SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - ४ - [ नि. १४१७] २३५ सेवनाभिमुखतया, तथा प्रीति रुचिश्चभिन्न एव, यतः क्वचिद्दध्यादौ प्रीतिसद्भावेऽपि न सर्वदा रुचिः, 'फासेमि' त्ति स्पृशामि आसेवनाद्वारेणेति 'अनुपालेमि' अनुपालयामि पौनःपुन्यकरणेन 'तं धम्मं सद्दहंतो' इत्यादि, तं धर्म श्रद्दधानः प्रतिपद्यमानः रोचयन् स्पृशन् अनुपालयन् 'तस्स धम्मस्स अब्भुट्टिओमि आराधनाए 'त्ति तस्य धर्मस्य प्रागुक्तस्य अभ्युत्थितोऽस्मि आराधनायाम्आराधनविषये 'विरतोमि विराधनाए 'त्ति विरतोऽस्मि निवृत्तोऽस्मि विराधनायां विराधनाविषये, एतदेव भेदेनाह- 'असंजमं परियाणामि, संजमं उवसंपज्जामि' असंयमं प्राणातिपातादिरूपं प्रतिजानामीति ज्ञपरिज्ञया विज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याख्यामीत्यर्थः, तथा संयमं - प्रागुक्तस्वरूपं उपसंपद्यामहे (द्ये), प्रतिपद्याम (हे) इत्यर्थ:, तथा 'अबंभं परियाणामि बंभ उवसंपज्जामि' अब्रह्म-बस्त्यनियमलक्षणं विपरीतं ब्रह्म, शेषं पूर्ववत्, प्रधानासंयमाङ्गत्वाच्चाहब्रह्मणो निदानपरिहारार्थमनन्तरमिदमाह, असंयमाङ्गत्वादेवाह - 'अकप्पं परियाणामि कप्पं उवसंपज्जामि' अकल्पोऽकृत्यमाख्यायते कल्पस्तु कृत्यं इति, इदानीं द्वितीयं बन्धकारणमाश्रित्याह, यत उक्तं (च)"अस्संजमो य एक्को अन्नाणं अविरई यदुविहं" इत्यादि । 'अन्नाणं परियाणआमि नाणं उवसंपज्जामि' अज्ञानं सम्यगूज्ञानादन्यत् ज्ञानं तु भगवद्वचनजं, अज्ञानभेदपरिहरणायैवाह-'अकिरियं परियाणामि किरियं उवसंपज्जामि' अक्रिया - नास्तिवादः क्रिया- सम्यग्वादः । तृतीयं बन्धकारणमाश्रित्याह'मिच्छत्तं परियाणामि सम्मत्तं उवसंपज्जामि' मिथ्यात्वं पूर्वोक्तं सम्यक्त्वमपि, एतदङ्गत्वादेवाह'अबोहिं परियाणामि बोहिं उवसंपज्ञ्जामि' अबोधिः- मिथ्यात्वकार्य बोधिस्तु सम्यक्त्वस्येति, इदानीं सामान्येनाह - 'अमग्गं परियाणामि मग्गं उवसंपज्जामि' अमार्गो - मिथ्यात्वादिः मार्गस्तु सम्यग्दर्शनादिरिति । इदानीं छद्मस्थत्वादशेषशुद्ध्यर्थमाह मू. (३३) जं संभरामि जं च न संभारमि जं पडिक्कमाभि जं च न पडिक्कमामि तस्स सव्वस्स देवसियस्स अइयारस्स पडिक्कमामि समणोऽहं संजयविरयपडिहयपच्चक्खायंपावकम्मो अनियाणो दिट्ठिसंपन्नो मायामोसविवज्जिओ । वृ- यत् किञ्चित् स्मरामि यच्च छद्मस्थानाभोगान्नेति, तथा 'जं पडिक्कमामि जं च न पडिक्कमामि' यत् प्रतिक्रमामि आभोगादिविदितं यच्च न प्रतिक्रमामि सूक्ष्ममविदितं, अनेन प्रकारेण यः कश्चिदतिचारः कृतः 'तस्स सव्वस्स देवसियस्स अविरस्स पडिक्कमामि'त्ति कण्ठ्यं, इत्थं प्रतिक्रम्य पुनरकुशलप्रवृत्तिपरिहारायात्मानमालोचयन्नाह 'समणोऽहंसंजयविरयपडियपच्चक्खायपावकम्मो अनियाणो दिट्ठिसंपन्नो मायामोसविवजिओ' त्ति श्रमणोऽहं तत्रापि न चरकादिः, किं तर्हि ?, संयतः सामस्त्येन यतः इदानीं, विरतो - निवृत्तः अतीतस्यैष्यस्य च निन्दासंवरणद्वारेण अत एवाहप्रतिहतप्रत्याख्यातपापकर्मा, प्रतिहतम् - इदानीमकरणतया प्रत्याख्यातमतीतं निन्दया एष्यमकरणतयेति, प्रधानोऽयं दोष इतिकृत्वा ततशुन्यतामात्मनो भेदेन प्रतिपादयन्नाह-‘अनिदानो' निदानरहितः सकलगुणमूलभूतगुणयुक्ततां दर्शयन्नाह - ' द्दष्टिसंपन्नः' सम्यग्दर्शनयुक्त इत्यर्थः । वक्ष्यमाणद्रव्यवन्दनपरिहारायाह-मायामृषाक्विर्जकः (विवर्जितः) - मायागभमृपावादपरिहारीत्युक्तं भवति । एवंभूतः सन् किं ? - मू. (३४) अड्डाइजेसु दीवसमुद्देसु पनरससु कम्मभूमीसु जावंति केइ साहू रयहरणगुच्छपडिग्गहधारा पंचमहव्वयधारा । अड्डारसहस्ससीलंगधारा अक्खयायारचरिता ते सव्वे सिरसा मणसा मत्थएण For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003329
Book TitleAgam Suttani Satikam Part 25 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages356
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy