________________
१५८
उत्तराध्ययन-मूलसूत्रम्-२-२९/११२९ चारतयैव हेतुरिति भावनीयम्।।
मू.(११३०)खमावणयाएणं भंते! जीवे किंजणेइ, २ पल्हायणभावंजणेइ, पल्हायणभावमुवगए य सव्वपाणभूयजीवसत्तेसुमित्तीभावं उप्पाएइ, मित्तीभावमुवगए य जीवे भावविसोहि काऊण निब्भए भवइ॥
वृ.प्रायश्चित्तकरणं च क्षमणावत एव भवत्यतस्तामाह-क्षमणा-दुष्कृतानन्तरं क्षमितव्यमिदं मयेत्यादिरूपा तया 'पल्हाएनंतभावं जणयइ'त्ति प्रह्लादेन-आत्मनो मनःप्रसत्त्यात्मकेनान्तर्भा(भा)वं-विनाशं प्रक्रमादनुशस्य तज्जनितचित्तसंक्लेशस्य च 'जनयति' उत्पादयति प्रह्लादेनान्तर्भावमुपगतश्च, पठन्ति च-'पल्हायणभावं जणयति, पल्हायणभावमुवगए य'त्ति, इह च प्रह्लादनभाव:-चित्तप्रसत्तिरूपोऽभिप्रायः, सर्वे च ते प्राणाश्चेह द्वित्रिचतुरिन्द्रिया भूताश्च-- तरवो जीवाश्च-पञ्चेन्द्रियाः सत्त्वाश्च-शेषजन्तवः सर्वप्राणभूतजीवसत्त्वाः, उक्तं हि
__ "प्राणा द्वित्रिचतुष्प्रोक्ता, भूताश्च तरवः स्मृताः।
जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा इतीरिताः।" तेषु 'मित्रीभावं' परहितचिन्तालक्षणमुत्पादयति, ततो मैत्रीभावमुपगतश्चापि जीवः ‘भावविशुद्धि' रागद्वेषविगमरूपां कृत्वा 'निर्भयः' इहलोकादिभयविकलो भवति, अशेषभयहेत्वभावादिति भावः।
मू.(११३१) सज्झाएणं भंते ! जीवे किं जणेइ?, २ नाणावरणिज्जं कम्मखवेइ॥
वृ.एवंविधगुणावस्थितेन स्वाध्याये यतितव्यमिति तमाह-स्वाध्यायेन ज्ञानावरणीयमुपलक्षणत्वात् शेषं च कर्म क्षपयति, यत आह
"कम्ममसंखेज्जभवं खवेइ अनुसमयमेव आउत्तो।
अन्नयरम्मिवि जोए सज्झायमि य विसेसेणं ।" मू. (११३२) वायणयाए णं भंते ! जीवे किं जणेइ ?, २ निज्जरं जणेइ सुअस्स य अनुसज्जणाए अणासायणाए वट्टइ, सुयस्स य अनुसज्जणाए अनासायणाए वट्टमाणे तित्थधम्म अवलंबइ, तित्थधम्ममवलंबमाणे महानिज्जराए महापज्जवसाने हवइ॥
वृ. अत्र च प्रथमं वाचनैव विधेयेति तामाह-वक्ति शिष्यस्तं प्रति गुरोः प्रयोजकभावो वाचना पाठनमित्यर्थस्तया 'निर्जरां' कर्मपरिशाटनं जनयति, तथा 'श्रुतस्य' आगमस्य चस्य भिन्नक्रमत्वादनाशातनायां च वर्त्तते, तदकरणे ह्यवज्ञातः श्रुतमाशातितं भवेत्, न तु तत्करण इति, पठन्ति च-'अनुसज्जणाए वट्टइ' तत्रानुषङ्ग(अ)नमनुवर्तनं तत्र वर्त्तते, कोऽर्थः ?अव्यवच्छेदं करोति, ततः श्रुतस्यानाशातनायामनुषञ्जने वा वर्तमानः तीर्थमिह गणधरस्तस्य धर्म:-आचारः श्रुतधर्मप्रदानलक्षणस्तीर्थधर्मः यदिवा तीर्थ-प्रवचनं श्रुतमित्यर्थस्तद्धर्म:स्वाध्यायस्तमवलम्बमानः-आश्रयन् महती बहुतरकर्मविषयत्वानिर्जराऽस्येति महानिर्जरो महत्-महाप्रमाणपर्यवसितत्वेन प्रशस्यं वा मुक्त्यावाप्त्या पर्यवसानम्-अन्तः कर्मणो भवस्य वा यस्य, चस्य गम्यमानत्वान्महापर्यवसानश्च भवति, मुक्तिभागू भवतीति हृदयम्।
मू.(११३३) पडिपुच्छणाए णं भंते ! जीवे किंजणेइ?, २ सुत्तत्थतदुभयाइं विसोहेइ, कंखामोहनिजं कम्मं वुच्छिदेइ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org