SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-७ ४८१ चातीतोऽपि स्यादतआह-पुरस्कृतः-पुरोवर्ती भविष्यन्नित्यर्थः समयः प्रतीतः ततः पदत्रयस्य कर्मधारयोऽतस्तत्र, तथाअनन्तरंपश्चात् कृतेसमयेपूर्वापरविदेह प्रथमसमयापेक्षयायोऽनन्तरः पश्चात्कृतः-अतीतः समयस्तत्र दक्षिणोत्तरयोर्वर्षाकालप्रथमसमयोभवतीति, इह यस्मिन् समये दक्षिणा? उत्तरार्द्धच वर्षाकालस्य प्रथमः समयः तदनन्तरे अग्रेतने द्वितीये समये पूर्वपश्चिमयोर्वर्षाणांप्रथमः समयो भवतीत्येतावन्मात्रोक्तावपि यस्मिन् समयेपूर्वपश्चिमयोः वर्षाकालस्य प्रथमः समयो भवति ततोऽनन्तरे पश्चाभाविनि समये दक्षिणोत्तरार्द्धयोः वर्षाकालस्य प्रथमः समयो भवतीति गम्यते तत्किमर्थमस्योपादानं ?, उच्यते, इह क्रमोक्रमाभ्यां अभिहितोऽर्थ प्रपञ्चितज्ञानां शिष्याणामतिसुनिश्चितो भवति ततस्तेषामनुग्रहायैतदुक्तमित्यदोषः। एवंजहासमएणमित्यादि, एवंयथासमयेन वर्षाणामभिलापोभणितस्तथा आवलिकाया अपि भणितव्यः, स चैवं-'जया णं भंते ! जंबुद्दीवे दीवे दाहिणद्धे वासाणं पढमा आवलिआ पडिवज्जइ तया णं उत्तरद्धेवि वासाणं पढमा आवलिआ पडिवज्जइ, जया णं उत्तरद्धे वासाणं पढमा आवलिआ पडिवाइ, तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमपञ्चत्थिमेणं अनंतरपुरेक्खडसमयंसि वासाणं पढमा आवलिआपडिवाइ?, हंता गोअमा! जया णं भंते! जंबुद्दीवे दीवे दाहिणद्धे वासाणं पढमा आवलिआपडिवजइ तहेव जावपडिवाइ, जयाणं भंते जंबुद्दीवे दीवेमंदरस्सपव्वयस्सपुरस्थिमेमंवासाणंपढमाआवलिआपडिवाइ, तयाणंजंबुद्दीवे दीवे मंदरस्स पव्यस्स पुरथिमपञ्चत्थिमेणं अनंतरपुरेक्खडसमयंसि वासाणं पढमा आवलिआ पडिवाइ?, हंता गोअमा! जया णं भंते! जंबुद्दीवे दीवे दाहिणद्धे वासाणं पढमा आवलिआ पडिवज्जइ तहेव जाव पडिवज्जइ, जया णं भंते ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमेणं वासाणं पढमाआवलिआपडिवज्जइ, जयाणंपञ्चत्थिमेणं पढमा आवलिआपडिवाइ, तयाणं जंबुद्दीवे २ मंदरस्सपव्वयस्स उत्तरदाहिणेणंअनंतरपच्छाकडसमयंसिवासाणं पढमाआवलिआ पडिवन्ना भवइ ?, हंता ! गोअमे' त्यादि, तदेवोच्चारणीयमित्यर्थः, एवं आनप्राणादिपदेष्वपि, आवलिकाद्यर्थस्तुप्राग्वत्, हेमंताणं तिशीतकालचतुर्मासानां, 'गिम्हाणं ति ग्रीष्माणांचतुर्मासानां, 'पढमे अयमे ति दक्षिणायनं श्रावणादित्वात् संवत्सरस्य 'जुएणवि'त्ति युगं पंचसंवत्सरमानं, अत्र च युगेन सहेत्यतिदेशकरणात् युगस्यापि दक्षिणोत्तरयोः पूर्वसमये प्रतिपत्ति प्रागपरयोस्तु तदनन्तरे पुरोवर्तिनि समये प्रतिपत्ति, ज्योतिष्करण्डे तु॥१॥ "सावणबहुलपडिवए बालवकरणे अभीइनक्खत्ते। . सव्वत्थ पढमसमए जुगस्स आई विआणाहि ॥" इत्यस्यागाथायाव्याख्याने सर्वत्रभरतेऐरवतेमहाविदेहेषुच श्रावणमासेबहुलपक्षेकृष्णपक्षे प्रतिपदि तिथौ बालवकरणे अभिजिन्नक्षत्रे प्रथमसमये युगस्यादि विजानीहीतीदं वाचनान्तरं ज्ञेयं, यतोज्योतिष्करण्डसूत्रकर्ताआचार्योवालभ्यः एष भगवत्यादिसूत्रादर्शस्तुमाथुरवाचनानुगत इति न किञ्चिदनुचितं, युक्त्यानुकूल्यं तुन युगपत्प्रतिपत्तिसमये सम्भावयामः, तथाहि-'सव्वे कालविसेसा सूरपमाणेण हुंति नायव्वा' इति वचनाद् यदि सूर्यचारविशेषेण कालविशेषप्रतिपतिर्दक्षिणोत्तरयोराद्यसमये प्रागपरयोरुत्तरसमये तर्हि दक्षिणोत्तरप्रतिपत्ति समये पूर्वकालस्याप[13/31 www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy