SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ मूलं- ६३२ वृ. इहसा षट्कायव्यग्रहस्ता उच्यते तस्या हस्ते सजीवं लवणमुदकमनिर्वायुपूरितो वा वस्तिर्फलादिकं बीजपूरादिकं मत्स्यादयो वा विद्यन्ते, ततः सा यद्येतेषां सजीवलवणादीनामन्यतमदपि श्रमणभिक्षादानार्थं भूम्यादौ निक्षिपतितर्हि नकल्पते । तथाऽवगाहना नामयदेतेषां षण्णां जीवनिकायानां पादेन सङ्घट्टनं, शेषकायेन हस्तादिना सम्मर्द्दनं सङ्घट्टनम् आरभमाणा कुश्यादिना भूम्यादि खनन्ती, अनेन पृथिवीकायारम्भ उक्तः, यद्वा 'मज्जंती' शुद्धेन जलेन स्नान्ती, अथवा 'धावंती' शुद्धेनोदकेन वस्त्राणि प्रक्षालयन्ती, यदिवा किश्चिद् वृक्षवल्लयादि सिञ्चन्ती, एतेनाप्कायारम्भो दर्शितः, उपलक्षणमेतेत्, ज्वलयन्ती वा फूत्कारेण वैश्वानरं बस्त्यादिकंवासचित्तवायुभृतमितस्ततः प्रक्षिपन्ती, एतेनाग्निवायुसमारम्भ उक्तः, तथा शाकादेश्छेदविशारणे कुर्वती, तत्र छेदः - पुष्पफलादेः खण्डनं विशारणं तेषामेव खण्डानां शोषणायातपे मोचनम्, आदिशब्दातण्डुलमुद्रादीनां शोधनादिपरिग्रहः, तथा छिदन्ती षष्ठान् त्रसकायान् मत्स्यादीन् 'फुरुफुरते' इति पोस्फूर्यमाणान, पीडयोछेल्लत इत्यर्थः, अनेन त्रसकायारम्भ उक्तः । इत्थं षड़जीवनिकायानारभमाणाया हस्तान्न कल्पते । सम्प्रति षट्कायव्यग्रहस्तेति पदस्य व्याख्याने मतान्तरमुपदर्शयति मू. (६३३) छक्कायवग्गहत्था केई कोलाइकन्नलइयाई । सिद्धत्थगपुप्फाणि य सिरंभि दिन्नाइं वज्जति ॥ वृ.केचिदाचार्याःषट्कायव्यग्रहस्तेतिवचनतः 'कोलादीनि' बदरादीनि, आदिशब्दात्करीरादिपरिग्रहः, ‘कन्नलइयाइं’तिकर्णे पिनद्वानि तथा सिद्धार्थकपुष्पाणि शिरसि दत्तानि वर्जयन्ति, हस्तग्रहणं हि किल सूत्रे उपलक्षणं, तेन कर्णे शिरसि वा जीव निकायसम्भवे तद्वस्तान्न कल्पते, तन्मतेन षट्कायव्यग्रहस्तेतिपदात् षट्कायं सङ्घट्टयन्तीतस्य पदस्यविशेषो दुरुपपादः । मू. (६३४) अन्ने भांति दुससुवि एसणदोसेसु नत्थि तग्गहणं । तेन न वज्जं भन्नइ ननु गहणं दायगग्गहणा ।। - षट्काय वृ. अन्ये त्वाचार्यदेशीया भणन्ति यथा दशस्वपि शङ्कितादिषु एषणादोषेषु मध्ये न तद्वहणंव्यग्रहस्तेत्युपादानमस्ति, तेन कारणेन कोलादियुक्तादात्र्या भिक्षाग्रहणं न वर्ज्यं, तदेतत्, पापात्पापीयो, यत-आह- ‘भण्यते' अत्रोत्तरं दीयते ननु दायकग्रहणादेषणादोषमध्ये षट्कायव्यग्रहस्तेत्स्य ग्रहणं विद्यते, तत्कथमुच्यते- न ग्रहणमिति ? | सम्प्रति संसक्ति मद्रव्यदात्र्यादिदोषानाह मू. (६३५) संसज्जिमम्मि देसे संसज्जिमदव्वलित्तकरमत्ता । संचारी ओयत्तण उक्खिप्पंतेऽवि ते चैव ॥ वृ. संसक्ति मद्रव्यवति देश-मण्डले संसक्ति मता द्रव्येण लिप्तः करो मात्रं वा यस्याः सा तथाविद्या दात्री भिक्षां ददती करादिलग्रान सत्त्वान हन्ति, तस्मात्सा वर्ज्यते, तथा महतः पिठरांदरपवर्त्तन 'सञ्चारः' सूचनात्सूत्र' मिति सञ्चारिमकीटिकामत्कोटादिसत्त्वव्याघातः, इदमुक्तं भवति महत्पिढरं यदा तदा वा नोत्पाठ्यते नापि यथा तथा वा सचार्यत, महत्त्वादेव, किन्तु प्रयोजनविशेषात्पत्ती सकृत्, ततस्तदाश्रिताः प्रायःकीटिकादयःसत्त्वाःसम्भवन्ति, ततोयदा तत्पिठरादिकमुद्धर्त्यकिञ्चिद्ददाति तदा तदाश्रितजन्तुव्यापादः, एतं च दोषा उत्पाठ्यमानेऽपि महित पिठरादी, तत्रापि हि भूयो निक्षेपणे हस्तसंस्पर्शतो वा सञ्चारिमकीटिकादि सत्त्वव्याघातः, अपि च तथाभूतस्य महत्त उत्पाटने दात्र्याः पीडाऽपि भवति, तस्मान्न तदुत्पाटनेऽपि भिक्षा कल्पते । सम्प्रति साधारणं चेरितकं वा ददत्या दोषानाह 1 मू. (६३७ )... साधारण बहूणं तत्थ उ ढोसा जहेव अनिसिट्टे । Jain Education International ३९९ For Private & Personal Use Only www.jainelibrary.org
SR No.003330
Book TitleAgam Suttani Satikam Part 26 Oghniryukti Pindniryukti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages436
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_oghniryukti, & agam_pindniryukti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy