SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-१८,[नि. ४०४] विशेषेण परमन्त्रेभ्यः प्रतिक्रमामि, अतिसावद्यत्वात्तेषां, सोपस्कारत्वात्सूत्रस्यामुनाऽभिप्रायेण यः संयमं प्रत्युत्थानवान् सः 'अहो' इति विस्मये 'उत्थितः' धर्मं प्रत्युद्यतः, कश्चिदेव हि महात्मैवंविधः संभवति 'अहोरात्रम्' अहर्निशम्, 'इति' इत्येतदनन्तरोक्तं 'विज्ज'त्ति विद्वान जानन् 'तवं'ति अवधारणफलत्वाद्वाक्यस्य तप एव न तु प्रश्नादि, 'चरे:' आसेवस्येति सूत्रार्थः ।। पुनस्तत्स्थिरीकरणार्थमाहमू.(५९१) जंच मे पुच्छसी काले, सम्म सुद्धेण (बुद्धण) चेयसा। . ताई पाउकरे. बुद्धे, तं नाणं जिनसासने । वृ. यच्च 'मे' इति मां पृच्छसि' प्रश्नयसि काले' प्रस्तावे 'सम्यग्बुद्धेन' अविपरीतबोधवता 'चेतसा' चित्तेन, लक्षणे तृतीया, 'ता' इति सूत्रत्वात्तत् 'पाउकरे'त्ति 'प्रादुष्करोमि' प्रकटीकरोमि प्रतिपादयामीतियावत्, 'बुद्धः' अवगतसकलवस्तुतत्त्वः, कुतः पुनर्बुद्धोऽस्म्यत आह'तदि'ति यत्किञ्चिदिह जगति प्रचरति ज्ञानं-यथाविधवस्त्ववबोधरूपं तज्जिनशासनेऽस्तीति गम्यते, ततोऽहं तत्र स्थित इति तत्प्रसादादुद्धोऽस्मीत्यभिप्रायः, इह च यतस्त्वं सम्यग्बुद्धेन चेतसा पृच्छस्यतः प्रतिक्रान्तप्रश्नादिरप्यहं यत्पृच्छसि तत्प्रादुष्करोमीत्यतः पृच्छयथेच्छमित्यैदम्पर्यार्थः । अथवाऽत एव लक्ष्यते यथा 'अप्पणो य परेसिंच' इत्यादिना तस्यायुर्विज्ञतामवगम्य सञ्जयमुनिनाऽसौ पृष्टः कियन्ममायुरिति, ततोऽसौ प्राह-यच्च त्वं मां कालविषयं पृच्छसि तत्प्रादुष्कृतवान् 'बुद्धः सर्वज्ञोऽत तज्ज्ञानं जिनशासने व्यवच्छेदफलत्वाज्जिनशासन एव न त्वन्यस्मिन् सुगतादिशासने, अतो जिनशासन एव यत्रो विधेयो येन यथाऽहं जानामि तथा त्वमपि जानीषे, शेषं प्राग्वदिति सूत्रार्थः । पुनरुपदेष्टुमाहमू. (५९२) किरियं च रोअए धीरो, अकिरियं परिवज्जए। दिट्ठि दिद्विसंपन्नो, धम्मं चरसु दुच्चरं ।। वृ. 'क्रियांच' अस्ति जीव इत्यादिरूपांसदनुष्ठानात्मिकांवा 'रोचयत्' तथा तथा भावनातो यथाऽसावत्मने रुचिता जायते तथा विदध्यात् 'धीरः' मिथ्याग्भिरक्षोभ्यः, तथा 'अक्रियां' नास्त्यात्मेत्यादिकां मिथ्याकूपरिकल्पिततत्तदनुष्ठानरूपां वा 'परिवर्जयेत्' परिहरेत्, ततश्च 'दृष्टया' सम्यग्दर्शनात्मिकया हेतुभूतया 'दिट्ठिसंपन्नो'त्ति 'धीर्दष्टिः शेमुषी धिषणा' इति शाब्दिकश्रुतेर्दष्टि:-बुद्धिः, सा चेह प्रस्तावात्सम्यग्ज्ञानात्मिका तया संपन्नो-युक्तो दृष्टिसंपन्नः, एवं च सम्यग्दर्शनज्ञानान्वितः सन् 'धर्म' चारित्रधर्मं चर' आसेवस्व 'सुदुश्चरम्' अत्यन्तदुरनुष्ठेयमिति सूत्रार्थः ॥ पुनः क्षत्रियमुनिरेव सञ्जयमुनि महापुरुषौदारणैः स्थिरीकर्तुमाहमू. (५९३) एयं पुत्रपयं सुच्चा, अत्थधम्मोवसोहियं। भरहोऽवि भारहं वासं, चिच्चा कामाई पव्वए। मू.(५९४) सगरोऽवि सागरंतं, भरहवासं नराहिवो। इस्सरियं केवलं हिच्चा, दयाए परिनिव्वुडे। मू. (५९५) ___ चइत्ता भारहं वासं, चक्कवट्टी महिड्डिओ। पव्वज्जमब्भुवगओ, मघवं नाम महाजसो॥ म. (५१६) . सणंकुमारो मनुस्सिंदो, चक्कवट्टी महिड्डिओ। सणंकमारो मनस्सिंटो चक्रव For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy