SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-१ हालिद्द० सुकिल्लसुत्तबद्धवग्धारिअमल्लदामकलावा, तेणंदामा तवणिज्जलंबूसगा सुवण्णपयरग मंडिया णाणामणिरणविविहहारद्धहारउवसोभियसमुदया जाव सिरीइ अईव उवसोभेमाणा २ चिट्ठति" -तेषुच नागदन्तकेषुबहवः कृष्णसूत्रबद्धा, अवलम्बिताःमाल्यदा-मकलापाः-पुष्पमालासमूहाः, एवं नीललोहितहारिद्रशुक्लसूत्रबद्धा अपि माल्यदामकलापा वाच्याः, तानि दामानि 'तवणिज्जलंबूसगा' इति तपनीयः-तपनीयमयो लम्बूसगो-दाम्नामग्रिमभागे प्राङ्गणे लम्बमानो मण्डनविशेषो गोलकाकृतिर्येषां तानि तपनीयलम्बूसकानि, तथा पार्श्वतः-सामस्त्येन सुवर्णप्रतरकेण-सुवर्णपत्रकेण मण्डितानि सुवर्णप्रतरकमण्डितानि तथा नानारूपाणा मणीनां रत्नानां च ये विविधा विचित्रवर्णा हारा-अष्टादशसरिकास्तैरुपशोभितः समुदायो येषां तानि तथा - - 'जाव सिरीए अईव उवसोभेमाणा २ चिटुंति' अत्र यावत्करणात् एवं परिपूर्ण पाठो द्रष्टव्यः 'ईसिमण्णोण्णमसंपत्ता पुव्वावरदाहिणुत्तरागएहिवाएहिंमंदायं २ एइज्जमाणा २ पलंबमाणा २ पझंझमाणा २ उरालेणं मणुण्णेणं मनहरेणं कण्णमणनिव्वुइकरेणं सद्देणं ते पएसे सव्वओ समंता आपूरेमाणा २ सिरीए अतीव उवसोभेमाणा २ चिटुंति' एतच्च पूर्वं पद्मवरवेदिकावर्णने व्याख्यातमिति न भूयो व्याख्यायते, “तेसिणं नागदंतगाण उवरिंदो दो नागदंतगा पन्नत्ता, तेणं नागदंतगा मुत्ताजालंतरूसिया तहेव जाव समणाउसो !, तेसुणं नागदंतएसु बहवे रययामया सिक्कया पन्नत्ता, तेसु णं रययामएसु सिक्कएसुबहूईओ वेरुलियामईओ धूवघडीओ पन्नत्ताओ, ताओ णं धूवघडीओ कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघंतगंधुद्धआभिरामाओ सुगंधवरगंधिआओ गंधवट्टिभूयाओ ओरालेणं मणुण्णेणं घाणमणनिब्बुइकरेणं गंधेणं ते पएसे सव्वओ समंता आपूरेमाणीओ २ सिरीए अईव उवसोभेमाणा २ चिटुंति" अत्र व्याख्या तेषा नागदन्तानामुपरिअन्यौ द्वौ द्वौ नागदन्तकौ प्रज्ञप्तौ, तेच नागदन्तका मुत्तालंतरूसिअहेमजालगवक्खजाल इत्यादि प्रागुक्तं सर्वं द्रष्टव्यं, यावद् गजदन्तसमानाः प्रज्ञप्ताः हे श्रमण! हे आयुष्मन् !, 'तेसुण मित्यादि तेषु नागदन्तकेषु बहूनि रजतमयानि सिक्ककानि प्रज्ञप्तानि, तेषु रजतमयेषु सिक्यकेषु बह्वयो वैडूर्य्यमय्यो धूपघटयः-धूपघटिकाः प्रज्ञप्ताः, ताश्च धूपघटिकाः कालागुरुश्च-कृष्णागुरु प्रवरकुन्दुरकं च-चीडाभिधानो गन्धद्रव्यविशेषः तुरुष्कं च-सिलकं धूपश्च-दशाङ्गादि गन्धद्रव्यसंयोगजइति द्वन्द्वे तेषां सम्बन्धी यो ‘मघमघेत'त्ति मघमघायमानोऽतिशयवान् उद्भुतः-इतस्ततो विप्रसृतो गन्धस्तेनाभिरामाः, उद्धृतशब्दस्यपरनिपातआर्षत्वात्, सुष्ठु-शोभनो गन्धो येषां ते तथा, समासान्तविधेरनित्यत्वादत्रेदरूपस्य समासान्तस्याभावो यथा सुरभिगन्धेन वारिणेति, तेचतेवरगन्धाश्च-प्रधानवासास्तेषांगन्धः सआसुअस्तीतिसुगन्धवरगन्धगन्धिकाः 'अतोऽनेकस्वरा'दितीकप्रत्ययः अतएवगन्धवर्तिभूताः-सौरभ्यातिशयाद्गन्धद्रव्यगुटिकाकल्पाः उदारेण स्फारेण मनोज्ञेन-मनोऽनुकूलेन, कथं मनोऽनुकूलत्वमतआहध्राणमनोनिवृतिकरेणगन्धेन तान्-प्रत्यासन्नान्प्रदेशान् आपूरयन्त्यः २ श्रियाअतीव शोभमानाः २ तिष्ठन्ति। ___ “विजयस्सणंदारस्स उभओपासिंदुहओ निसीहियाएदोदोसालभंजियाओपन्नताओ, ताओ णं सालभंजियाओ लीलट्ठियाओ सुपइलिआओ सुअलंकियाओ नानाविहरागवसणाओ रत्तावंगाओअसियकेसीओ मिउविसयपसत्थलक्खणसंवेल्लियग्गसिरयाओ नानामल्लपिणद्धाओ मुट्ठिगैज्झसुमज्झाओ आमेलगजमलजुअलवट्टिअअब्भुनयपीणरइअसंठियपयोहराओ ईसिं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy