SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ३, मूलं- ९२, [भा. ४२०३] [भा. ४२०३ ] एतं पि मा उज्झह देह मज्झं, मज्झच्चगा गेण्हह एक्क दो वा । अत्तट्ठिए होति कदायि सव्वे, सव्वे वि कप्पंति विसोधि एसा ।। वृ- 'एनमपि' वस्त्रप्रत्यवतारमकल्पनीयतया मा यूयमुज्झत किन्तु मह्यं प्रयच्छत, मदीयप्रत्यवतारात् चैकं द्वो वा यूयं गृह्णीत । अथ तेन बहवः प्रत्यवताराः क्रीतास्ततः को विधिः? इत्याह-यान् प्रत्यवतारान् एकं वा द्वौ वा त्रीन् वा स दाता आत्मार्थयति सर्वांन् वा कदाचिदात्मार्थं करोति तदा सर्वेऽपि कल्पन्ते । एष विशोधिकोटिविषयो विधिरुक्तः ॥ अथाविशोधिकोटिविषयं तमेवाह [ मा. ४२०४] उग्गमकोडीए वि हु, संछोभो तहेव होतऽनिहिडे । इयरम्मि वि संछोभो, जइ सो सेहो सयं भणइ ॥ वृ-उद्गमकोटिर्नाम-आधाकर्मादयो अविशोधिकोटयो दोषाः तेष्वपि यद् 'अनिर्दिष्टम्' 'इदं साधूनां दास्यामि इदं मम भविष्यति' इति निर्देशमन्तरेण वस्त्रदि कृतं तत् कल्पते । “संछोभ तहेव होअनिद्दिट्ठि” त्ति अनिर्दिष्टेऽपि यद्यसौ दाता ब्रूयात्-यैर्वस्त्रर्ययं निमन्त्रिता यदि तानि नेच्छ्रथ तत इमानि मत्परिगृहीतानि गृह्णीत, यानि युष्माभि प्रतिषिद्धानि तानि मम भविष्यन्ति । एवमसौ “संछोभं प्रक्षेपकं कृत्वा यदि ददाति तर्हि सर्वाण्यपि कल्पन्ते । “इतरम्मि वि संछोभो” त्ति इतरद् नाम-निर्दिष्टं तत्रापि संछोभो यदि स्यात् ततः कल्पते । संछोभः पुनरयम् - यद्यसौ गृहस्थशैक्षः 'स्वयम्' अन्येनानुपदिष्ट आत्मनैवेत्थं भणति ॥ [भा. ४२०५ ] उक्कोसगा व दुक्खं, वुवज्जिया केसितोऽहं मि विधेव । इति संछोभं तहियं, वदंति निद्दिट्ठगेसुं पि ॥ वृ- यानि वस्त्राणि मया युष्मदर्थं कारितानि तानि 'उत्कृष्टानि ' बहुमूल्यानि ततः कथं परित्यज्यन्ते ? ; 'दुःखं वा' महता प्रयासेन वा (व्या) यितानि अतः 'क्लेशितः' क्लेशं प्रापितोऽहं वृथैवामीभिः, युष्माकमनुपकरणात्; अतो मदीयानि यूयं गृह्णीथ युष्मदीयानि च मम भवन्तु, 'इति' एवं तत्र 'निर्दिष्टेष्वपि ' संयतनिमित्तं निर्दिश्य कृतेष्वेपि संछोभं कल्पनीयताकारणं वदन्ति तीर्थकरादयः, संयतनिर्दिष्टान्यपि कल्पन्त इति भावः ॥ अत्र मतान्तरमुपन्यस्य दूषयन्नाह [भा. ४२०६] जह अत्तट्ठा कम्मं, परिभुत्तं कप्पते उ इतरेसिं । इय तेन परिग्गहियं, कप्पइ इयरं पि इयरेसिं ॥ 1929 Jain Education International ४४९ वृ-या अविशोधिकोटि 'संयतनिर्दिष्टा' साधून् निर्दिश्य कृता सा संछोभे कृतेऽपि न कल्पते; एवं केचिदाचार्या ब्रूवते तत् तु न युज्यते । यस्मात् 'शैक्षस्य' अनुपस्थापितस्य 'अविशुद्धम्' अनेषणीयं वस्त्र- पात्रादि दीयते इति अत्रैव चतुर्थोद्देशके वक्ष्यति । तत्र शैक्षयोग्यमविशुद्धं साधुभिः परिगृहीतं भवति, अतो ज्ञायते-अविशोधिकोटिदोषदुष्टमपि वस्त्रादिकं संछोभे कृते कल्पते ।। किञ्चान्यत्[भा. ४२०७] जय अत्तट्ठा कम्मं, परिभुत्तं कप्पते उ इतरेसिं । इय तेन परिग्गहियं, कप्पइ इयरं पि इयरेसिं ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy