SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - २७, [ नि. ४९९ ] १३१ किञ्चिदित्यर्थः, ममैहिकमामुष्मिकं वा प्रयोजनं सिध्यतीति गम्यते, कै: ? - दुष्टशिष्यैः, प्रक्रमात्प्रेरितैः, किमेवमुच्यते इत्याह- आत्मा 'मे' ममावसीदति, एतत्प्रेरणादिव्यग्रतया तथाविधस्वस्वकृत्याकरणेन, तत एतत्त्यागतो वरमुद्यतविहारेणैव विहृतमिति भावः । अथैतत्प्रेरणान्तराले स्वकृत्यमपि किं न क्रियते ? इत्याह- यादृशा मम शिष्याः, 'तुः ' पूरणे, तादृशागलिगर्दभाः, यदि परमित्युपस्कारः गर्दभग्रहणमतिकुत्साख्यापकं, ते हि स्वरूपतोऽप्यतिप्रेरणयैव प्रवर्त्तन्ते, तत्स्तत्प्रेरणयैव कालोऽतिक्रामति, न तु तदन्तरालसम्भव इति भावः, यतश्चैवं ततो गलिगर्भानिव गलिगर्दमान् - दुः शिष्यांस्त्यक्त्वा 'दृढं' वाढं 'प्रगृह्णामि' पाठान्तरतः 'परिगृह्णाति वा' अङ्गीकुरुते, तदनुशासनरूपपलिमन्थत्यागतः, एकत्र सामान्येन गुरुरन्यत्र तु गर्गनामा, किन्तु 'तप:' अनशनादीति सूत्रद्वयार्थः ॥ ततः कीदृशः सन् किमसौ कुरुते ? इत्याहमू. (१०७५) विहरइ महिं महप्पा, सीईभूएण अप्पण ॥ त्तिबेमि ॥ वृ.' मृदुः' बहिर्वृत्त्या विनयवान् 'मार्दवसंपन्नः' अन्तःकरणतोऽपि तादृगेव, कुशिष्यसन्निधौ हि मृदुरपि स्वरूपतोऽमृदुरेवासीत्, उक्तं हि प्राक्- 'अणासवा थूलवया कुसीला, मिउंपि चंडंपकरंति सीसा' इति, अत एव 'गम्भीरः' अलब्धमध्यः 'सुसमाहितः' सुष्ठु चित्तसमाधानवान् 'विहरति' अप्रतिबद्धविहारेण पर्यटति 'महीं' पृथ्वीं महात्मा शीलं - चारित्रं भूतः - प्राप्तः शीलभूतस्तेनात्मना उपलक्षितः, यतश्चैवं गुरोरपि खलुङ्कत्यागत एव मार्दवादिगुणसंपन्नतेति खलुङ्क· ताया इहैवात्मनो गुरूणां च दोषहेतुत्वेन तत्त्यागतो ऽशठतैव सेवितव्येत्यध्ययनतात्पर्यार्थः ॥ 'इति' परिसमाप्तौ, ब्रवीमिति पूर्ववत् उक्तोऽनुगमः, सम्प्रति नयास्तेऽपि प्राग्वदेव ॥ अध्ययनं २७ समाप्तम् मुनि दीपरत्नसगारेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे सप्तविंशमध्ययनं सनिर्युक्तिः सटीकं परिसमाप्तम् अध्ययनं २८ मोक्षमार्गगति: मिउमद्दवसंपन्ने, गंभीरे सुसमाहिए। वृ. व्याख्यातं सप्तविंशमध्ययनम् अधुनाऽष्टाविंशमारभ्यते, अस्य चायमभिसम्बन्धःइहानन्तराध्ययनेऽशठतयैव सामाचारी परिपालयितुं शक्यत इति तामभिहितवान्, इह तु तद्व्यवस्थितस्य न्यायप्राप्तैव मोक्षमार्गगतिप्राप्तिरिति तदभिधायकमिदमध्ययनमारभ्यते, अस्य चानुयोगद्वारचतुष्टयं प्राग्वत्प्ररूपणं यावन्नामनिष्पन्नेनिक्षेपे अस्य मोक्षमार्गगतिरिति नाम अतो मोक्षस्य मार्गस्य गतेश्च निक्षेपभिधातुमाह निर्युक्तिकृत् नि. [५०० ] नि. [५०१] नि. [ ५०२ ] नि. [५०३ ] Jain Education International निक्खेवो मुक्खमि (य) चउव्विहो ॥ जाण सरीरभविए तव्वरित्ते अ नियलमाईसु । अट्ठविहकम्ममुको नायव्वो भावओ मुक्खो ॥ निक्खेवो मग्गमि (वि) चउव्विहो । जाणगसरीरभविए तव्वरित्ते अ जलथलाईसुं । For Private & Personal Use Only www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy