SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ३९८ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ५/२२८ अट्ठण्हं अग्गमहिसीणं एवं दाहिणपुरत्थिमेणं अब्यंतरपरिसाए दुवालसण्हं देवसाहस्सीणं दाहिणेणं मज्झिमाए चउदसण्हं देवसाहस्सीणं दाहिणपञ्च्चत्थिमेणं बाहिरपरिसाए सोलसण्हं देवसाहस्सीणं पञ्चत्थिमेणं सत्तण्हं अनिआहिवईणंति । तए णं तस्स सीहासनस्स चउद्दिसिं चउम्हं चउरासीणं आयारक्खदेवसाहस्सीणं एवमाई विभासिअव्वं सूरिआभगमेणं जाव पञ्चप्पिणन्तित्ति । वृ. 'तए णं से पालए देवे सक्केण' मित्यादि, ततः स पालको देवः शक्रेण देवेन्द्रेण देवराज्ञा एवमुक्तः सन् हृष्टतुष्ट यावद् वैक्रियसमुदघातेन समवहत्य तथैव करोति, पालकविमानं रचयतीत्यर्थः अथ विमानस्वरूपवर्णनायाह - 'तस्स ण' मित्यादि इति सूत्रद्वयी व्यक्ता, अथ तद्विभागं वर्णयनाह - 'तस्स णं' इत्यादि, इदं प्राग्वद् ज्ञेयम्, नवरं मणीनां वर्णो गंधः स्पर्शश्च भणितव्यो यथा राजप्रश्नीये द्वितीयोपाने, अत्रापि जगतीपद्मवरवेदिकावर्णने मणिवर्णादयो व्याख्यातास्ततोऽपि वा बोद्धव्याः अत्र प्रेक्षागृहमण्डवर्णनायाह " 'तस्स ण 'मित्यादि, यावच्छब्दग्राह्यं व्याख्या च यमकराजधानीगतसुधर्मासभाधिकारतो ज्ञेये, उपरिभागवर्णनायाह- 'तस्स उल्लोए' इत्यादि, तस्योल्लोकः उपरिभागः पद्मवलताभक्तिचित्रः यावत्सर्वात्मना तपनीयमयः प्रथमयावच्छब्देन अशोकलताभक्तिचित्र इत्यादिपरिग्रहः द्वितीययावच्छब्दाद् अच्छे सण्हे इत्यादिविशेषणग्रहः, अत्र च राजप्रश्नीये सूर्याभयानविमानवर्णकेऽक्षपाटकसूत्रं दृश्यते परं बहुष्वेतत्सूत्रादर्शेषु अदृष्टत्वान्न लिखितं, अथात्र मणिपीठिकावर्णनायाह'तस्स ण' मित्यादि, व्यक्तं, 'तीए उवरिं' इत्यादि, एतदव्याख्या विजयद्वारस्थप्रकण्ठकप्रासादगतसिंहासन सूत्रवदवसेया । 'ते ण 'मित्यादि, इदं सूत्रं प्राक् पद्मवरवेदिकाजालवर्णके व्याख्यातमिति ततो बोध्यं, अत्रप्रथमयावत्पदात् 'वेइज्जमाणा २ पलम्बमाणा २ पझंझमाणा २ ओरालेणं मणुण्णेणं मनहरेणं कण्णमण' इति संग्रहः, द्वितीययावत्पदात् 'ससिरीए' इति ग्राह्यं, सम्प्रति अत्रास्थाननिवेशनप्रक्रियामाह -‘तस्स ण’मित्यादि, 'तस्य' सिंहासनस्य पालकविमानमध्यभागवर्त्तिनोऽपरोत्तरायां- वायव्यामुत्तरस्यां उत्तरपूर्वायां- एशान्यां अत्रान्तरे शक्रस्य चतुरशीतेः सामानिकसहस्राणां चतुरशीतिभद्रासनसहस्राणि, उक्तदित्रये चतुरशीतिभद्रासनसहस्राणीत्यर्थः, पूर्वस्यां दिश्यष्टानामग्रमहिषीणामष्ट चतुरशीति भद्रासनानि, एवं दक्षिणपूर्वायां-अग्निकोणेऽभ्यन्तरपर्षदः सम्बन्धिनां द्वादशानां देवसहस्राणां द्वादश भद्रासनसहस्राणि दक्षिणस्यां मध्यमायाः पर्षदश्चतुध्शानां देवसहस्राणां चतुर्दश भद्रासनसहस्राणि दक्षिणपश्चिमायां - नैऋतकोणे बाह्यपर्षदः षोडशानां देवसहस्राणां षोडश भद्रासनसहस्राणि पश्चिमायां सप्तानामनीकाधिपतीनां सप्त भद्रासनानीति । 'तएण’मित्यादि, 'ततः' प्रथमवलयस्थापनान्तरं द्वितीये वलये तस्य सिंहासनस्य चतुर्दिशि चतसृणां चतुरशीतानां चतुर्गुणीकृतचतुरशीतिसंख्याकानां आत्मरक्षकदेवसहस्राणां षट्त्रिंशत्सहस्रधिकलक्षत्रयमितानामात्मरक्षकदेवानामित्यर्थः, तावन्ति भद्रासनानि विकुर्वितानीत्यर्थः, एवमादि विभाषितव्यं इत्यादि वक्तव्यं सूर्याभगमेन यावठात्यपयन्ति, यावत्पदसंग्रहश्चायम्'तस्स णं दिव्वस्स जाणविमाणस्स इमे एआरूवे वण्णावासे पन्नत्ते, से जहा णामए अइरुग्गयस्स हेमंतिअबालसूरिअस्स खाइलिंगालाण वा रत्तिं पञ्जलिआणं जासुमणवणस्स वा केसुअवणस्स For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy