SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १२६ उत्तराध्ययन-मूलसूत्रम्-२-२७/१०५९ चस्य गम्यमानत्वाद् गजांकुशानीव वक्रतया वृन्तानि च-फलबन्धनानि, प्रक्रमात्करमा एवोक्तरूपाणि । अनेकधा द्रव्यखलुङ्काभिधानं च काक्वाऽनेकविधकुशिष्यदृष्टान्तप्रदर्शनार्थमिति गाथात्रयार्थः । सम्प्रति यदुक्तं प्रतिलोमः सर्वार्थेषु भावतो भवति खलुङ्क' इति तदभिव्यक्तीकर्तुमाहनि. [ ४९६] दंसमसगस्समाना जलुयवाविच्छुयसमा य जे हुंति। ते किर होंति खलुंका तिक्खम्मिउचंडमद्दविआ। नि. [ ४९७] पिसुणा परोवतावी भिन्नरहस्सा परं परिभवंति। निव्विअनिज्जा य सढा जिनवयणे ते किर खलुंका॥ वृ.दंशमशकैः ‘समाण'त्ति समाना:-तुल्या दंशमशकसमानाः, ते हि जात्यादिभिस्तद्वत्तुदन्तीति, तथा जलौकाकपिच्छुकसमानाश्च प्रस्तावाच्छिच्या ये भवन्ति, दोषग्राहितयाऽप्रस्तुतपृच्छादिनोद्वेजकतया च, पठन्ति च-'जलूकविच्छुगसमा य'त्ति यथा वृश्चिकोऽवष्टब्धो विध्यत्येय कण्टकेन एवं ये शिष्यमाणा गुरुं वचनकण्टेकविध्यन्ति 'ते' एवंविधाः किल भवन्ति खलुङ्का भावत इति गम्यते, तीक्ष्णा-असहिष्णवो मुदवः-अलसतया कार्यकारणं प्रत्यदक्षाश्चण्डाः-कोपनतया मार्दवेन चरन्ति मार्दविकाः-शतकृत्वोऽपि गुरुप्रेरिता न सम्यनुष्ठानं प्रति प्रवर्त्तन्ते किन्त्वलसा एव, अमीषां द्वन्द्वः। __अन्यच्च-ये किल 'गुरुप्रत्यनीका:' आचार्यदिप्रतिकूलाः कूलवालकवत् ‘शबलाः' शबलचारित्रयोगात् 'असमाधिकारकाः' गुर्वादीनामसमाधानजनकाः, अत एव पापाः 'अधिकरणकारकात्मानः' कलहकर्तृस्वभावाः सदनुष्ठानं प्रति प्रेर्यमाणा युद्धायैवोपतिष्ठन्ते, 'जिनवचने' सर्वज्ञशासने ते किल खलुङ्का इत्युच्यन्त इति शेषः।। तथा 'पिशुनाः' सूचकाः, अत एव 'परोवयावि'ति परोपतापिनः 'भिन्नारहस्याः' विश्वस्तजनकथितरहस्यभेदिनः तथा 'परम्' अन्यं 'परिभवन्ति' येन केनचित्प्रकारेणाभिभवन्ति 'निव्वेयणिज्ज'त्ति निर्वेदनीया निर्वेदं प्राप्य प्रक्रमाद्यतिकृत्येन, पाठान्तरतो निर्गता वचनीयाद्उपदेशवाक्यात्मकान ये ते निर्वचनीयाः, च: समुच्चये भिन्नक्रमश्च, ततः 'शठाश्च' मायाविनः, पठ्यते च-'निव्वया निस्सीलसढ'त्ति सुगममेव, 'जिनवचने' श्रीसर्वज्ञशासने भणिता ये इति शेषः, ते प्रागभिहितस्वरूपाः किल खलुङ्का इति गाथात्रयार्थः ।। ततः किमित्याहनि. [ ४९९] तम्हा खलुंकभावं चइऊणं पंडिएण पुरिसेणं । कायव्वा होइ मई उज्जुसभावंमि भावेणं ।। व.तस्मादित्थं दोषवन्तं खलुङ्कभावं त्यक्त्वा 'पण्डितेन' बुद्धिमत्ता पुरुषेण उपलक्षणत्वात् स्त्र्यादिना च कर्त्तव्या भवति ‘मतिः' बुद्धिः क्व?-'ऋजुस्वभावे' आर्जवे भावे 'भावेन' परमार्थेन न तु बहिर्वृत्त्यैवेति गाथार्थः ।। अवसितो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्मू.(१०५९) थेरे गणहरे गग्गे, मुनी आसि विसारए। आइने गणिभावम्मि, समाहिं पडिसंघए। वृ. धर्मेऽस्थिरान् स्थिरीकरोतीति स्थविर: उक्तं हि-"थिरकरणा पुन थेरो" गणं-गुणसमूह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy