________________
अध्ययनं-५,[ नि. २०९]
१८७ देशत्वादिकं वस्तुनो वैशिष्टयमाख्यातुं शक्यमिति, भावे' भावविषये निक्षेपे आयुषो-जीवितस्य क्षयो-ध्वंस: आयुःक्षयो 'मुणितव्यो' ज्ञातव्यो, मरणमित्युपस्कारः, तदपि च त्रिविधम्'ओहे'त्ति ओघमरणं-सामान्यतः सर्वप्राणिनां प्राणपरित्यागात्मकं भवति, भवमरणं-यन्नारकादेनरकादिभवविषयतया विवक्षितं, 'तब्भविय'त्ति तद्भविकमरणं यस्मिन्नेव मनुष्यभवादौ मृतः पुनस्तस्मिन्नैवोत्पद्य यन्म्रियते इति व्याख्यानिकाभिप्रायो, वृद्धास्तुव्याचक्षेते-'तं भावमरणं दुविहं-ओघमरणं तब्भवमरणं च, तथा तद्भवमरणस्वरूपं च 'जो जम्मि भवग्गहणे मरइ' । तत्र च ओहे तब्भमरणे' इति पाठो लक्ष्यते। इह चैषां येनाधिकारस्तमाह-'मनुस्सभविएणं'ति मनुष्यभवभाविना भवमरणान्तर्वर्त्तिना मनुष्यभविकमरणेनाधिकार:-प्रकृतम्, इति गाथार्थः सम्प्रति विस्तरतो मरणवक्तव्यताविषयं द्वारगाथाद्वयमाहनि.[२१०] मरणविभत्तिरूवण अनुभावो चेव तह पएसग्गं ।
कइ मरइ एगसमयं? कइखुत्तो वावि इक्किक्के ? | नि.[२११] मरणंमि इक्कमिक्के कइभागो मरइ सव्वजीवाणं? ।
अनुसमय संतरं वा इक्किक्कं किच्चिरं कालं? ॥ वृ.तत्र मरणस्य विभक्तिः-विभागस्तस्य प्ररूपणा-प्रदर्शना मरणविभक्तिप्ररूपणा, कार्येति शेषः, अनुभागश्च-रसः, सच तद्विषयस्यायु:कर्मणः, तत्रैव तत्संम्भवात्, मरणे हि तदभावात्मनि कथं तत्सम्भव इति भावनीयम्, एवेति पूरणे, तथा प्रदेशानां-तद्विषयायु:कर्मपुद्गलात्मकानाम् अग्रं-परिमाणं प्रदेशाग्रं, वाच्यमिति गम्यते, 'कति' कियन्ति मरणानी, अङ्गीकृत्य इति शेषः, म्रियते-प्राणांस्त्यजति, जन्तुरिति गम्यते, एगसमय'ति सुब्ब्यत्ययात् एकस्मिन् समये कइखुत्तो'त्ति कतिकृत्वः कियतो वारान्, 'वा' समुच्चये, अपिः पूरणे, ‘एक्ककंति' एकैकस्मिन् वक्ष्यमाणभेदे मरणे म्रियते इति योज्यम्, 'मरणे' वक्ष्यमाणभेद एवैकैकस्मिन् ‘कतिभागो'त्ति कतिसङ्घयो भागो म्रियते, 'सर्वजीवानाम्' अशेषजीवानाम् 'अनुसमय'ति प्रतिसमयं निरन्तरमितियावत्, अन्तरं-व्यवधानं सहान्तरेण वर्तत इति सान्तरं, वा विकल्पे, किमुक्तं भवति?एषु कतरन्निरन्तरं सान्तरं वा?, तथैकैकं ‘कियच्चिरं' कियत्परिमाणं कालं सम्भवतीति गाथाद्वयाक्षरार्थः ।। भावार्थं तु स्वत एव वक्ष्यति नियुक्तिकार:-तत्र च यथोद्देशं निर्देश' इति न्यायतः प्रथमं द्वारमाश्रित्याहनि.[२१२] आवीचि ओहि अंतिय वलायमरणं वसट्टमरणं च ।
अंतोसल्लं तब्भव बालं तह पंडियं मीसं॥ नि.[२१३] छउमत्थमरण केवलि वेहाणस गिद्धपिट्ठमरणं च ।
मरणं भत्तपरिना इंगिनी पाओवगमणं च ।।। वृ. इह च मरणशब्दस्य प्रत्येकमभिसम्बन्धात् आवीचिमरणम् १ अवधिकरणम् २ 'अन्तिय'त्ति आर्षत्त्वादत्यन्तमरणं ३ 'वलायमरणं'ति तत एव वलन्मरणं ४ वशा-मरणं च ५ अन्तःशल्यमरणं ६ तद्भवमरणं७ बालमरणं ८ तथा षण्डितमरणं ९ मिश्रमरणं १० छद्मस्थमरणं ११ केवलिमरणं १२ 'वेहानसं'ति तत एव वैहायसमरणं १३ गृध्रपृष्ठमरणं १४ 'मरणं भत्तपरिण्ण'त्ति भक्तपरिज्ञामरणम् १५ इङ्गिनीमरणं १६ षादपोपगमनमरणं १७ चेतिगाथाद्वयार्थः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org