SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः - २ हृष्टादिविशेषणग्रहणं । मू. (२४) ९१ सत्त पाणूइं से थोवे, सत्त थोवाइं से लवे । लवाणं सत्तहत्तरीए, एस मुहुत्तेत्ति आहिए ।। वृ-सप्त प्राणाः सूत्रे च उत्वं क्लीबत्वं च प्राकृतत्वात्, उच्छ्वासनिश्वासा ये इति गम्यते स स्तोक इतच्यते, एवं सप्तस्तोका ये स लवः, लवानां सप्तसप्तत्या एषः - अधिकृतो यज्जिज्ञासया तव सम्प्रति प्रश्नावतार इत्यर्थः, मुहूर्त्त इत्याख्यातः, अथ सप्तसप्ततिलवमानतया सामान्येन निरूपितं मुहूर्त्तमेवोच्छ्वाससङ्ख्यया विशेषतो निरूपयितुमाह मू. (२५) तिन्नि सहस्सा सत्त य सयाइं तेवत्तरिं च ऊसासा । एस मुहुत्तो भणिओ सव्वेहिं अनंतनाणीहिं ।॥ वृ- 'तिन्नि' इत्यादि, अस्या भावार्थोऽयं सम्भिरुच्छासैः स्तोकः, ते च लवे सप्त, ततो लवः सप्तभिर्गुणितो जाता एकोनपञ्चाशत्, मुहूर्त्ते च सप्तसप्ततिर्लवा इति सा एकोनपञ्चाशद्गुणितेति जातं मुहूर्ते उच्छ्वासाना मानं, अत्राप्युपलक्षमत्वादुः च्छासनिश्वासानां समुदितानां मानं ज्ञेयं, सर्वैरनन्तज्ञानिभिरित्यनेन सर्वेषां जिनानामेकवाक्यताज्ञापनेन सध्शज्ञानित्वं सूचितं, न तु साम्पत्यदर्शनं कृतं, तस्य विश्वाससमूलत्वेन श्रद्धालुं प्रत्यसम्भाव्यमानत्वात्, अथ यदर्थं मुहूर्त्तादिप्रश्नस्तान् मानविशेषान् प्रज्ञापयन् द्विविधकालपरिमाणज्ञापनायोपक्रमते मू (२६) एएणं मुहुत्तप्पमाणेणं तीसं मुहुत्ता अहोरत्तो पन्नरस अहोरत्ता पक्खो दो पक्खा मासो दो मासा उऊ तिन्नि उऊ अयणे दो अयणा संवच्छरे पंचसंवच्छरिए जुगे वीसं जुगाई वाससए दस वाससयाइं वाससहस्से सयं वाससहस्साणं वाससयसहस्से चउरासीइं वाससयसहस्साइं । से एगे पुव्वंगे चउरासीई पुव्वंगसयसहस्साइं से एगे पुव्वे एवं बिगुणं बिगुणं नेअव्वं तुडिए २ अडडे २ अववे २ हूहुए २ उप्पले २ एउमे २ नलिने २ अत्थनिउरे २ अउए २ नउए २ पउए २ चूलिया २ सीसपंहेलिए २ जाव चउरासीइं सीसपहेलिअंगसयसहस्साइं सा एगा सीस पहेलिया एताव ताव गणिए एताव ताव गणिअस्स विसए तेण परं ओवमिए । वृ- 'एएणं मुहुत्त' इत्यादि, एतेन - अनन्तरोदितेन मुहूर्त्तप्रमाणेन त्रिंशन्मुहूर्ता अहोरात्रः पञ्चदशाहोरात्राः पक्षः द्वौपक्षौमासः द्वौमासौ ऋतुः त्रय ऋतवोऽयनं द्वे अयने संवत्सरः पञ्चसंवत्सरिकं युगं विंशतिर्युगानि वर्षशतं, विंशतेः पञ्चगुणितायाः शतत्वात्, दश वर्षशतानि वर्षाणां सहस्र, शतं वर्षसहस्रणां वर्षशतसहस्र लक्षमित्यर्थः, चतुरशीति वर्षशतसहस्रणि यानीति गम्यते तदेकं पूर्वाड्ग, अतः परं लक्षाणां चतुरशीत्या गुणकारसंख्यास्थानानां सप्तविंशतिसंख्यानां (सद्भावः), तथाहि चतुरशीति पूर्वाड्ङ्गशतसहस्रणि चतुरशीत्या गुणकारसंख्यास्थानानां सप्तविंशतिसंख्यानां (सद्भाव)), तथाहि चतुरशीति पूर्वाड्गशतसहस्रणि यानीति गम्यते तदेकं पूर्वं, पूर्वाड्गलक्षाणां चतुरशीत्या गुणितं पूर्व भवतीति भावः, तद्वर्षमानं चैतत् 119 11 "पुव्वस्स उ परिमाणं सयरिं खलु हुंति कोडिक्खाओ । छप्पनं च सहस्सा बोद्धव्वा वासकोडीणं ॥" पूर्वाङ्गपूर्वन्यायेन संख्यास्थानमुत्तरोत्तरं त्रुटिताङ्गं त्रुटितमित्यादि तदङ्गतल्लक्षणभेदाभ्यां द्विगुणं २ -द्विसंख्या २ ज्ञातव्यं, अयमाशयः सूत्रे एकत्वेन निर्द्दिश्यमानानि १३ संख्यास्थानानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy