SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - ६ - [ नि. १५५४ ] प्रायश्चित्तभेषजेनापराधव्रणचिकित्सोक्ता, इह तु गुणधारणा प्रतिपाद्यते, भूयोऽपि मूलगुणोत्तरगुणधारणा कार्येति, सा च मूलगुणोत्तरगुणप्रत्याख्यानरूपेति तदत्र निरूप्यते, यद्वा कायोत्सर्गाध्ययने कायोत्सर्गकरणद्वारेण प्रागुपात्तकर्मक्षयः प्रतिपादितः, यथोक्तं- 'जह करगओ नियंतई' त्यादि, 'काउस्सग्गे जह सुट्ठियस्से' त्यादि, इह तु प्रत्याख्यानकरणतः कर्मक्षयोपशमक्षयजं फलं प्रतिपाद्यते, वक्ष्यते च २७९ 'इहलोइयपरलोइय दुविह फलं होइ पञ्चखाणस्स । इहलोए धम्मिलादी दामण्णगमाइ परलोए ||१|| पच्चक्खाणमिणं सेविऊण भावेण जिनवरुद्दिट्टं । पत्ता अनंतजीवा सासयसोक्खं लहुं मोक्खं ||२|| 1 इत्यादि, अथवा सामायिके चारित्रमपवर्णितं, चतुर्विंशतिस्तवेऽर्हतां गुणस्तुतिः सा च दर्शनज्ञानरूपा, एवमिदं त्रितयमुक्तं, अस्य च वितथासेवनमैहिकामुष्मिकापायपरिजिहीर्षुणा गुरोर्निवेदनीयं तच वन्दनपूर्वमित्यतस्तन्निरूपितं निवेद्य च भूयः शुभेष्वेव स्थानेषु प्रतीपं क्रमणमासेवनीयमिति तदपि निरूपितं, तथाऽयशुद्धस्य सतोऽपराधव्रणस्य चिकित्सा आलोचनादिना कायोत्सर्गपर्यवसानप्रायश्चित्त भेषजेनानन्तराध्ययन उक्ता, इह तु तथाप्यशुद्धस्य प्रत्याख्यानतो भवतीति तन्निरूप्यते, एवमनेकरूपेण सम्बन्धेनायातस्य प्रत्याख्यानाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चं वक्तव्यानि, तत्र नामनिष्पत्रे निक्षेपे प्रत्याख्यानाध्ययनमिति प्रत्याख्यानमध्ययनं च, तत्र प्रत्याख्यानमधिकृत्य द्वारगाथामाह नियुक्तिकारः नि. (१५५५ ) पच्चक्खाणं पञ्चक्खाओ पच्चक्खेयं च आनुपुव्वीए । परिसा कहणविही या फलं च आईइ छब्भेया ॥ वृ- 'ख्या प्रकथने' इत्यस्य प्रत्याङ्पूर्वस्य ल्युडन्तस्य प्रत्याख्यानं भवति, तत्र प्रत्याख्यायतेनिषिध्यतेऽनेन मनोवाक्कायक्रियाजालेन किञ्चिदनिष्टमिति प्रत्याख्यानं क्रियाक्रियावतोः कथञ्चिदभेदात् प्रत्याख्यानक्रियैव प्रत्याख्यानं प्रत्याख्यायतेऽस्मिन् सति वा प्रत्याख्यानं " कृत्यल्युटो बहुल" मिति वचनादन्यथाऽप्यदोषः प्रति आख्यानं प्रत्याख्यानमित्यादौ, तथा प्रत्याख्यातीति प्रत्याख्याता-गुरुर्विनैयश्च तथा प्रत्याख्यायत इति प्रत्याख्येयं प्रत्याख्यानगोचरं वस्तु, चशब्दस्त्रयाणामपि तुल्यकक्षतोद्भावनार्थं, आनुपूर्व्या परिपाट्या कथनीयमिति वाक्यशेषः, तथा परिषद् वक्तव्या, किंभूतायाः परिषदः, कथनीयमिति, तथा कथनविधिश्चकथनप्रकारश्च वक्तव्यः, तथा फलं चैहिकामुष्मिकभेदं कथनीयं, आदावेते षड् भेदा इति गाथासमासार्थः । व्यासार्थ तु यथाऽवसरं भाष्यकार एव वक्ष्यति, तत्राद्यावयव्यासार्थ प्रतिपिपादयिषयाह [भा. २३८] ▸ नामंठवणादविए अइच्छ पडिसेहमेव भावे य । एए खलु छन्भेया पच्चक्खाणंमि नायव्वा ॥ वृ- नामप्रत्याख्यानं स्थापनाप्रत्याख्यानं 'दविए 'त्ति द्रव्यप्रत्याख्यानं, 'अदिच्छत्ति दातुमिच्छा दित्सा न दित्सा अदित्सा सैव प्रत्याख्यानमदित्साप्रत्याख्यानं 'पडिसेहे 'त्ति प्रतिषेघप्रत्याख्यानं, 'एवं भावे 'त्ति एवं भावप्रत्याख्यानं च, 'एए खलु छब्भेया पच्चढक्खाणंमि नायव्व' त्ति गाथादलं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003329
Book TitleAgam Suttani Satikam Part 25 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages356
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy