SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ४९२ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/३०० . भग० गौ० चन्द्र आदिर्येषां ते चन्द्रादिकाः संवत्सराः, चन्द्रचन्द्राभिवर्द्धितचन्द्राभिवर्द्धितनामकसंवत्सरपंचकात्मकस्य युगस्य प्रवृत्तौ प्रथमतोऽस्यैव प्रवर्तनात्, न त्वभिवर्द्धितस्य, तस्य युगे त्रिशन्मासातिक्रमेसद्भावादिति, ननु युगस्यादौ वर्तमानत्वात्चन्द्रसंवत्सरःसंवत्सराणामादिरुक्तस्तर्हि युगस्यादित्वं कथं?, युगे प्रतिपद्यमाने सर्वे कालविशेषाः सुषमसुषमादयः प्रतिपद्यन्ते युगे पर्यवस्यति ते पर्यवस्यन्ति, अन्वञ्च सकलज्योतिश्चरमूलस्य सूर्यदक्षिणायनस्य चन्द्रोत्तरायमस्य च युगपत् प्रवृत्तियुगस्यादावेव सोऽपि चन्द्रायणस्याभिजिद्योगप्रथमसमय एव सूरायणस्य तु पुष्यस्य त्रयोविंशतौ सप्तषष्टिभागेषु व्यतीतेषु तेन सिद्धं युगस्यादित्वमिति, तथा दक्षिणायनंसंवत्सरस्य प्रथमे षण्मासास्तदादिर्ययोस्ते तथा, आदित्वंचास्य युगप्रारम्भे प्रथमतः प्रवृत्तत्वात्। __एतच्च सूर्यायनापेक्षवचनं,चन्द्रायनापेक्षयातुउत्तरायणस्यादितावक्तव्यास्यात्,युगारम्भे चन्द्रस्योत्तरायणप्रवृत्तत्वात्, प्रावृऋतुः-आषाढश्रावणरूपमासद्वयात्मकआदिर्येषांतेप्रावृडादिका ऋतवः, युगादौ ऋत्वेकदेशस्य श्रावणमासस्य प्रवर्त्तमानत्वात्, एवं श्रावणादिकामासाःप्रागुक्तहेतोरेव, बहुलपक्षादिको पक्षौ श्रावणबहुलपक्ष एव युगादिप्रवृत्तेः, दिवसादिका अहोरात्राः, मेरुतो दक्षिणोत्तरयोः सूर्योदय एव युगप्रतिपत्तेः, भरतैरवतापेक्षया इदं वचनं, विदेहापेक्षया तु रात्रौ तत्प्रवृत्तेः, तथारुद्रस्त्रशतो मुहूर्तानांमध्ये प्रथमःसआदिर्येषांते तथा प्रातस्तस्यैव प्रवृत्तेः, तथा बालवादिकानि करणानि, बहुलप्रतिपद्दिवसे तस्यैव सम्भवात्, तथाऽभिजिदादिकानि नक्षत्राणि, तत एवारभअय नक्षत्राणां क्रमेण युगे प्रवर्त्तमानत्वात्, तथाहि उत्तराषाढानक्षत्रचरमसमयषाश्चात्ये युगस्यान्तःततोऽभिनवयुगस्यादिनक्षत्रभिजिदेवेति, हे श्रमण ! हे आयुष्मन्!, अन्ते च सम्बोधनं शिष्यस्य पुनः प्रश्नविषयकोद्यमविधापनार्थ अत एवोल्लसनूमना युगे युगेऽयनादिप्रमाणं पृच्छति-पञ्चसंवत्सरासौरामानमस्येति पञ्चसंवत्सरिकं युगं, अनेन नोत्तरसूत्रेण दश अयना इत्यादिकेन विरोधः, चन्द्रसंवत्सरोपयोगिनां चन्द्रायणानां तु चतुस्त्रिंशदधिकशतस्य सम्भवात्, तत्र भदन्त कत्ययनानि प्रज्ञप्तानि ?, कियन्त ऋतवः, एवमित सौत्रं पदं एवं सर्वत्र योजना कार्येत्यर्थाभिव्यञ्जकं, तेन यन्तो मासाः पक्षाः अहोरात्राः कियन्तो मुहूर्ता प्रज्ञप्ताः ? भगवानाह- गौ० पञ्चसंवत्सरिके युगे दश अयनानि, प्रतिवर्षमयनद्वयसम्भवात्, एवं त्रिंशद्दतवः प्रत्ययनं ऋतुत्रयसम्भवात्, अत्र सूर्यसंवत्सरषष्ठांश एकषष्टिदिनमानः सूर्यऋतुरेव, न तुऋतुसंव-त्सरषष्ठांशः षष्ठिदिनप्रमाणो लौकिकर्तु, तथा च सति षष्टिसा इत्युत्तरसूत्रं विरुणद्धि, तथा षष्टिर्मासाः सौराः प्रतिऋतु मासद्वयसम्भवात्, एकविंशत्युत्तरं पक्षशतं, प्रतिमासं पक्षद्वयसम्भवात्, अष्टादश शतानि त्रिंशदधिकान्यहोरात्राणां प्रत्ययनं अहोरात्रास्ते च दशगुणाः मुहूर्ताश्च चतुष्पञ्चाशत्सहस्राणि नव च शतानि प्रत्यहोरात्रं त्रिंशन्मुहूर्ता इति युगाहोरात्राणां सङ्घयाङ्कानां त्रिंशता गुणने उक्तसङ्ख्यासम्भवात्॥ उक्तं चन्द्रसूर्यादीनां गत्यादिस्वरूपम्, अथ योगादीन् दशार्थान् विवक्षुरगाथामाहमू. (३०१)जोगा १ देवय २ तारग्ग ३ गोत्त ४ संठाण ५ चंदरविजोगा ६। कुल ७ पुण्णिम अवमंसा य ८ सण्णिवाए ९ अ नेता य १०॥ वृ. 'जोगो देवय' इत्यादि, योगोऽष्टाविंशतेर्नक्षत्राणा किं नक्षत्रं चन्द्रेण सह दक्षिणयोगि किंनक्षत्रमुत्तरयोगि इत्यादिको दिग्योगः १ देवताः-नक्षत्रदेवताः२ ताराग्रं-नक्षत्रामांतारापरिमाणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy