SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ उद्देशक : : ३, मूलं - ९४, [भा. ४२९४] ४६९ 'अविषहमाणे' सोढुमशक्ते साधवोऽनया यतनया स्वक्षेत्रे परक्षेत्रे वा वस्त्राणि गृह्णन्ति ॥ पंचूने दो मासे, दसदिवसूने दिवड्डमासं वा । दस-पंचऽधियं मासं, पणुवीसदिने व वीसं वा ॥ [भा. ४२९५ ] [ भा. ४२९६ ] पत्ररस दस य पंच व दिनानि परिहरिय गेण्ह एगं वा । अहवा एक्केक्कदिणं, अउनट्ठिदिणाई आरम्भ ॥ वृ-आगाढे कारणे पञ्चभिर्दिवसैरूनौ द्वौ मासौ परिहृत्य वस्त्र ग्रहीतव्यम् । अथ तावन्तं कालं यावद् बाल-वृद्धादयः शीतेन परिताप्यमाना न संस्तरन्ति ततो दशदिवसोनौ द्वौ मासौ परिहृत्य वस्त्रं ग्राह्यम् । एवं सार्धमासं दशदिवसाधिकं वा पञ्चदिवसाधिकं वा अन्यूनाधिकं वा मासं पञ्चविंशतिदिनानि विंशतिदिनानि पञ्चदशदिनानि दशदिनानि पञ्च वा दिनानि यथाक्रमं परिहृत्य वस्त्र गृह्णीयात् । अथ पञ्च दिवसानपि वस्त्रभावे बाल-वृद्धादयो नात्मानं निर्वाहयितुमीशास्ततश्चत्वारि त्रीणि द्वे यावदेकमपि दिनं परिहृत्य ग्रहीतव्यम् । अथवा एकैकदिनहानिरत्र द्रष्टव्या, तद्यथा-यत्र वर्षावासं स्थितास्तत्र षष्टिदिनानि परिहृत्य उत्सर्गतो वस्त्रग्रहणं कर्त्तव्यम्, कारणे पुनरेकोनषष्टिदिनान्यारभ्यैकैकदिनं हापयता तावद् वक्तव्यं यावदेकमपि दिनं परिह्वत्य वस्त्रग्रहणं कार्यम् ॥ व्याख्यातं प्रथमसमवसरणसूत्रम्, सम्प्रति द्वितीयसमवसरणसूत्रं व्याख्याति[भा. ४२९७ ] बिइयम्मि समोसरणे, मासा उक्कोसगा दुवे होंति । ओमत्थगपरिहाणीय पंच पंचेव य जहने ॥ वृ- द्वितीयं समवसरणं नाम - ऋतुबद्धकालः, तत्र मासकल्पेन स्थिता वस्त्रादिकमुपकरणमुत्पादयन्ति, मासकल्पानन्तरं च तत्र द्वौ मासावुत्कर्षतः परिहर्त्तव्यौ भवतः । कारणे तु तथैवावाङ्मुखपरिहाण्या पञ्च पञ्च दिनानि हापयता तावद् नेयं यावद् जघन्यत एकंदिनं परिहर्त्त-व्यम् ।। अमुमेवार्थं स्फुटतरमाह[भा. ४२९८] अपरिहरंतस्सेते, दोसा ते च्चैव कारणे गहणं । बाल-वुड्डाउले गच्छे, असती दस पंच एक्को य ।। वृ- यत्र क्षेत्रे मासकल्पः कृतस्तत्र द्वौ मासावपरिहरतस्त एव दोषा मन्तव्या ये वर्षावासमासद्वयमपरिहरत उक्ताः । कारणे तु ग्रहणं कर्त्तव्यम्, कथम् ? इत्याह-बाल-वृद्धाकुले गच्छे वस्त्राभावे पञ्चकपरिहाण्या एकैकपरिहाण्या वा तावद् वक्तव्यं यावद् दश वा पञ्च वा एको वा दिवसः परिहर्त्तव्यः । यत्र संविग्नैर्मासकल्पो वर्षाकल्पो वा कृतस्तत्र मासद्वयादुपरि पञ्चसु दिवसेष्वपूर्णेष्वन्येषां न कल्पते किञ्चिदपि ग्रहीतुम् ।। यो गृह्णाति तस्य दोषानुपदर्शयति [भा. ४२९९ ] करणानुपालयाणं, भगवतो आणं पडिच्छमाणाणं । जो अंतरा उ ण्हति तट्ठाणारोवणमदत्तं ॥ वृ- करणस्य - पिण्डविशुध्यादेः अनु-पश्चात् पूर्वऋषिपरम्पराक्रमेण पालकाः करणानुपालकास्तेषाम्, करणस्य च चरणाविनाभावित्वात् चरणानुपालकानामित्यपि द्रष्टव्यम्, एतेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy