SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-१ ३९ परिमाणोपचारात्, कोष्ठपुटादीनीत्युच्यन्तेतेषांकुट्टयमानानां-उदूषलादिषुकुट्टयमानानारुंचिजमाणाण वा इति-लक्ष्णखण्डीक्रियमाणानां, एतच्च विशेषणद्वयं कोष्ठादिद्रव्याणामवसेयं, तेषां प्रायः कुट्टनश्लक्ष्णखण्डीकरणसम्भवात्, नतु यूथिकादीनां, तथा उत्कीर्यमाणानां-क्षुरिकादिभि कोष्ठादिपुटानां कोष्ठादिद्रव्याणां वा उल्लिख्यमानानां, तथा विकीर्यमाणानां-इतस्ततो विप्रकीर्यमाणानां परिभुज्यमानानां-परिभोगायोपयुज्यमानानांकचित् परिभाएजमाणाणवा' इति पाठ-, तत्र परिभाज्यमानानां-पार्श्ववर्तिभ्यो मनाक्मनाक्दीयमानानां, तथभाण्डात्-स्थानादेकस्मादन्यद्भाण्डं-भाजनान्तरं संहियमाणानां, उदाराः-स्फारास्ते चामनोज्ञा अपि भवन्त्यत आहमनोज्ञा-मनोऽनुकूलाः तच्च मनोज्ञत्वं कुत इत्याह-मनोहरा-मनोहरन्ति-आत्मवशतानवन्तीति मनोहराः यतस्ततोमनोज्ञाः, तदपि मनोहरत्वंकुत इत्याह-ध्राणमनोनिवृतिकराः-नासासचिवचेतः सुखोतपादकाः, एवम्भूताः सर्वतः-दिक्षुसमन्ततः-सामस्त्येनगन्धा अभिनिश्रवन्ति-जिघ्रतामभिमुखं निस्सरन्ति, एवमुक्ते शिष्यः पृच्छति-भवेदेतद्रूपः ?, भगवानाह-गौतम ! नायमर्थ समर्थः, तेषां मणीनां तृणानां च इत इष्टतरकश्चैव यावन्मनआपतरकश्चैव गन्धः प्रज्ञप्त इति । तेसिणं भंते! मणीणं तणाण यकेरिसए फासे पन्नत्ते, से जहानामए आइणगेइवा रूएइ वा बूरेइ वा नवनीएइ वा हंसगब्भतूलीइ वा सिरीसकुसुमनिचएइ वा बालकुमुदपत्तरासीइ वा, भवे एयारवे?, गोअमा! नो इणढे समढे, तेसिणं मणीणं तणाण य इत्तो इट्टतरए चेव जाव फासेणं पन्नत्ते" तेषां भदन्त! मणीनां तृणानांच कीशः स्पर्श प्रज्ञप्तः?, भगवानाह-गौतम! ' से जहानामए'इत्यादि, तद्यथा-अजिनक-चर्ममयं वस्त्र रूतं-कासपक्ष्म बूरोवनस्पतिविशेषः, नवनीतं-प्रक्षम, हंसग तूली शिरीषकुसुमनिचयश्च प्रकटः, बालानिअचिरकालजातानि यानि कुमदपत्राणि तेषां राशि, कचिद्वालकुसुमपत्रराशिरिति पाठः। _ भवे एयारवे'इत्यादि पूर्ववत्। 'तेसिणंभंते! मणीणंतणाणयपुव्वावरदाहिणुत्तरागएहिं वाएहिं मंदायं मंदायं एइयाणं वेइयाणं कंपियाणं चालियाणं फंदियाणं घट्टियाणं खोभिआणं उदीरियाणं केरिसए सद्दे पन्नत्ते गो० ! से जहानामए, सिबिआएवा संदमाणिआए वा रहस्स वा सच्छत्तस्स सल्झयस्स सघंटायस्स सपडायस्स सतोरणवरस्ससनंदिघोसस्स सखिंखिणीअहेमजालपेरंतपरिक्खित्तस्स हेमव-यचित्ततिणिसकणगणिज्जुत्तदारुआगस्ससुपिणदधारगमंडलधुरागस्स कालायससुकयणेमिजंत-कम्मस्सआइण्णवरतुरगसुसंपउत्तस्सकुसलतरछेअसारहिसुसंपगहियस्स सरसयबत्तीसतोणपरि-मंडियस्स सकंकड़वयंसगस्स सचावसरपहरणावरणभरिअजोहजुज्झसजस्स रायंगणंसिवा अंतेउरंसि वारम्मंसिवामणिकुट्टममतलंसि अभिघट्टिजमाणस्सजे उराला मणुण्णा कण्णम-णनिव्वुईकरा सदा सव्वओ समंता अभिनिस्सरंति, भवेएयारवे सिआ?,नो इणढे समढे' अत्र व्याख्या तेषांमणीनांतृणानांच भदन्त! पूर्वापरदक्षिणोत्तरागतैतिर्मन्दमन्दमेजितानां-कम्पितानां तथा व्यंजिताना-विशेषतः कम्पितानां, एतदेव पर्यायशब्देन व्याचष्टे-कम्पितानामिति, तथा चालितानां-इतस्ततो विक्षिप्तानां, एतदेव पर्यायेणाह-स्पन्दितानामिति तथा घट्टितानां-परस्परं घर्षयुक्तानां, कथं घट्टिता इत्याह-क्षोभितानां-स्वस्थानाच्चालितानां, स्वस्थानाच्चालनमपि कुत इत्याह-उदीरितानां-उत्-प्राबल्येनेरितानां-प्रेरितानां, कीशः शब्दः प्रज्ञप्तः?, भगवानाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy