SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ ४८६ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/२७९ नचुण्ह नाइसीओ बहूइओ होइ नक्खत्ते। वृ. समकंसमतया नक्षत्राणि-कृत्तिकादीनि योगं-कार्तिकीपूर्णिमास्यादितिथिमि सह सम्बन्धंयोजयन्ति कुर्वन्तीत्यर्थः, इदमुक्तंभवति-यानि नक्षत्राणियासुतिथिषूत्सर्गतो भवन्ति यथा कार्तिक्या कृत्तिकास्तानि तास्वेव यत्र भवन्ति, यथोक्तम्॥१॥ “जेठो वच्चइ मूलेण, सावणो धनिट्ठाहिं। अद्दासु अमग्गसिरो, सेसा नक्खत्तनामिआ मास ।।"त्ति। तथायत्रसमतयैव ऋतवः परिणमन्तिन विषमतया, कार्तिक्या अनन्तरं हेमन्तु पौष्याः अनन्तरं शिशिरतुरित्येवमवतरन्तीतिभावः, यश्च संवत्सरोनात्युष्णः नातिशीतः तथा चबहूदकः सचभवति लक्षणतो निष्पन्न इति नक्षत्रचारलक्षणलक्षितत्वात्नक्षत्रसंवत्सर इति, अत्रगाथाच्छन्दसि प्रथमार्द्ध मात्राया आधिक्यमप्यार्षत्वादस्य न दुष्टं, न ह्याणि छन्दांसि सर्वाणि व्यक्त्या वक्तुं शक्यानि, किश्च यथादर्शनमनुसतव्यानि, एवमन्यत्रापि ज्ञेयमिति। मू. (२८०) ससि समगपुण्णमासिंजोएती विसमचारिनक्खत्ता। बहुदओ आ तमाहु संवच्छरं चंदं॥ वृ. अथ चन्द्र ‘ससि समग इत्यादि, विभक्तिलोपात् राशिना समकं योगमुपगतानि विषमचारीणि-मासविसध्शनामकानि नक्षत्राणि तां तां पौर्णमासीं-मासान्ततिथिं योजनन्तिपरिसमापयन्ति यस्मिन्निति गम्यं, यश्च कटुकः-शीतातपरोगादिदोषबहुलतया परिणामदारुणो बहूदकः, चस्य दीर्घत्वंप्राकृतत्वात, तमाहुर्महर्षयश्चान्द्रं चन्द्रसम्बन्धिनं चन्द्रानुरोधात्तत्रमासानां परिसमाप्तेः, न माससध्शनामकनक्षत्रानुरोधतः। - मू. (२८१) विसमं पवालिणो परिणमंति अणुऊसु दिति पुप्फफलं। " वासंन सम्म वासइ तमाहु संवच्छरं कम्मं॥ ... वृ. अथ कर्माख्यः-'विसम'मित्यादि, यस्मिन् संवत्सरे वनस्पतयो विषम-विषमकालं प्रवालिनः परिणमन्ति-प्रवालाः-पल्लवाङरास्तधुक्ततया परिणमन्ति, तथा अनृतुष्वपि-स्वस्वऋत्वभावेऽपपुष्पंच फलंच ददति, अकाले पल्लवान् अकाले पुष्पफलानि दघते इत्यर्थः तथा वर्ष-वृष्टिं न सम्यग्वर्षति-करोति मेघ इति तमाहुः-संवत्सरं कर्माख्यं । मू. (२८२) पुढविदगाणं च रसं पुष्फफलाणं च देइ आइचो। अप्पेणवि वासेणं सम्मं निफजए सस्सं॥ वृ.अथसौरः-'पुढवि'इत्यादि, पृथिव्याउदकस्य च तथा पुष्पाणांफलानांचरसमादित्यःआदित्यसंवत्सरो ददाति, तथा अल्पेनापि-स्तोकेनापि वर्षेण-वृष्टया शस्यं निष्पद्यतेअन्तर्भूतण्यर्थत्वात् शस्यनिष्पादयतिकिमुक्तंभवति? यस्मिन् संवत्सरेपृथिवीतथाविधोदकसम्पर्कादतीव सरसा भवति उदकमपिपरिणामसुन्दरसोपेतंपरिणमतिपुष्पानां च-मधूकादिसम्बन्धिनांफलानां च-आम्रफलादीनांरसः प्रचुरोभवति, स्तोकेनापिवर्षेण धान्यं सर्वत्र सम्यक् निष्पद्यतेतमादित्यसंवत्सरं पूर्वर्षय उपदिशन्ति। मू. (२८३) आइचतेअतविआ खणलवदिवसा उऊ परिणमंति। पूरेइ अनिन्नथले तमाहु अभिवद्धिअंजाण ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy