SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २२० बृहत्कल्प-छेदसूत्रम् - १-१/१ पञ्चविधभावकल्पसम्बन्धायातस्य पञ्चकल्पस्यादौ । वंदामि भद्दबाहुं, पाईणं चरिमसयलसुयनाणिं । सुत्तस्स कारगमिसिं, दसाण कप्पे य ववहारे ॥ इत्यधिकृतसूत्रकारनमस्काररूपं यद् मङ्गलमुक्तम्, यद्वा 'नवमे पूर्वे' प्रत्याख्याननामके प्रथमप्रारम्भे यद् मङ्गलाभिधानं कृतं तेनैवास्य सूत्रस्य माङ्गलिकत्वं मन्तव्यमिति ।। अथेत्थमपि स्थापितं सूत्रस्य माङ्गलिकत्वं स्वाग्रहाभिनिवेशादप्रतिपद्यमानं परमुपलभ्य सूरिरिदमाहअद्दागसमो साहू, एवं सुत्तं पि जो जहा वयइ । तह होइ मंगलममंगलं व कल्लाणदेसिस्स ॥ [भा. ८१२] वृ- "अद्दाग'' त्ति आदर्श-दर्पणस्तत्समः- तत्सद्दशः साधुः । किमुक्तं भवति ? - यथा दर्पणे स्वरूपतो निर्मलेऽपि तत्तदुपाधिवशतः सुन्दरा -ऽ सुन्दररूपाणि प्रतिरूपाणि विलोक्यन्ते तथा साधुमपि परममङ्गलभूतं दृष्टवा मङ्गलबुद्धिं कुर्वतः प्रशस्तचेतोवृत्तेर्भव्यस्य मङ्गलं भवति, तदितरस्य संक्लिष्टकर्मणो दूरभव्यादेरमङ्गलबुद्धिं कुर्वाणस्यामङ्गलं भवति । 'एवम्' आदर्श-साधुध्ष्टान्तेन सूत्रमपि स्वरूपतः परममङ्गलभूतं यो यथा वदति तस्य तथैव 'मङ्गलममङ्गलं वा भवति' मङ्गलबुध्या परिगृह्यमाणं मङ्गलम् अमङ्गलबुध्या तु परिगृह्यमाणममङ्गलं भवतीत्यर्थः । एवं च माङ्गलिकेऽपि सूत्रे यदि त्वममङ्गलुद्धिं करोषि भवतु तर्हि कल्याणद्वेषिणो भवतोऽमङ्गलम् ।। किञ्चान्यत्[भा. ८१३] जइ वा स्वनिसेहो, हवेज तो कप्पणा भवे एसा । नंदी भावमंगल वृत्तं तत्तो अणन्नमिदं ॥ वृ- वाशब्दः प्रत्यवस्थानस्य प्रकारान्तरोपदर्शनार्थ । यद्यद्र सूत्रे 'सर्वनिषेधः ' सर्वथैव प्रतिषेधः स्यात् ततो भवेत् तावकीना प्रतिषेधकत्वादमङ्गलमित्येषा कल्पना । यस्मात् पुनरत्र नोशब्दो देशप्रतिषेध एव वर्त्तते अतः परिफल्गुरियं भवदीया कल्पनेति । यद्वा 'नन्दी च' पञ्चप्रकारज्ञानरूपा भावमङ्गलमुच्यते तच्च " नंदी य मंगलट्ठा" इत्यादिना ग्रन्थेन पीठिकायां प्रोक्तमेव । यदि नाम प्रोक्तं ततः किमायातम् ? इत्याह- 'तस्माच्च' नन्दीरूपाद् भावमङ्गलात् 'अनन्यत्' अपृथग्भूतमिदं सूत्रम्, अस्यापि श्रुतत्वात् श्रुतस्य च ज्ञानपञ्चकान्तर्गतत्वादिति भाव इति; अतोऽपि माङ्गलिकमिदम् । तदेवं स्थापितमनेकधा भाष्यकृता सूत्रस्य माङ्गलिकत्वम् । सम्प्रति निर्युक्तिकृद् नोशब्दाभिधेयस्य प्रतिषेधस्य निक्षेपमनन्तरोक्तमर्थं च सूचयन्नाह[भा.८१४] पडिसेहम्मि उ छक्क, अमंगलं सो त्ति ते भवे बुद्धी । पावाणं जदकरणं, तदेव खलु मंगलं परमं ॥ वृ- 'प्रतिषेधे' प्रतिषेधविषयं 'षट्कं' नाम स्थापना- द्रव्य-क्षेत्र - काल - भावलक्षणं निक्षेपणीयम् । तत्र नाम्नः प्रतिषेधः 'न वक्तव्मुकं नाम' इतिलक्षणः, यथा अजए पज्जए वा वि, वप्पो चुल्लपिउ त्तिय । माउलो भायणिज्जत्ति, पुत्ता नत्तुणिय त्तिय ॥ हो हले ति अन्ने त्ति, भट्टा सामिय गोमिय होल गोल वसुल त्ति, पुरिसं नेवमालवे ।। इत्यादि । स्थापना आकारो मूर्त्तिरिति पर्यायाः, तस्याः प्रतिषेधो यथा For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy