SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ४३२ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/२५१ नव य सया पन्नासा तारागणकोडिकोडीणं । ति। १. तारागणकोटाकोटी नामेकं लक्षं त्रयश्त्रिशच्च सहस्राणि नव च शतानि पञ्चाशानिपञ्चाशदधिकानि भवन्ति, प्रतिचन्द्रं तारागणकोटाकोटीनांषट्षष्टिसहस्रनवशताधिकपञ्चसप्ततेर्लभ्यमानत्वादिति । अत प्रथमोटिष्टमपि चन्द्रमुपेक्ष्य बहुवक्तव्यत्वात् प्रथमं सूर्यप्ररूपणामाह, तत्रेमानि पञ्चदशानुयोगद्वाराणि-मण्डलसङ्ख्या १ मण्डलक्षेत्रं २ मण्डलान्तरं ३ बिम्बायामविष्कम्भादि ४ मेरुमण्ड-लक्षेत्रयोरबाधा ५ मण्डलायामादिवृद्धिहानी ६ मुहूर्तगति ७ दिनरात्रिवृद्धिहानी ८ तापक्षेत्रसंस्थानादि ९ दूरासन्नादिदर्शने लोकप्रतीत्युपपत्ति १० चारक्षेत्रेडतीतादिप्रश्नः ११ तत्रैव क्रियाप्रश्नः १२ ऊर्ध्वादिदिक्षु प्रकाशयोजनसङ्ख्या १३ मनुष्यक्षेत्रवर्तिज्योतिष्कस्वरूपं १४ इन्द्राद्यभावे स्थितिप्रकल्पः १५ । तत्र मण्डलसङ्ग्यायामादिसूत्रम् मू. (२५२) कइ णं भंते ! सूरमंडला पन्नता?, गोअमा! एगे चउरासीए मंडलसए पन्नते इति । जंबुद्दीवे णं भंते ! दीवे केवइअंओगाहित्ता केवइआ सूरमंडला पन्नत्ता? गोअमा! जंबुद्दीवे २ असीअंजोअणसयं ओगाहित्ता एत्थ णं पन्नट्ठी सूरमंडला पन्नत्ता, लवणे णं भंते ! समुहे केवइअं ओगाहित्ता केवइआ सूरमंडला पन्नता? गोअमा! लवणे समुढे तिन्नि तीसे जोअणसएओगाहित्ता एत्थणं एगूणवीसे सूरमंडलसएप०, एवामेव सपुब्बावरेणंजंबुद्दीवे दीवे लवणे असमुद्दे एगे चुलसीए सूरमंडलसए भवंतीतिमक्खायंति १।। वृ. 'कइ ण'मित्यादि, कति भदन्त! सूर्ययोर्दक्षिणोत्तरायणे कुर्वतोर्निजबिम्बप्रमाणचक्रवालविष्कम्भानि प्रतिदिनभ्रमिक्षेत्रलक्षणानि मण्डपलानिप्रज्ञप्तानि?,मण्डलत्वंचैषां मण्डलसध्शत्वात् न तु तात्विकं, मण्डलप्रथमक्षणे यद् व्याप्तं क्षेत्रं तत्समश्रेण्येव यदि परःक्षेत्रं व्याप्नुयात् तदा तात्विकी मण्डलता स्यात्तथाच सति पूर्वमण्डलादुत्तरमण्डलस्ययोजनद्वयमन्तरं नस्यादिति, भगवानाह-गौतम! एवंचतुरशीतं-चतुरशीत्यधिकं मण्डलशतंप्रज्ञप्तं, यथाचैभिचारक्षेत्रपूरणं तथा अनन्तरद्वारे प्ररूपयिष्यते । अथैतान्येव क्षेत्रविभागेन द्विधा विभज्योक्तसञ्जयां पुनः प्रश्नयति- 'जंबुद्दीवे'त्तिजंबूद्वीपे भदन्त! द्वीपे कियक्षेत्रमवगाह्य कियन्ति सूर्यमण्डलानि प्रज्ञातानिगौतम! जंबूद्वीपे २ अशीतं अशीत्यधिकं योजनशतमवगाह्यात्रान्तरे पञ्चषष्टिसूर्यमण्डलानि प्रज्ञप्तानि?, गौतम ! जंबूद्वीपे २ अशीतं-अशीत्यधिकं योजनशतमवगाह्यात्रान्तरे पञ्चषष्टि सूर्यमण्डलानि प्रज्ञप्तानि, तथालवणे भदन्त! समुद्रे कियदवगाह्य कियन्ति सूर्यमण्डलान प्रज्ञप्तानि?, गौतम! लवणे समुद्रे त्रिंशदधिकानित्रीणियोजनशतानि सूत्रेऽल्पत्वादविवक्षितानप्यष्टचत्वारिंशदेकषष्टिभागान् अवगाह्यात्रान्तरे एकोनविंशत्यधिकं सूर्यमण्डलशतं प्रज्ञप्तं, अत्र पञ्चषष्ट्या मण्डलैरेकोनाशीत्याधिकं योजनशतं नव चैकषष्टिभागा योजनस्य पूर्यन्ते, जंबूद्वीपेऽवगाहक्षेत्रं चाशीत्यधिकं योजनशतं तेन शेषा द्वापञ्चाशदभागाः षट्षष्टितमस्य मण्डलस्य बोध्याः अल्पत्वाच्चाबनविवक्षिताः, अत्रच पञ्चषष्टिमण्डलानांविषयविभागव्यवस्थायांसङ्ग्रहणीवृत्याधुक्तोऽयं वृद्धसम्प्रदायः-मेरोरेकतो निषधमूर्द्धनि त्रिषष्टिमण्डलानिहरिवर्षजीवाकोटयां च द्वे द्वितीयपाइँ नीलवनमूर्ध्नि त्रिषष्टि रम्यकजीवाकोटयां च द्वे इति, एवमेव सपूर्वावरेण पञ्चषष्ट्येकोनविंशत्यधिकशतमण्डलमीलनेनजंबूद्वीपेलवणेच समुद्रेएकंचतुरशीतं सूर्यमण्डलशतं For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy