SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - २६, [ नि. ४८९ ] १११ भावसामत्वं चास्य तात्त्विकस्य क्षायोपशमिकादिभावरूपत्वात् परस्परमविरोधेन चावस्थानात्, तथा प्रत्येकप्ररूपणां वक्ष्ये इति प्रतिज्ञामभिधाय यत् प्ररूपणानभिधानं तदावश्यकनिर्युक्तौ कृतत्वात्तद्गाथयोरेव चैककर्तृकत्वेनेह लिखितत्वान्न दुष्टमिति भावनीयं, सूत्रक्रमोल्लङ्घनं तु यथाविषयं सर्वेषां सदाकृत्यत्वेन पूर्वापरभावस्याभावप्रदर्शनार्थं, तथा 'तव्वइरित्ते य नामणाईसु' न्ति सोपस्कारत्वान्नामनधावनादिषु सुकराणि यानि द्रव्याणि तानि तद्यतिरिक्तो द्रव्याचार उच्यते, यत उक्तम् "नामणधोवणवासणसिक्खावणसुकरणाविरोहीणि । दव्वाणि जाणि लोए दव्वायारं वियाणाहि ।।" भावे दशविधाया इच्छादिभेदेन सामाचार्या आचरणा, अत्र बहुलग्रहणात्स्त्रियां युट्, एवमाप्रच्छनादिष्वपि भावत्वं तु जीवद्रव्यपर्यायत्वादस्येति गाथापट्कार्थः ॥ सम्प्रत्यध्ययननामान्वर्थमाह नि. [ ४९० ] इच्छाइसाममेसुं आयरणं वन्निअं तु जम्हेत्थ । तम्हा सामाचारी अज्झयणं होइ नायव्वं ॥ वृ. 'इच्छादिसाम' त्ति सुब्व्यत्ययाद् इच्छादिसामसु 'एषु' अनन्तराभिहितेषु 'आचरणम्' एतद्विषयमनुष्ठानं‘वर्णितं' प्ररूपितं 'तुः' पूरणे यस्मादत्राध्ययने तस्मात्सामाचारीति - सामाचारीनामकमिदमिति प्रक्रमे अध्ययनं भवति ज्ञातव्यम्, अयमाशयः - समाचारोऽत्र वर्ण्यते ततः समाचारे भवमिति विवक्षायां शैषिकोऽण् रूढितश्च स्त्रीलिङ्गता, तथा च 'टिड्ढाणञ्' इत्यादिना डीपि सामाचारीति भवतीति गाथार्थः ॥ गतो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं तच्चेदम्सामायारिं पवक्खामि, सव्वदुक्खविमुक्खाणि । मू. (१००७) जं चरित्ता न निग्गन्धा, तिन्ना संसारसागरं ॥ वृ.समाचरणं-समाचारस्तस्य भावो 'गुणवचनब्राह्मणादिभ्य' इति ष्यञ्, तस्य च षित्करणसामर्थ्यात् स्त्रियामपि वृत्तिरिति 'षिद्गौरादिभ्यश्चे 'ति डीपि सामाचारी तां-यतिजनेतिकर्त्तव्यतारूपामहं प्रवक्ष्यामि 'सर्वदुःखविमोक्षणीम्' अशेषशारीरमानसासातविमुक्तिहेतुम् अत एव यां सामाचारीं 'चरित्वा' आसेव्य 'न' इति वाक्यालङ्कारे 'निर्ग्रन्थाः ' यतयस्तीर्णाः संसारसागर, मुक्तिं प्राप्ता इति भावः, उपलक्षणत्वाच्च तरन्ति तरिष्यन्ति चेति सूत्रार्थः ॥ यथाप्रतिज्ञातमाह मू. ( १००८ ) मू. (१००९) मू. (१०१०) एसा दसंगा साहूणं, समायारी पवेइया ॥ वृ. सूत्रत्रयं स्पष्टमेव, नवरं व्रतग्रहणादप्यारभ्य कारणं विना गुर्ववग्रहे आशातनादोषसम्भवान्न Jain Education International For Private & Personal Use Only पढमा आवस्सिया नाम, बिइया य निसीहिया । आपुच्छणा य तइया, चउत्थी पडिपुच्छणा ॥ पंचमा छंदणा नामं, इच्छाकारो अ छट्टओ । सत्तमो मिच्छकारो य, तहक्कारो य अट्टमो ॥ अब्भुद्वाणं नवमा, दसमा उवसंपया । www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy