________________
२५२
उत्तराध्ययन- मूलसूत्रम् - १-९/२२८ इओ य गंधारजनविसएस पुरिसपुणं नाम नयरं, तत्थ नग्गती राया, सो य अन्नया अनुजत्तं निग्गतो पेच्छइ-चूयं कुसुमियं तेनेगा मंजरी गहिया, एवं खंधावारेणं लयंतेणं कट्ठावसेसो कतो, पडिनियत्तो पुच्छति-कहिं सो चूयरुक्खो ?, अमच्चेण अक्खातो एसोत्ति, तो किह कट्टाकतो ?, भणति - तुब्भेहिं एक्को मंजरी गहिया, पच्छा सव्वेणवि जनेण गहिया, सो चितेइएवं रज्जसिरित्ति, जाव रिद्धी ताव सोहति, अलाहि 'जो चूय०' गाहा, सोऽवि विहरति ४ ॥
चत्तारिवि विहरमाणा खिइपतिट्ठिए नयरे चाउद्दारं देउलं, पुव्वेण करकंडू पविट्ठो, दुम्मुहो दक्खिणेण, किह साहुस्स अन्नामुहो अच्छामित्ति तेन वाणमंतरेण दक्खिणपासेवि मुहं कयं, नमी अवरेण, तओऽवि मुहं कयं, गंधारो उत्तरेण, तओऽवि मुहं कयं ।
तस्स किर करकंडुस्स आबालत्तणा सा कंडू अत्थि चेव, तेन कंडूयगं गहाय मसिणं कण्णो कंडूइतो, तं तेन एगत्थ संगोवियं, तं दुम्मुहो पेच्छइ, सो भणइ - 'जया रज्जं ० ' सिलोगो, जाव करकंडू पडिवयणं न देति ताव नमी वयणसमकं इमं भणइ 'जया ते पेतिते रज्जे ० ' सिलोगो, किं तुमं एयस्स आउत्तगोत्ति भणति, ताहे गंधारो भणति - 'जया सव्वं परिच्चज्ज० ' सिलोगो, ताहे करकंडू भणति - 'मोक्खमग्गपवन्नाणं० ' सिलोगो "रूसऊ वा परो मा वा विसं वा परियत । भासियव्वा हिया भासा, सपक्खगुणकारिया।।” इत्येष सम्प्रदायः ।
एष एव च गाथाकदम्बकभावार्थ:, अक्षरार्थस्तु स्पष्ट एव, नवरं मिथिला नाम नगरी, तस्याः पतिः-स्वामी मिथिलापतिस्तस्य, अनेनान्येषामपि तत्पतीनां सम्भवात् तद्व्यवच्छेदमाह, 'नमेः ' नमिनाम्नः, 'छम्मासायंकविज्जपडिसेहो 'त्ति षण्मासानातङ्को-दाहज्वरात्मको रोगः षण्मासातङ्कः तत्र वैद्यै:- भिषग्भिः, प्रतिषेधो-निराकरणम्, अचिकित्स्योऽयमित्यभिधानरूपः षण्मासातङ्कवैद्यप्रतिषेधः, ‘कत्तिय'त्ति कार्तिकमासे 'सुविनगदंसणंति' स्वप्न एव स्वप्नकस्तस्मिन् दर्शनं स्वप्नदर्शनम्, अभूदिति शेष:, क: ?, य: 'अहिमंदर' त्ति अहिमन्दरयोः नागराजाचलराजयोः ‘नंदिघोसे येत्ति' द्वादशतूर्यसङ्घातो नन्दी तस्या घोषः, स च स्वप्नमवलोकयतो जात:, तेन चासौ प्रतिबोधितः इत्युपस्कारः ।
इह च मिथिलापतिर्नमिरित्युक्तौ मा भूत्तथाविधस्य तीर्थकरस्यापि नमः सम्भवाद्यामोह इति 'द्वौ नमी वैदेहौ' इत्याद्युक्तं । तथा 'पुप्फुत्तरातो 'त्ति पुष्पोत्तरविमानाच्च्यवनं - भ्रंशनम्, एकसमयेनेति योज्यते, प्रव्रज्या च- निष्क्रमणं भवत्येकसमयेनैव, तथा प्रत्येकम् एकैकं हेतुमाश्रित्य 'बुद्धाः' अवगततत्त्वाः प्रत्येकबुद्धाः, 'केवलिन: ' उत्पन्नकेवलज्ञानाः, 'सिद्धिगताः ' मुक्तिपदप्राप्ताः, त्रयाणामपि कर्मधारयः, एकसमयेनैवेति चतुर्णामपि समसमयसम्भवात् ।
तथा 'सेयं सुजायं 'त्ति श्वेतं वर्णतः सुजातं प्रथमत एवाहीनसमस्ताङ्गोपाङ्गतया, सुष्ठु - शोभने विभक्ते- विभागेनावस्थिते शृङ्गेविषामे यस्य स तथा तम्, ऋद्धि-बलोपचयात्मिकाम् अनृद्धिःतस्यैव बलापचयतस्तर्णकादिपरिभवरूपां 'समुपेहिया णं' ति सम्यगुत्प्रेक्षेति पर्यालोच्य पाठान्तरतः ‘समुत्प्रेक्षमाणो' वा कलिङ्गराजोऽपीत्यत्रापिशब्द उत्तरापेक्षया समुच्चये । तथा 'इन्द्रकेतुम्' इन्द्रध्वजं ‘प्रविलुप्यमान' मिति जनैः स्वस्ववस्त्रालङ्कारादिग्रहणतः इतश्चेतश्च विक्षिप्यमाणं । तथा 'पूरावरेयं 'त्ति पूरः- पूर्णता अवरेको रिक्तताऽनयोः समाहारे पूराव - रेकं । तथा 'समञ्जरीपल्लवपुप्फचित्तं ' सह मञ्जरीभिः - प्रतीताभिः पल्लवैश्च-किशलयैर्यानि
For Private & Personal Use Only
Jain Education International
-
www.jainelibrary.org