SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-७ ५१७ एकत्रिंशततिथ्यात्ममेकेनेत्युक्तं, तदेवमुक्ता वृद्धि, सम्प्रति हानिमाह-‘उत्तरे' त्यादि, युगस्य प्रथमे संवत्सरेमाघमासे बहुलपक्षेसप्तम्याआरभ्य चतुर्थ्यः पादेभ्यः सकाशात्प्रतितिथि एकत्रिंशद्भागचतुष्ट्यहानिस्तावदवसेया यावदुत्तरायणपर्यन्ते द्वौ पादौ पौरुषीति। ___एषप्रथमसंवत्सरगतो विधिः, द्वितीयेसंवत्सरे श्रावणमासे बहुलपक्षेत्रयोदशीमादौ कृत्वा वृद्धिः, माघमासे शुक्लपक्षे चतुर्थीमादिं कृत्वा क्षयः, तृतीये संवत्सरे श्रावणमासे शुक्लपक्षे दशमी वृद्धेरादिः, माघमासेबहुलपक्षे प्रतिपत् क्षयस्यादिः, चतुर्थे संवत्सरे श्रावणमासे बहुलपक्षे सप्तमीवृद्धेरादिः, माघमासे बहुलपक्षेत्रयोदशी क्षयस्यादि, पञ्चमे संवत्सरे श्रावणे मासे शुक्लपक्षे चतुर्थी वृद्धेरादिः, माघमासे शुक्लपक्षेदशमी क्षयस्यादि, एतच्च करणगाथानुपात्तमपिपूर्वाचार्यप्रदर्शितव्याख्यानादवसितं । सम्प्रत्युपसंहारमाह एवमुक्तेन प्रकारेण पौरुष्यां-पौरुषीविषये वृद्धिक्षयौ यथाक्रमं दक्षिणायनेषूत्तरायणेषु वेदितव्यौ, तदेवमक्षरार्थमधिकृत्य व्याख्याताःकरणगाथाः। सम्प्रत्यस्य करणस्य भावना क्रियते, कोऽपि पृच्छति-युगादितः आरभ्य पञ्चाशीतितमे पर्वणि पञ्चम्यां तिथौ कतिपदा पौरुषी भवति?, तत्र चतुरशीतिर्धयते, तस्याश्चाधस्तात् पञ्चम्यां तिथौ पृष्टमिति पञ्च चतुरशीतिश्च पञ्चदशभिर्गुण्यते जातानि द्वादश शतानि षष्ट्यधिकानि एतेषु मध्येऽधस्तनाः पञ्च प्रक्षिप्यन्ते जातानि तेषां षडशीत्यधिकेन शतेन भागो ह्रियते लब्धाः षट्, आगतंषट् अयनान्यतिक्रान्तानि सप्तममयनं वर्तते, तदगतं च शेषमेकोनपञ्चाशदधिकं शतं तिष्ठति ततश्चतुर्भिर्गुण्यते जातानि पञ्चशतानिषन्नवत्यधिकानि तेषामेकत्रिंशता भागहरणे लब्धाः एकोनविंशतिः, सेषास्तिष्ठन्ति सप्त, तत्र द्वादशांगुलानि पादइत्येकोनविंशतः द्वादशभिः, पदं लब्धं, शेषाणितिष्ठन्ति सप्तांगुलानि, षष्ठंचायनमुत्तरायणंतद्गतंसप्तमंतुदक्षिणायनं वर्तते, ततः पदमेकंसप्त चांगुलानिपदद्वयप्रमाणे ध्रुवराशौ प्रक्षिप्यन्ते, जातानि त्रीणि पदानि सप्तांगुलानि, ये च सप्त एकत्रिंशद्भागाः शेषीभूता वर्तन्ते तान् यवान् कुर्मः, तत्राष्टौ यवा अंगुले इति ते सप्ताष्टभिर्गुण्यन्ते जातानि षट्पञ्चाशत् तस्या एकत्रिंशता भागे हृते लब्ध एको यवः शेषास्तिष्ठन्ति यवस्य पञ्चविंशतिरेकत्रिंशदभागाः, आगतं पञ्चाशीतितमे पर्वणि पञ्चम्यां त्रीणि पदानि सप्तांगुलानि एको यवः एकस्य च यवस्य पञ्चविंशतिरेकत्रिंशद्भागा इत्येतावती पौरुषीति, अपरः कोऽपि पृच्छति सप्तनवतितमे पर्वणि पञ्चम्यां तिथौ कतिपदा पौरुषी ?, तत्र षन्नवतिर्धियते, तस्याश्चाधस्तात्पञ्च, षन्नवतिश्च पञ्चदशभिर्गुण्यतेजातानिचतुर्दशशतानि चत्वारिंशदधिकानि तेषां मध्येऽधस्तनाः पञ्च प्रक्षिप्यन्ते जातानि चतुर्दश शतानि पञ्चचत्वारिंशदधिकानि, तेषां षडशीत्यधिकेन शतेन भागो ह्रियते लब्धानि सप्त अयनानि शेषं तिष्ठति त्रिच- त्वारिंशदधिकं शतं तच्चतुर्भिर्गुण्यते जातनि पञ्च शतानि द्विसप्तत्यधिकानि तेषा- मेकत्रिंशता भागो ह्रियते लब्धान्यष्टादशांगुलानि तेषां मध्ये द्वादशभिरंगुलैः पदमिति लब्धमेकं पदं षट् अंगुलानि उपरि चांशा उद्धरिताश्चतुर्दशः ते यवानयनार्थमष्टभिर्गुण्यन्ते जातं द्वादशोत्तरं शतं तस्यैकत्रिंशता भागे हृते लब्धास्त्रयो यवाः शेषास्तिष्ठन्ति यवस्य एकोनविंश-तिरेकत्रिंशद्भागाः, सप्त चायनान्यतिक्रान्तानि अष्टमं चायनमुत्तरायणं उत्तरायमे च पदचतुष्टयरूपाद् ध्रुवराशेर्हानिर्वक्तव्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy