SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - ३२, [ नि. ५३० ] २०५ हितमेतदिति ज्ञात्वा, किमुक्तं भवति ? - संभवन्ति हि केचिदभ्यस्तयोगिनोऽपि ये तत्सङ्गतः क्षुभ्यन्ति येऽपि न क्षुभ्यन्ति तेऽपि स्त्रीसंसक्तवसतिवासे “साहु तवो वणवासो" इत्याद्यवर्णादिदोषभाजो भवेयुरिति परिभाव्य 'विविक्तवासो ' विविक्तशय्यासनात्मको मुनीनां प्रशस्त इत्यन्तर्भावितण्यर्थतया 'प्रशंसितः' गणधरादिभिः श्लाघित इत्यर्थः, अतः स एवाश्रयणीय इति भावः ॥ एतत्समर्थनार्थमेव स्त्रीणां दुरतिक्रमत्वमाह 'मोक्षाभिकाङ्क्षिणोऽपि' मुक्त्यभिलाषिणोऽपि मानवस्य संसारात् चतुर्गतिरूपाद्भयनशीलो भीरुः संसारभीरुः, अपेरिहापि सम्बन्धात्तस्यापितथास्थितस्यापि 'धर्मे' श्रुतधर्मादौ 'न' नैव 'एतादृशम्' ईदृशं दुस्तरं दुरतिक्रमम् 'अस्ति' विद्यते 'लोके' जगति तथा 'स्त्रियः' युवतयः ‘बालमनोहराः' निर्विवेकचित्ताक्षेपिण्यो दुस्तराः, दुस्तरत्वे च बालमनोहरत्वं हेतुः, अतश्चातिदुस्तरत्वादासां परिहार्यत्वेन विविक्तशय्यासनमेव श्रेय इति भावः ॥ नन्वेवं स्त्रीसङ्गातिक्रमार्थमयमुपाय उपदिष्टस्तथा शेषसङ्गातिक्रमणार्थमति किं न कश्चनोपाय उपदिश्यते ? इत्याह-‘यदिवा स्त्रीसाङ्गतिक्रमे गुणमाह-एतांश्च 'सङ्गान्' सम्बन्धान् प्रक्रमात्स्त्रीविषयान् 'समतिक्रम्य' उल्लङ्घय 'सुखोत्तरश्चैव' अकृच्छ्रोल्लयाश्चैव भवन्ति 'शेषाः ' द्रव्यादिसङ्गाः सर्वसङ्गानां रागरूपत्वे समानेऽपि स्त्रीसङ्गानामेवैतेषु प्रधानत्वादिति भावः, , दृष्टान्तमाहयथा‘महासागरं' स्वयम्भूरमणमुत्तीर्य 'नदी' सरित् ' भवेत्' स्यात्सुखोत्तरैवेति प्रक्रमो वीर्यातिशययोगत इति भावः, 'अवि गंगासमाने 'ति गङ्गा किलमहानदी तत्समानाऽपि तत्सदृशाऽपी, आस्तामितरा द्रनदीत्यपिशब्दार्थः । यदुक्तं "विवित्तसेज्जासणजत्तियाण " - मित्यत्र विविक्तावसथमर्थतो व्याख्याय "ओमासणाणं दमिइंदियाण" मित्यत्रावमाशनत्वमनन्तरमेव प्रक्रामभोजननिषेधेन समर्थितं, दमितेन्द्रियत्वं तूत्तरत्र वक्ष्यत इत्युभयमुपेक्ष्य 'न रागसत्तू धरिसेइ चित्त" मित्यत्र किमिति रागपराजयं प्रत्येवमुपदिश्यते ? इत्याशङ्कय रागस्य दुःखहेतुत्वं दर्शयितुमाह- कामा:- विषयास्तेष्वनुगूद्धिः सतताभिकाङ्क्षा अनुभावानुबन्ध इत्यादिष्वनोः सातत्येऽपि दर्शनात्, तस्याः प्रभवो यस्य तत्कामानुगृद्धिप्रभवं 'खु'त्ति खुशब्दस्यावधारणार्थत्वाकामानुगृद्धिप्रभवमेव, किं तत् ? - 'दुःखम्' असातं सर्वस्य लोकस्य-प्राणिगणस्य, कदाचिद्देवानां विशिष्टानुभाववत्तयैवं न स्यादत आह- 'सदेवकस्य' देवैः समन्वितस्य, कतरत्तद् दुःखमित्याह-यत् 'कायिकं' रोगादि 'मानसिकं च' इष्टवियोगादिजन्यं 'किञ्चित् ' स्वल्पमपि, कदाचिदेतदभावेऽप्येतत्स्याद् अत आहतस्य द्विविधस्यापि दुःखस्यान्तमेव अन्तकं - पर्यन्तं गच्छति 'वीतरागः' विगतकामानुगृद्धिरित्यर्थः ॥ ननु कामाः सुखरूपतयैवानुभूयन्ते तत्कथं कामानुगृद्धिप्रभवं दुःखम् ?, उच्यते, 'यथा च' इति यथैव किम्पाको वृक्षविशेषस्तत्फलानि, अपेर्गम्यमानत्वात्, 'मनोरमाण्यपि ' हृदयङ्गमान्यपि 'रसेन' आस्वादेन 'वर्णेन च' रुचिररक्तादिना चशब्दाद् गन्धादिना च 'भुज्यमानानि' उपभुज्यमानानि 'ते' इति 'तानि' लोकप्रतीतानि क्षोदयितुम् - अध्यवसनादिभिरुपक्रमकारणैर्विनाशयितुं शक्यत इति क्षुद्रं तदेवानुकम्प्यतया क्षुद्रकं सोपक्रमित्यर्थस्तस्मिन् जीविते - आयुषि पच्यमानानि - विपाकावस्थाप्राप्तानि मरणान्तदुःखदायीनीति शेषः, प्राग्वच्च लिङ्गव्यत्ययः, पठ्यते च--‘ते जीवियं खुंदति पच्चमाणे 'त्ति तानिकिम्पाकफलानि जीवितम् Jain Education International For Private & Personal Use Only www.jainelibrary.org -
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy