SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ २१५ अध्ययनं-३२,[ नि.५३०] रणोपायविपर्यये यो दोष उक्तस्तमेव दोषान्तरहेतुनाऽभिधानद्वारेण समर्थयितुमाहमू.(१३५१) तओसि जायंति पओअणाई, निमज्जिउंमोहमहन्नवंमि। सुहेसिणो दुक्खविनोय (मुक्ख)नट्ठा, तप्पच्चयं उज्जमए अरागी।। वृ.'ततः' इति विकारापत्तेरनन्तरं 'से' तस्य 'जायन्ते' उत्पद्यन्ते 'प्रयोजनानि' विषयसेवनप्राणिहिंसादीनि 'निमज्जितु'मित्यन्त वितण्यर्थत्वान्निमज्जयितुमिव निमज्जयितुं प्रक्रमात्तमेव जन्तुं मोहो महार्णव इवातिदुस्तरतया मोहमहार्णवस्तस्मिन्, किमुक्तं भवति ?-यैर्मोहमहार्णवनिमग्न इव जन्तुः क्रियते स ह्युत्पन्नविकारतया मूढ एवासीत् विषयासेवनादिभिश्च प्रयोजनैः, सुतरां मुह्यतीति, कीदृशस्य पुनरस्य किमर्थं चैवंविधप्रयोजनानि जायन्ते? इत्याह'सुखैषिणः' सुखाभिलपणशीलस्य 'दुःखविनोदार्थं दुःखपरिहारार्थं पाठान्तरतो दुःखविमोनाय वा, सुखैषितायां हि दुःखपरिहाराय विषयसेवनादिप्रयोजनसम्भव इति भावः, कदाचिदेवंविधप्रयोजनोत्पत्तावपि तत्रायमुद्दासीन एव स्याद् ?, अत्रोच्यते-'तत्प्रत्ययम्' उक्तरूपप्रयोजननिमित्तं पाठन्तरतस्तत्प्रत्ययादुद्यच्छति चशब्दस्यैवकारार्थ-त्यादुद्यच्छत्येव, कोऽर्थः?-तत्प्रवृत्तावुत्सहत एव, 'रागी' रागवानुपलक्षणत्वाद् द्वेषी च सन्, रागद्वेषयोरेव सकलानर्थस्य परम्पराकारणत्वादिति सूत्रार्थः ॥ किमिति रागद्वेषावतः सकलाऽप्यनर्थपरम्परोच्यते? इत्याशङ्कयाहमू.(१३५२) विरज्जमाणस्स य इंदियत्था, सदाइया तावइयप्पगारा। न तस्स सव्वेपि मणुनयं वा, निव्वत्तयंती अमणुनयं वा ।। व.विरज्यमानस्येति उपलक्षणत्वादद्विषतश्च 'चः' पुनरर्थे ततो विरज्यमानस्याद्विषतश्च पुनः 'इन्द्रियार्थाः' शब्दादिकाः पाठान्तरतो वर्णादिका वा तावन्त इति यावन्तो लोके प्रतीताः प्रकारा: खरमधुरादिभेदा येषां ते तावत्प्रकाराः, बहुप्रभेदा इत्यर्थः, न 'तस्य' इति मनुजस्य सर्वेऽपि' समस्ता अपि मनोज्ञतां वा निवर्तयन्ति' जनयन्त्यमनोज्ञतां वा(निवर्तयन्ति)किन्तु?, रागद्वेषवत एव, स्वरूपेण हि रूपादयो न मनोज्ञताममनोज्ञतां वा कर्तुमात्मनः क्षमाः किन्तु रेक्ततरप्रतिपत्रध्यवसायवशाद, उच्यते चान्यैरपि "परिवाटकामुकशुनामेकस्यां प्रमदातनौ । कुणपं कामिनी भक्ष्यमिति तिस्रो विकल्पनाः ।।" ततो वीतरागस्य तन्निर्वर्तनहेत्वभावात्कथममी मनोज्ञतामनोज्ञतां वा निर्वर्त्तयेयुः?, तदभावे च कथं विषयसेवनाक्रोशदानादिप्रयोजनोत्पत्तिः ? इति, पूर्वं सति मनोज्ञत्वेऽमनोज्ञत्वे च समस्य रूपादीनामकिञ्चित्करत्वमुक्तम्, इह तु मनोज्ञत्वामनोज्ञत्वे अपि तादृशस्य न भवत एवेत्युच्यत इति पूर्वस्याद्विशेष इति सूत्रार्थः ॥ तदेवं "जे जे उपाया पडिवज्जियव्व"त्ति प्रतिज्ञातरागद्वेषयोर्मोहस्य च परस्परायतनत्वेऽपि रागद्वेषयोरतिदुष्टत्वात्साक्षात् मोहस्य च तदायतनत्वात्तद्वारेणोद्धरणोपायान् प्रतिपत्तव्यान्निरूपप्य यदा तु "जे जे अवाया परिवज्जियव्व"त्ति(पाठः) तदा रसनिषेवणादीनपायानुक्तन्यायतोऽभिधायोपसंहरन्नाहमू.(१३५३) एवं ससंकप्पविकप्पणासुं, संजायइ समयमुवट्ठियस्स। अत्थे च संकप्पयओ तओ से, पहीयए कामगुणेसु तहा। वृ. 'एवम्' उक्तप्रकारेण स्वस्य-आत्मनः संकल्पा:-प्रक्रमाद्रागद्वेषमोहरूपाध्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy