SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १६६ उत्तराध्ययन- मूलसूत्रम् - २ - २९ / ११५७ संपन्नो-युक्तस्तद्भावः सर्वगुणसंपन्नता तया 'अपुनरावृत्ति' पुनरिहागमनाभावो मुक्तिरितियावत्तां जनयति, अपुनरावृत्तिं प्राप्त एव प्राप्तको जीवः शारीरमानसानां दुःखानां 'नो' नैव 'भागी' भाजनं भवति तन्निबन्धनयोर्देहमनसोरभावात्, सिद्धिसुखभाजनेमव भवतीति भावः । मू. (११५८ ) वीयरागयाए णं भंते० ?, नेहाणुबंधनाणि तण्हानुबंधनाणि य वुच्छिंदइ मणुन्नामणेनेसु सद्दरूवसफरिसगंधेसु सच्चित्ताचित्तमीसएसु चेव विरज्जइ ॥ - वृ. सर्वगुणसंपन्नता च रागद्वेषपरित्यागतो जायत इति वीतरागतामाह - ' वीतरागतया'. रागद्वेषापगमरूपया बन्धनानि - रागद्वेषपरिणामात्मकानि तृष्णा - लोभस्तद्रुपाणी बन्धनानि तानि च व्यवच्छिनत्ति, पाठान्तरतश्च 'स्नेहानुबन्धानि तृष्णानुबन्धानि च ' तत्र स्नेहः पुत्रादिविषयः तृष्णा- द्रव्यादिविषया तद्रूपाण्यनुबन्धनानि तु - अनुगतान्यनुकूलानि वा बन्धनानि, अतिदुरन्तत्वख्यापनार्थं च रागान्तगर्ततत्वेऽपि पृथक् तृष्णास्नेहयोरुपादानं, ततश्च मनोज्ञेषु शब्दरसरूपगन्धेषु (सचित्ताचित्तमिश्रेषु स्त्र्यादिद्रव्येषु) चैव विरज्यते, तृष्णास्नेहयोरेव रागहेतुत्वात्, आहकषायप्रत्याख्यानफलेन वीतरागतोक्तैव तत्किमर्थमस्याः पृथगुपादानम् ?, उच्यते, रागस्यैव सकलानर्थमूलत्वख्यापनार्थं । मू. (१९५९) खंतीए णं भंते ० ?, परीसहे जिनेइ ॥ वृ. रागद्वेषाभावे च तात्त्विकाः श्रमणगुणा:, तेषु च प्रथमव्रतपरिपालनोपायत्वात्क्षान्तिरेव प्रथमेति तामाह, तत्र क्षान्तिः - क्रोधजयस्तया 'परीषहान्' अर्थाद्वधादीन् 'जयति' परीषहाध्ययनोक्तन्यायतोऽभिभवति । - मू. (११६० ) मुत्तीए णं भंते० ?, अकिंचणं जणेइ, अकिंचणे य जीवे अत्थलोलाणं पुरिसाणं अपत्थनिज्जे भवइ ॥ वृ. क्षान्तिस्थितेनापि न मुक्तिं विनाऽशेषव्रतपरिपालनं कर्त्तु शक्यमिति तामाह-मुक्ति:निर्लोभता तया किञ्चनाभावोऽकिञ्चनं, कोऽर्थः ? - निष्परिग्रहत्वं जनयति, अकिञ्चनश्च जीवोऽर्थे लोला-लम्पटा अर्थलोलाश्चौरादयस्तेषां न प्रार्थनीयः - प्रस्तावाद्बाधितुमनभिलषणीयो भवति । मू. (११६१ )अज्जवयाए णं भंते०, काउज्जुययं भावुज्जययं भासुज्जुययं अविसंवायणं जणेइ, अविसंवायणसंपन्नयाए णं जीवे धम्मस्स आराहए भवइ ॥ वृ. लोभाविनाभाविनी च मायेति तदभावेऽवश्यंभाव्यार्जवमतस्तदाह-'अज्जवयाए 'त्ति सूत्रत्वाद् ऋजुः-अवक्रस्तद्भाव आर्जवं तेन मायापरिहाररूपेण कायेन ऋजुरेव ऋजुक: कार्यजुकस्तद्भावस्तत्ताकुब्जादिवेषभ्रूविकाराद्यकरणतः प्राञ्जलता तां तथा भाव:- -अभिप्रायस्तस्मिंस्तेन वा ऋजुकता भावर्जुकता - यदन्यद्विचिन्तयन् लोकपंक्त्यादिनिमित्तम् अन्यद्वाचा कायेन वा समाचरति तत्परिहाररूपा, एवं भाषायामृजुकता भाषर्जुकता-यदुपहासादिहेतोरन्यदेशभाषया भाषणं तत्परित्यागात्मिका, तथा - 'अविसंवादनं' पराविप्रतारणं जनयति, तथाविधश्चाविंवादनसंपन्नतयोपलक्षणत्वात्कायर्जुकतादिसंपन्नतया च जीवो धर्मस्याराधको भवति, विशुद्धाध्यवसायत्वेनान्यजन्मन्यपि तदवाप्तेः । मू. (११६२ ) मद्दवयाए णं भंते ?, अनुस्सियत्तं जणेइ, अनुस्सियत्ते णं जीवे मिउमद्दवसंपन्ने अट्ठ मयद्वाणाई निद्ववेइ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy