SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ १२४ दशवैकालिक-मूलसूत्र-४/-/३२ वनस्पतिकाया एववनस्पतिकायिकाः। एवं त्रसनशीलास्त्रसा:-प्रतीता एव, त्रसा, काया:-शरीराणि येषां ते त्रसकायाः,त्रसकाया एवत्रसकायिकाः। इहच सर्वभूताधारत्वात् पृथिव्याः प्रथमं पृथिवीकायिकानामभिधानं, तदनन्तरंतत्प्रतिष्ठितत्वादप्कायिकानामपि, तदनन्तरंतत्प्रतिपक्षत्वात्तेजस्कायिनां, तदनन्तरं तेजस उपष्टम्भकत्वाद्वायुकायिकानां, तदनन्तरंवायोः शाखाप्रचलनादिगम्यत्वाद्वनस्पतिकायिकानां, तदनन्तरंवनस्पतेस्त्रसोपग्राहकत्वात्रसकायिकानामिति। विप्रतिपत्तिनिरासार्थं पुनराह-'पुढवी चित्तमंतमक्खाया' 'पृथिवी' उक्तलक्षणा 'चित्तवती'ति चित्तं-जीवलक्षणं तदस्याम अस्तीति चित्तवती-सजीवेत्यर्थः, पाठान्तरंवा पुढवी' चित्तमत्तमक्खाया' अत्र मात्रशब्दः स्तोकवाची, यथा सर्षपत्रिभागमात्रमिति, ततश्चचित्तमात्रा-स्तोकचित्तेत्यर्थः, तथा च प्रबलमोहोदयात्सर्वजघन्यं चैतन्यमेकेन्द्रियाणां, तदभ्यधिकं द्वीन्द्रियादीनामिति, 'आख्याता' सर्वज्ञेन कथिता, इयं च 'अनेकजीवा' अनेके जीवा यस्यां साऽनेकजीवा, न पुनरेकजीवा, यथा वैदिकानां 'पृथिवी देवते' त्येवमादिवचनप्रामाण्यादिति। अनेकजीवाऽपि कैश्चिदेकभूतात्मापेक्षयेष्यत एव, यथाहुरेक एक एव हि भूतात्मा, भूते भूते व्यवस्थितः। एकधा बहुधा चैव, दृश्यते जलचन्द्रवत्॥" अत आह'पृथक्सत्त्वा' पृथग्भूताः सत्त्वा-आत्मानो यस्यांसा पृथक्सत्त्वा, अङ्गुलासंख्येयभागमात्रावगाहनया पारमार्थिक्याऽनेकजीवसमाश्रितेति भावः । आह-यद्येवं जीवपिण्डरूपा पृथिवी ततस्तस्यामुच्चारादिकरणे नियमतस्तदतिपातादहिंसकत्वानुपपत्तिरित्यसंभवी साधुधर्मइत्यत्राह'अन्यत्र शस्त्रपरिणतायाः' शस्त्ररिणतां पृथिवीं विहाय-परित्यज्यान्या चित्तवत्याख्यातेत्यर्थः। अथ किमिदं पृथिव्याः शस्त्रमिति शस्त्रप्रस्तावात्सामान्यत एवेदं द्रव्यभावभेदभिन्न शस्त्रमभिधित्सुराहनि.[२३१] दव्वंसत्थग्गिविसंनेहंबिल खारलोणमाईयं। भावो उदुप्पउत्तो वाया काओ अविरई अ॥ वृ. 'द्रव्य'मिति द्वारपरामर्शः, तत्र द्रव्यशस्त्र खड्डादि, अग्निविषस्नेहाम्लानि प्रसिद्धानि, 'क्षारलवणादीनि' अत्र तु क्षार:-करीरादिप्रभवः, लवणं-प्रतीतम्, आदिशब्दात्करीषादिपरिग्रहः । उक्तं द्रव्यशास्त्रम्, अधुना भावशस्त्रमाह-भावस्तु दुष्प्रयुक्तौ वाक्कायौ अविरतिश्च भावशस्त्रमिति, तत्र भावो दुष्प्रयुक्त इत्यनेन द्रोहाभिमानेादिलक्षणो गृह्यते, वाग्दुष्प्रयोगस्तु हिंस्रपुरुषादिवचनलक्षणः, कायदुष्प्रयोगस्तु धावनवल्गनादिः, अविरतिस्त्वविशिष्टा प्राणातिपातादिपापस्थानकप्रवृत्तिः, एतानि स्वपव्यापादकत्वात्कर्मबन्धनिमित्तत्वाद्भावशस्त्रमिति गाथार्थः ॥ इह न भावशस्त्रेणाधिकारः, अपितु द्रव्यशस्त्रेण, तच्च त्रिप्रकारं भवतीत्याहनि.[२३२] किंची सकायसत्थं किंची परकाय तदुभयं किंची। ___ एयं तु दव्वसत्थं भावे अस्संजमो सत्थं। वृ.किंचित्स्वकायशस्त्र, यथा कृष्णा मृद् नीलादिमृदः शस्त्रम्, एवं गन्धरसस्पर्शभेदेऽपि शस्त्रयोजनाकार्या, तथा 'किञ्चित्परकाये'ति परकायशस्त्रं, यथा पृथिवी अप्तेजःप्रभृतीनाम् अप्तेजःप्रभृतयो वा पृथिव्याः, 'तदुभयं किञ्जि'दिति किञ्जित्तदुभयशस्त्रं भवति, यथा कृष्णा Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.003331
Book TitleAgam Suttani Satikam Part 27 Dasvaikaalika
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy