SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १५७ उपोद्घातः - [नि.४४५] वमद्वितीओ नेरइओ उववण्णो । अयमासां भावार्थः, अक्षरार्थस्त्वभिधीयते-राजगृहे नगरे विश्वनन्दी राजाऽभूत्, विशाखभूतिश्च तस्य युवराजेति, तत्र जुवरण्णो'त्ति युवराजस्य धारिणीदेव्या विश्वभूति नामा पुत्र आसीत्, विशाखनन्दिश्चेतरस्य राज्ञ इत्यर्थः, तत्रेत्थमधिकृतो मरीचिजीवः ‘रायगिहे विस्सभूति'त्ति राजगृहे नगरे विश्वभूति म विशाखभूतिसुतः क्षत्रियोऽभवत्, तत्र च वर्षकोट्यायुष्कमासीत्, तस्मिश्च भवे वर्षसहस्त्रं दीक्षा प्रव्रज्या कृता संभूतियतें: पार्श्वे । तत्रैवनि. (४४६) गोत्तासिउ महुराए सनिआणो मासिएण भत्तेणं । महसुक्के उववन्नो तओ चुओ पोअणपुरंमि ॥ वृ-पारणके प्रविष्टो गोत्रासितो मथुरायां निदानं चकार, मृत्वा च सनिदानोऽनालोचिताप्रतिक्रान्तो मासिकेन भक्तेन महाशुक्रे कल्पे उपपन्न उत्कृष्टस्थितिर्देव इति, ‘ततो' महाशुक्राच्युतः पोतनपुरे नगरेनि. (४४७) पुत्तो पयावइस्सा मिआवईदेविकुच्छिसंभूओ । नामेण तिविठ्ठत्ती आई आसी दसाराणं ॥ वृ-पुत्रः प्रजापते राज्ञः मृगावतीदेवीकुक्षिसंभूतः नाम्रा त्रिपृष्ठः ‘आदिः' प्रथमः आसीद् दसाराणां, तत्र वासुदेवत्वं चतुरशीतिवर्षशतसहस्त्राणि पालयित्वा अधः सप्तमनरकपृथिव्यामप्रतिष्ठाने नरके त्रयस्त्रिंशत्सागरोपमस्थिति रकः संजात इति ॥ अमुमर्थं प्रतिपादयन्नाहनि. (४४८) चुलसीईमप्पइढे सीहो नरएस तिरियमनुएसु । पिअमित्त चक्कवट्टी मूआइ विदेहि चुलसीई ॥ वृ- चतुरशीतिवर्षशतसहस्त्राणि वासुदेवभवे खल्वायुष्कमासीत्, तदनुभूय अप्रतिष्ठाने नरके समुत्पन्नेः, तस्मादप्युद्वर्त्य सिंहो बभूव, मृत्वा च पुनरपि नरक एवोत्पन्न इति, 'तिरियमनुएसुत्ति' पुनः कतिचित् भवग्रहणानि तिर्यग्मनुष्येषूत्पद्य 'पिअमित्त चक्कवट्टी मूआइ विदेहि चुलसीइ' त्ति अपरविदेहे मूकायां राजधान्यां धनञ्जयनृपतेः धारिणीदेव्यां प्रियमित्राभिधानः चक्रवर्ती समुत्पन्नः, तत्र चतुरशीतिपूर्वशतसहस्त्राण्यायुष्कमासीदिति गाथार्थः । नि. (४४९) पुत्तो धनंजयस्सा पुट्टिल परिआउ कोडि सव्वढे । नंदन छत्तग्गाए पणवीसाउं सयसहस्सा ॥ वृ-गमनिका-तत्रासौ प्रियमित्रः पुत्रो धनञ्जयस्य धारिणीदेव्याश्च भूत्वा चक्रवर्तिभोगान् भुक्त्वा कथञ्चित् संजातसंवेगः सन् ‘पोट्टिल इति' प्रोष्ठिलाचार्यसमीपे प्रव्रजितः ‘परिआओ कोडि सव्वढे' त्ति प्रव्रज्यापर्यायो वर्षकोटी बभूव, मृत्वा महाशुक्रे कल्पे सर्वार्थे विमाने सप्तदशसागरोपमस्थितिर्देवोऽभवत् 'नंदन छत्तग्गाए पणवीसाउं सयसहस्सेति' ततः सर्वार्थसिद्धाच्युत्वा छत्राग्रायां नगर्यां जितशत्रुनृपतेर्भद्रादेव्या नन्दनो नाम कुमार उत्पन्न इति, पञ्चविशतिवर्षशतसहस्त्राण्या-युष्कमासीदितिगाथार्थः ॥ तत्र च बाल एव राज्यं चकार, चतुर्विशतिवर्षसहस्त्राणि राज्यं कृत्वा ततःनि. (४५०) पव्वज्ज पुट्टिले सयसहस्स सव्वत्थ मासभत्तेणं । पुप्फुत्तरि उववन्नो तओ चुओ माहणकुलंमि । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy