SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ मू०६४ १५५ -युक्तपााः सन्नतौ-अधोऽधो नमन्तौ पाश्र्वी येषां ते सन्नतपावाः अत एव सुन्दरपााः सुजातपाः पार्श्वगुणोपेतपाश्वाः इत्यर्थः मितौ-परिमिती मातृकौ-मात्रोपेतौ एकार्थपदद्वययोगादतीव मात्रान्वितौ नोचितप्रमाणाद्धीनाधिको पीनौ-उपचितौ रतिदौ-रमणीयौ पार्टी येषां ते मितमातृकपीनरतिदपाश्र्वा इत्यर्थः ‘अकरंडुय'त्ति मांसोपचितत्वादविद्यमानपृष्ठिपास्थिकमिव कनकरुचकं काञ्चनकान्तिनिर्मलं-स्वाभाविकमलरहितंआगन्तुकमलरहितं च सुजातं-सुनिष्पन्नं निरुपहतं-रोगादिभिरनुपहतं देह-शरीरं धारयन्ति येते तथा । “पसत्यबत्तीस०' छत्रं १ ध्वजः २ यूपः ३ स्तूपः ४ दामिनी रूढिगम्यं ५ कमण्डलु ६ कलशः ७वापी ८ स्वस्तिकः ९पताका १० यवः ११ मत्स्यः १२ कूर्म १३ रथवरः १४ मकरध्वजः १५ अङ्को-मृगः १६ स्थालं १७ अङ्कुशः १८ चूतफलकं १९ स्थापनकं २० अमरः २१ लक्ष्मया अभिषेकः २२ तोरणं२३ मेदिनी २४ समुद्रः २५ प्रधानमन्दिरं २६ गिरिवरः २७ वरदर्पणः २८ लीलायमानगजः २९ वृषभः ३० सिंहः ३१ चामरं ३२, एतानि प्रशस्तानि द्वात्रिंशल्लक्षणानि धारयन्ति येतेतथा, कनकशिलातलमिव उज्ज्वलंप्रशस्तंसमतलं-अविषमरूपं उपचितं-मांसलं विस्तीर्णपृथुलं-अतिविस्तीर्णं वक्षोह्रदयं येषांतेतथा,श्रीवत्सेन अङ्कितं वक्षो येषां तेतथा, पुरवरस्य परिघा-अबद्धा अर्गला तद्वत् वर्तितौ-वृत्तौ भुजौ-बाहू येषां ते तथा। भुजगेश्वरो-भुजगराजः तस्य विपुलो-महान्यो भोगः-शरीरंतद्वत्आदीयतइत्यादानःआदेयो रम्यो यः परिधः-अर्गला उच्छूढ'त्ति स्वस्थानाद् अवक्षिप्तो-निष्काशितः तद्वच्च दी? बाहू येषां ते तथा, युगसन्निभौ-यूपसशौ पीनौ-मांसलौ रतिदौ-रमणीयौ पीवरौ-महान्तौ प्रकोष्ठौ-कलाचिकादेशौ, तथा संस्थिताः-संस्थानविशेषवन्तः उपचिताः-सुनिचिताः घनाः -बहुप्रदेशाः स्थिराः-सुबद्धा स्नायुभि सुष्टुबद्धाः सुवृताः अतिशयेनवर्तुलाः सुश्लिष्टाः-सुघनाः लष्टा:-मनोज्ञाः पर्वसन्धयश्च-पर्वास्थिसंधानानि येषां ते तथा, रक्ततलौ-लोहिताधोभागौ 'उवचिय'त्ति औपचयिकौ पचयनिवृत्तौउपचितौवामृदुकौ-कोमलौमांसवन्तौ सुजातौ-सुनिष्पन्नौ लक्षणप्रशस्तौ-प्रशस्तस्वस्तिकचक्रगदाशंखकल्पवृक्षचन्द्रादित्यादिचिह्नो अच्छिद्रजालौअविरलाङ्गुलिसमुदायौ पाणी-करौ येषां ते तथा । __ - पीवराः-उपचिता वृत्ताः-वर्तुलाः सुजाताः-सुनिष्पन्नाः कोमलाः वराः अङ्गुल्यःकरशाखा येषां ते तथा, ताम्राः-अरुणाः तलिनाः-प्रतलाः शचयः-पवित्रा रुचिरा-दीप्ताः स्निग्धा-अरूक्षाःनखा-नखराः येषांतेतथा, चन्द्र इव पाणिरेखा-हस्तरेखा येषांतेचन्द्रपाणिरेखाः, एवं सूर्यपाणि- रेखाः शंखपाणिरेखाः स्वस्तिकपाणिरेखाः चक्रपाणिरेखाः, एतदेवानन्तरोक्तं विशेषणपञ्चकंतप्रशस्तताप्रकर्षप्रतिपादनाय सङ्गहवचनेनाह-राशिरविशङ्खचक्रस्वस्तिकरूपाः विभक्ता-विभागवत्यः सुविरचिताः-सुकृताः पाणिपुरेखाः येषांतेतथा, वरमहिषवराहसिंहशार्दूलवृषभनागवरवत् विपुलौ–प्रतिपूर्णी उन्नतौ-तुङगौ मृदुकौ-कोमलौ द्वौ स्कन्धौ येषां ते तथा वरमहिषः-सैरभेयःवराहः-शूकरःशार्दूलो-व्याघ्रः नागवरो-गजवरः, चत्वार्यङ्गुलानि स्वाङ्गुलापेक्षया सुष्टुप्रमाणं यस्याः कम्बुवरेणच-प्रधानश नसशी-उन्नतत्ववलित्रय योगाभ्यां समाना ग्रीवो-कण्ठो येषां ते तथा, अवस्थितानि-नहीयमानानि न वर्द्धमानानि सुविभक्तानि चित्राणि च-शोभया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003318
Book TitleAgam Suttani Satikam Part 14 Nirayavalika Aadi 10agam payanna
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages404
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nirayavalika
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy