________________
उद्देशक : २, मूलं- ५४, [भा. ३४१०]
२९१
शैक्षस्य भवेत्, विपरिणतश्च सम्यग्दर्शनं चारित्रं लिङ्गं वा परित्यजेत् । तथा 'तेन' संयतेन विकटभाजनं गृह्णता वाशब्दाद् मुञ्जता वा तद् भाजनं 'खण्डितम्' एकदेशभग्नं 'विद्धं वा' पातितच्छिद्रं 'भिन्नं वा' द्विधाकृतं भवेत् ॥ इत ऊर्ध्वं "फेडिय मुद्दा तेनं" इत्यारभ्य “अम्हे ठिएल्लम च्चिय, अहापवत्तं वहह तुभे" इतिपर्यन्तं गाथाकदम्बकं तथैवाध्येतव्यम् । नवरं मद्याभिलापः कर्त्तव्यः । ततश्च
[भा. ३४११] आमंति अब्भुवगए, भिक्ख-वियाराइनिग्गयमिएसु । भइ गुरु सागारिय, कहि मज्जं जाणणट्ठाए ।
वृ-यदि शय्यातरेण 'आमम्' इत्यभ्युपगतं 'यूयं निश्चिन्तास्तिष्ठथ, वयं यथाप्रवृत्तं व्यापारं चिन्तयिष्यामः' इति ततः ‘गुरु' आचार्यो भिक्षाचर्या विचारभूम्यादिनिर्गतेषु मृगेषु-अगीतार्थसाधुषु सागारिकं भणति 'कुत्र मद्यमस्ति ?' इत्येवं परिज्ञानार्थम् । किं भणति ? इत्याहगोडी पिट्ठीणं, वंसीणं चेव फलसुराणं च । दिट्ठ मए सन्निचया, अन्ने देसे कुटुंबीणं ॥
[ भा. ३४१२]
वृ- ‘गौडीनां' गुडनिष्पन्नानां 'पैष्टीनां' व्रीह्यादिधान्यक्षोदनिष्पन्नानां 'वांशीनां' वंशकरीलकनिष्पन्नानां ‘फलसुराणां च' तालफल द्राक्षा-खर्जूरादिनिष्पन्नानाम् एवंविधानां सुराणां सन्निचया अन्यस्मिन् देशे मया कुटुम्बिनां गृहेषु दृष्टाः ।।
" एवं च भणियमित्तम्मि कारणे सो भनाइ आयरियं ।
अत्थि महं सन्निचया, पिच्छह नानाविहे मजे ॥”
इत्यादिकाः “ दारं न होइ इत्तो ० " इतिपर्यन्ता गाथाः प्राग्वदत्र सव्याख्याना द्रष्टव्याः । अथात्रैव या विशेषतो यतना कर्त्तव्या तामभिधित्सुराह
[ भा. ३४१३]
गहियम्मि व जा जयणा, गेलने अधव तेन गंधेनं । सागारियादिगहणं, नेयव्वं लिंगभेयाई ॥
वृ- शैक्षकेण विकटे 'गृहीत' पीते सति या यतना कर्त्तव्या सा वक्तव्या । ग्लानत्वे वा वैद्योपदेशेन विकटं ग्रहीतव्यम्, अथवा 'तेन' विकटसम्बन्धिना गन्धेन कस्यापि गृहवासे विकटभावितस्याध्युपपातो भवेत्, ततः सागारिकः शय्यातरः स आदिशब्दात् श्रावको वा यो मातापितृसमानस्ततो विकटस्य ग्रहणं कर्त्तव्यम् । यदि खलिङ्गेन न प्राप्यते उड्डाहो वा भवति ततो लिङ्गभेदादिकमपि 'नेतव्यं' कर्त्तव्यमिति यावत् । एष निर्युक्तिगाथासमासार्थः । अथैनामेव विवरीषुराह[भा. ३४१४] पीयं जया होजऽ विगोविएणं, तत्थाऽऽनइत्ताण रसं छुभंति । भन्ने उ गोणादिपए करेंति, तेसिं पवेसस्स उ संभवम्मि ॥
वृ- यदा किल 'अविकोविदेन' शैक्षकेण शेषसाधुषु प्रसुप्तेषु तद् विकटं पीतं भवेत् तदा गीतार्था 'तत्र' विकटभाजने 'रसम्' इक्षुरसादिकमानीय प्रक्षिपन्ति । अथ कथमपि तद् भोजनं गृह्यमाणं मुच्यमानं वा भिन्नं ततो भिन्ने सति तस्मिन् गवादीनां पदानि प्रतिश्रयप्राङ्गणे प्रविशन्ति निर्गच्छन्ति च 'कुर्वन्ति' आलिखन्तित्यर्थः, येन सागारिका जानीते, यथा- गवादिना प्रविश्य भग्नमिदं भाजनमिति । परं यदि 'तेषां' गवादीनां तत्र प्रवेशः सम्भवति; अन्यथा हि सागारिकः प्रद्वेषं यायात् एकं तावदमी इत्थं स्तेनकर्मकारिणः अपरं च तदपह्नवनायेत्थं प्रपञ्चमुपरचयन्ति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org