SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ व्यवहार - छेदसूत्रम्-१एएसिंतुपयाणं, पत्तेयंपरुवणंवोच्छं ।। वृ-व्यवहार उक्तशब्दार्थः,व्यवहरतीत्येवंशीलोव्यवहारीव्यवहारक्रियाप्रवर्तकः,प्रायश्चित्तदायीति यावत्, तथा ये पुरुषा पुरुषग्रहणं पुरुषोत्तमो धर्म इति ख्यापनार्थमन्यथास्त्रियोपिदृष्टव्यास्तासामपि प्रायश्चित्तदानविषयतया प्रतिपादयिष्यमाणत्वात्, यथा येन वक्ष्यमाणेन प्रकारेण व्यवहर्तव्या व्यवहारक्रियाविषयीकर्तव्यः, पाठांतरं जे जहा काले अस्यायमर्थः, ये यथा यस्मिन् काले व्यवहर्तव्यास्तद्यथा यदा आगम व्यवहारिणः संति, तदा तदुपदेशेनैव व्यवहर्त्तव्यास्तेषु व्यविच्छिन्नेषु श्रुतज्ञानव्यवहार्युपदेशेन तदेवचाज्ञयापि तदेव धारणया तदेवतु जीतव्यवहारेणापि व्यवहर्त्तव्या इति, एतेषां व्यवहारव्यवहारिव्यवहर्तव्यरुपाणां त्रयाणां पदानां तु विशेषणे स चैतद्विशिनष्टि, संक्षेपप्ररुपणार्थमिदमाह ।। [भा.२] ववहारी खलुकत्ताववहारो होइकरणभूतो उ । ववहरियव्व कज्जकुंभादितियस्सजह सिद्धी ।। वृ-ववहारी खलुकत्ततिव्यवहारस्य कर्ताव्यवहारस्यछेत्ताभिधीयतेइतिशेषः,व्यवहारः पुनर्भवति करणभूतः व्यवहार च्छेदक्रिया प्रतिकरणंत्व प्राप्तः, तु शब्दः पुनरर्थे व्यवहरितसंबंधश्च, स च यथा स्थानयोजित एव स च व्यवहारः करणभूतः पंचधा १ आगमः २ श्रुतमा ३ धारणा ५ जीतश्च आह चूर्णिकृत्, पंचविधो व्यवहारः करणमिति, तेन च पंचविधेन व्यवहारेण करणभूतेन व्यवहरन् कर्ता यन्निष्पादयति कार्य, तद् व्यवहर्त्तव्यमित्सुच्यते, तथा चाह ववहरियव्वाय जे जहा पुरिसा इति, अथ कथं व्यवहारग्रहणेन व्यवहारी व्यवहर्त्तव्यश्च सूच्यते, नखलु देवदत्तग्रहणेन यज्ञदत्तस्य सूचा भवतीति तत आहकुंभादितियस्य जह सिद्धि कुंभ आदिरेषामिति कुंभादयस्तेषां त्रिकं कुंभादित्रिकं, तस्य यथा सिद्धिःकुंभग्रहणेनतथाकुंभइत्युक्तेसकृतकइतितस्यकर्ताकुलालः करणंमृच्चक्रादिसामर्थ्यात्तन्यते, कृतकस्यासतः कर्तृकरण व्यतिरेकणासंभवात् एवमत्रापि, व्यवहार इत्युक्तेव्यवहारि व्यवहर्त्तव्यश्च सूच्यते करणस्यापि सकर्मकक्रिया साधकतमरुपस्य कर्मकर्तृव्यतिरेकेणासंभवादिति त्रितयसिद्धिः तदेवमेकग्रहणे सामर्थ्यादितरस्य द्वयस्य ग्रहणं भवत्येतत् सामान्येन सनिदर्शनमुक्तं, संप्रतिकरणग्रहणेऽवश्यकर्तुकर्मग्रहणंभवतीत्यर्थे निदर्शनमाह ।। [भा.३] नाणंनाणीनेयं, अन्ना वामग्गणा भवेतितए । विविहंवा विहिणा वा, ववणहरणंचववहारो ।। वृ- मार्गणा भवति तामेवाह, नाणीनाणं नेयमिति, तत्र ज्ञायते वस्तु परिच्छिद्यते अनेनेति ज्ञानं, तत्रयथाज्ञानमित्सुक्तेज्ञानिनोज्ञानक्रियाकर्तुज्ञेयस्य चज्ञानक्रियाविषयस्य परिच्छेदस्यसिद्धिर्भवति, तद्वितयसिद्धिमंतरेण ज्ञानस्य ज्ञानत्वस्यैवासंभवादेवमत्रापिव्यवहार ग्रहणेन व्यवहारी व्यवहव्यश्च सूच्यते इति भवति त्रितयस्याप्युपज्ञेपः एका तावन्मार्गणा त्रितयविषया कुंभादित्रिकसिद्धिदृष्टांते प्रागभिहिता, वा शब्द प्रकारांतरे अथवा इयमन्या त्रितया विषया तदेव संज्ञेपतो व्यवहारादिपदत्रयस्य प्ररुपणा कृता,संप्रति यथाक्रमविस्तरेणतांचिकीर्षुः प्रथमतोव्यवहारपदस्य निरुक्तंवक्तुकाम इदमाह विविहं वा इत्यादि विविधं तद्योग्यतानुसारेण विचित्र विधिना वा सर्वज्ञोक्तेन प्रकारेण वपनं तपः प्रभृत्यनुष्टानविशेषस्य दानंटुवबीजतंतुसंताने इति वचनात् हरणमतीचारदोषजातस्य अथवा संभूय द्वित्र्यादिसाधुनांक्वचित्प्रयोजनेप्रवृत्तीयत् यस्मिन्वा भवति तस्य तस्मिन् वपनमितरस्माच्चहरणमिति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy