SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २९७ उद्देशकः १, मूलं-५, [भा. ११११] [भा.११११]निम्मा घरवइ थूभिय, तइओ दुहणा वि जावपावंति । नाणिस्साहिपइस्स व, जं संठाणं तु सद्दस्स ।। वृ- 'तृतीयः' सूत्रक्रमप्रामाण्येन ऋजुसूत्रः, सः “निम्म"त्ति मूलादानां “घर वइ"त्ति गृहाणां वृतेर्वा स्तूपिकानां वा उपलक्षणत्वात् कटकानां कुट्टिमानां वा यत् संस्थानं माले वा भूमिकादाढर्यसम्पादनार्थमकुट्यमाने 'द्रघणाः' मुद्गरा ऊर्ध्वमुक्षिप्यमाणा यावद् आकाशतलं प्राप्नुवन्ति तावन्तर्यादीकृत्य यत् संस्थानमेतत्सर्वमपि प्रत्येकं ऋजुसूत्रोमन्यते। तथा 'ज्ञानिनः' ग्रामपदार्थज्ञस्य ग्रामाधिपतेवी यत् संस्थानं तदेव शब्दनयस्य ग्रामसंस्थानतयाऽभिप्रेतमिति ॥ गतं द्रव्यग्रामद्वारम् । अथ भूतादिग्रामभेदान् भावयति[भा.१११२]चउदसविहो पुन भवे, भूतग्गामो तिहा उ आतोजो। ___ सोतादिंदियगामो, तिविहा पुरिसा पिउग्गामो॥ वृ-भूताः-प्राणिनस्तेषां ग्रामः-समूहो भूतग्रामः, स चतुर्दशविधः । तथा चाहएगिदिय सुहुमियरा, सन्नियर पणिंदिया य सबि-ति-चऊ। पज्जत्ताऽपज्जत्ता, भेएणंचउदस ग्गामा॥ एकेन्द्रिया द्विविधाः-सूक्ष्मा बादराश्च सूक्ष्मनामकर्मोदयवर्तिनः सूक्ष्माः । बादरनामकर्मोदयवर्तिनो बादराः। द्वीन्द्रियाः-कृम्यादयः । त्रीन्द्रियाः-कुन्थु-पिपीलिकादयः । चतुरिन्द्रिया भ्रमरादयः । पञ्चेन्द्रिया द्विविधाः-संज्ञिनोऽसंज्ञिनश्च। संज्ञिनः-गर्भजतिर्यङ्-मनुष्या देव-नारकाश्च। असंज्ञिनः सम्मूर्छिमास्तिर्यङ्-मनुष्याः । एते च स्वयोग्यपर्याप्तिभिः पर्याप्ता वा स्युरपर्याप्ता । पर्याप्ति म शक्ति, सा चाहार-शरीरेन्द्रिय-प्राणापान-भाषा-मनःपर्याप्तिभेदात् षोढा । तत्र तया शक्त्या करणभूतया भुक्तमाहारंखल-रसरूपतया करोतिसा आहारपर्याप्ति।ययातुरसीभूतमाहारं धातुरूपतया परिणमयति सा शरीरपर्याप्ति । यया धातुरूपतया परिणमितादाहारादिन्द्रियप्रायोग्यद्रव्याण्युपादायैकद्वित्र्यादीन्द्रियरूपतयापरिणमय्य स्पर्शादिविषयपरिज्ञानसमर्थो भवति सा इन्द्रियपर्याप्तिः । यया पुनरुच्छ्वास-भाषा-मनःप्रायोग्याणि दलिकान्यादाय यथाक्रममुच्छ्वासरूपतया भाषात्वेन मनस्त्वेन वा परिणमय्याऽऽलम्ब्य च मुञ्चति सा क्रमेण प्राणापानपर्याप्तिर्भाषापर्याप्तिर्मनः पर्याप्ति। एताश्च यथाक्रममेकेन्द्रियाणांचतस्रो, द्वीन्द्रियादीनां सम्मूर्छिमतिर्यङ्-मनुष्यान्तानां पञ्च, संज्ञिपदचेन्द्रियाणां च षड् भवन्ति । एवं चपूर्वोक्ताः सप्तापि भेदाः पर्याप्तापर्याप्तभेदाद् द्विधा भिद्यमानाश्चतुर्दश भवन्ति । एष चतुर्दशविधो भूतग्रामः ॥ - आतोद्यग्रामस्तु त्रिधा-षड्जग्रामो मध्यमग्रामो गन्धारग्रामश्च । एतेषां च स्वरूपमनुयोगद्वारशास्त्राद् अवसेयम् । इन्द्रियग्रामः श्रोत्रादीनामिन्द्रियाणां समुदायः, सच पञ्चेन्द्रियाणां सम्पूर्ण, चतुस्त्रिद्वयेकेन्द्रियाणां यथाक्रममेकद्वित्रिचतुःसवयैरिन्द्रियैन्यूनइति।पितृग्रामस्तुत्रिविधाः पुरुषाः । तद्यथा-तिर्यग्योनिकपुरुषा मनुष्यपुरुषा देवपुरुषाश्चेति ॥ [भा.१११३]तिरिया-ऽमर-नरइत्थी, माउग्गामं पितिविहमिच्छति। नाणाइतिगंभावे, जओ व तेसिं समुप्पत्ती॥ वृ-तिर्यग्योनिकस्त्रियोऽमराः-देवास्तेषां िस्त्रयो नराः-मनुष्यास्तेिषां च स्त्रय इति मातृग्राममपि त्रिविधमिच्छन्ति पूर्वसूरयः।आह किमेवंस्त्रि-पुरुषाणांमातृपितृग्रामसंज्ञा विधीयते? . For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy