 'तत्रे'ति तस्मिस्तिन्दुकोद्याने 'पंचमं'त्तिवचनव्यत्ययात् 'पञ्चमानि' पञ्चसङ्घयापूरणानि, कानीत्याह-कुशतृणानि, चशब्दादन्यान्यपि साधुयोग्यतृणानि, पञ्चमत्वं चैषां पलालभेदापेक्षया, तस्य हिं शाल्य्दिसम्बन्धिभेदापेक्षया चत्वारो भेदाः, यत उक्तम् "तिनपनगं पुन भणियं, जिनेहिं कम्मट्ठगंठिमहणेहिं। साली वीही कोद्दवरालगरन्ने तिनाइं च ।।" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy