SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ वक्षस्कार:- १ कलानां १९ भाग योजन ९७६६ कला १, ये च वर्गमूलावशिष्टाः कलांशास्तद्विवक्षया च सूत्रकृता कलाया विशेषाधिकत्वमभ्यधायि, आह एवं जीवाकरणेऽपि वर्गमूलावशिष्टकलांशानां सद्भावात् तत्राप्युक्तकलानां साधिकत्वप्रतिपादनं न्यायप्राप्तं कथं नोक्तमिति ?, उच्यते, सूत्रगतेर्वैचित्र्यादविवक्षितत्वात्, 'विवक्षाप्रधानानि हि सूत्राणी 'ति, एवं वैताढ्यादिधनुः पृष्ठेष्वपि भाव्यं, यावद्दाक्षिणात्यविदेहार्द्धधनुः पृष्ठं, एवमुत्तरत उत्तरैरातार्द्धधनुः पृष्ठं यावदुत्तरार्द्धविदेहधनुः पृष्ठमपीति, अत्र च दक्षिणभरतार्द्धे बाहाया असम्भवः । ७१ अथ दक्षिणभरतार्द्धस्वरूप पृच्छन्निदमाह - ' दाहिणद्धे' त्यादि, दक्षिणार्द्धभरतस्य भगवन् कीदृशः आकारस्य - स्वरूपस्य भावाः - पर्यायास्तेषां प्रत्यवतारः - प्रादुर्भावः प्रज्ञप्तः ?, कीशः प्रसतुत क्षेत्रस्य स्वरूपविशेष इति भावः, भगवानाह - गौतम ! भरतस्य बहुसमरमणीयो भूमिभागः प्रज्ञप्तः 'से जहानामए आलिंगपुक्खरेइ वे' त्यादिको बहुसमत्ववर्णकः सर्वोऽपि ग्राह्यः, यावन्नानाविधपञ्चवर्णै मणिभिस्तृणैश्चोपशोभितः, तद्यथेत्युपदर्शने, किंविशिष्टैर्मणिभिस्तृणैश्च कृत्रिनैःक्रमेण शिल्पिकर्षकादिप्रयोगनिष्पन्नैः अकृत्रिमैः क्रमाद्रलखानिसंभूतानुप्तसम्भूतैरुपशोभितो दक्षिणार्द्धभरतस्य भूमिभागः, अनेनास्य कर्मभूमित्वमभाणि, अन्यथा हैमवताद्यकर्मभूमिष्वपि इदं विशेषणमकथयिष्यदिति, चकारौ समुच्चयार्थी एवकाराववधारणार्थी, अथवा चैवेत्यखण्डमव्ययं समुच्चयार्थं, अपिचेत्यादिवत् । ननु अनेन सूत्रेण वक्ष्यमाणेनोत्तरभरतार्द्धवर्णकसूत्रेम च सह 'खाणुबहु विसमबहुले कंटगबहुले' इत्यादिसमानान्यभरतवर्णकसूत्रं विरुध्यति, न चैते सूत्रे अरकविशेषापेक्षे सामान्यभरत - सूत्रं तु प्रज्ञापककालीनत्वस्यैवौचित्यात्, कृत्रिममणितॄणानां तत्रैव सम्भवात्, प्रज्ञापककाल- श्चावसर्पिण्यां तृतीयारकप्रान्तादारभ्य वर्षशतोनदुष्षभारकं यावदिति चेत्, उच्यते, अत्र 'खाणुबहुले विसमबहुले' इत्यादिसूत्रस्य बाहुल्यापेक्षयोक्तत्वेन कचिद्देशविशेषे पुरुषविशेषस्य पुण्यफल- भोगार्थमुपसम्पद्यमानं भूमेर्बहुसमरमणीयत्वादिकं न विरुध्यति, भोजकवैचित्र्यै भोग्यवैचित्र्यस्य नियतत्वात्, अनेनास्यैकान्तशुभैकान्ताशुभमिश्रलक्षणकालत्रयाधारकत्वमसूचि, एकान्तशुभे हि काले सर्वे क्षेत्रभावाः शुभा एव एकान्ताशुभे हि सर्वे अशुभा एव मिश्रे तु क्वचिच्छुभाः क्वचिदशुभाः, अत एव पञ्चमारकाद् यावद्भूमिभागवर्णकं बहुसमरमणीयत्वादिकेव सूत्रकारेणाभ्यधायि षष्ठेऽरके तु एकान्ताशुभे न तथेति सर्वं सुस्थं । अथ तत्रैव मनुष्यस्वरूपं पृच्छति - 'दाहिणद्धभरहे 'त्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनसूत्रे भगवानाह - गौतम ! येषां स्वरूपं भवता जिज्ञासितं ते मनुजा बहूनि - वज्रऋषभनाराचादीनि संहननानि-वपुर्द्दढीकारकारणास्थिनिचयात्मकानि येषां ते तथा, तथा बहूनि - समचतुरस्रादीनि संस्थानानि - विशिष्टावयवरचनात्मकशरीराकृतयो येषां ते तथा, बहवो - नानाविधा उच्चत्वस्यशरीरोच्छ्रयस्य पर्यवाः पञ्चधनुः शतसप्तहस्तमानादिका विशेषा येषां ते तथा बहवः आयुषःपूर्वकोटिवर्षशतादिकाः पर्यवा विशेषा येषां ते तथा, बहूनि वर्षामि आयुः पालयन्ति, पालयित्वा अपि संभावनायां एके- केचन निरयगतिगामिनः - नरकगतिगन्तारः एवमप्येकके तिर्यग्गतिगामिनः अप्येकके मनुजगतिगामिनः अप्येकके देवगतिगामिनः अप्येकके सिध्यन्ति-सकलकर्मक्षयकरणेन निष्ठितार्थीभवन्ति बुध्यन्ते - केवलालोकेन वस्तुत्वं जानन्ति मुच्यन्ते भवोपग्राहिकर्माशेभ्य परिनिर्वान्ति-कर्मकृततापविरहाच्छीति भवन्ति, किमुक्तं भवति ? - सर्वदुःखानामन्तं कुर्वन्ति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy