SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-४ ३७५ २ मन्दरंपर्वतं द्वाभ्यांयोजनाभ्यामसम्प्राप्ता पूर्वाभिमुखी परावत्तासतीमाल्यवदवक्षस्कारपर्वतमधो विदार्य मेरोः पूर्वस्यांपूर्वमहाविदेहं द्विधा विभजन्ती २ एकैकस्माचक्रवर्तिविजयादष्टाविंशत्या २ सलिलासहनैरापूर्यमाणा २ आत्मना सह पञ्चभिर्नदीलक्षैत्रिंशता च सहस्रैः समग्रा अधो विजयस्य द्वारस्य जगतं विदार्य पूर्वस्यां लवणसमुद्रमुपैति, अवशिष्टं प्रवहव्यासोण्डत्वादिकं तदेवेति-निषधनिर्गतशीतोदाप्रकरणोक्तमेव, अथास्मादेवोत्तरतःप्रवृत्तांनारीकान्तामतिदिशति "एवंनारीकंता' इत्यादि, एवमुक्तन्यायेन नारीकान्ताऽपिउत्तराभिमुखी नेतव्या, कोऽर्थः यथा नीलवतिकेसरिद्रहाद् दक्षिणाभिमुखी शीता निर्गतातथा नारीकान्ताऽप्युत्तराभिमुखी नेतव्या, कोऽर्थः ?-यथा नीलवति केसरिद्रहाद् दक्षिणाभिमुखी शीता निर्गता तथा नारीकान्ताऽप्युत्तराभिमुखी निर्गतातर्हि अस्याः समुद्रप्रवेशोऽपि तद्वदेवेत्याशङ्कमानमाह-नवरमिदं नानात्वं गन्धापातिनं वृत्तवैताढयपर्वतंयोजनेनासम्प्राप्ता पश्चिमाभिमुखीआवृत्ता सती इत्यादिकमवशिष्टं सर्वं तदेव हरिकान्तासलिलावद् भाव्यं, तद्यथा 'रम्मगवासंदुवा विभयमाणी २ छप्पन्नाए सलिला सहस्सेहिंसमग्गा अहेजगइंदालइ२ त्ता पच्चत्थिमेणं लवणसमुइंसमपेइत्ति,अत्र चावशिष्टपदसंग्रहेप्रवहमुखव्यासादिकंन चिन्तितं, समुद्रप्रवेशावधिकस्यैवालापकस्य दर्शनात, तेन तत् पृथगाह-प्रवहेच मुखे च यथा हरिकान्ता सलिला, तथाहि-प्रवहे २५ योजनानि विष्कम्भेन अर्द्धयोजनमुद्वेधेन मुखे २५० योजनानि विष्कम्भेन ५ योजनान्युद्वेधेनेति, यच्चात्र हरिसलिलां विहाय प्रवहमुखयोर्हरिकान्तातिदेश उक्तस्ततहरिसलिलाप्रकरणेऽपि हरिकान्तातिदेशस्योक्तत्वात्, अथात्र कूटानि प्रष्टव्यानि 'नीलवंते णमित्यादि, नीलवति भदन्त! वर्षधरपर्वते कति कूटानिप्रज्ञप्तानि? गौतम! नव कूटान प्रज्ञप्तानि, तद्यथा-सिद्धायतनकूटं, अत्र नवानामप्येकत्र संग्रहायेयं गाथामू. (२०७) सिद्धे १ नीले २ पुव्वविदेहे ३ सीआ य ४ कित्ति ५ नारी अ६। अवरविदेहे ७ रम्मगकूडे ८ उवदंसणे चेव ९॥ वृ. 'सिद्धे'त्ति सिद्धकूट-सिद्धायतनकूट, तच्च पूर्वदिशि समुद्रासन्नं, ततो नीलवतकूटनीलवद्वक्षस्काराधिपकूटं, पूर्वविदेहाधिपकूटं शीताकूट-शीतासुरूकूट, चःसमुच्चये, कीर्त्तिकूटकेसरिद्रहसुरीकूटं नारीकूट-नारीकान्तानदीसुरीकूट, चः पूर्ववत्, अपरविदेहकूट-अपरविदेहाधिपकूट रम्यककूटं-रम्यकक्षेत्राधिपकूटं उपदर्शनकूटं-उपदर्शननामकं कूटं। मू. (२०८) सव्वे एए कूडा पञ्चसइआ रायहाणीउ उत्तरेणं । से केणटेणं भंते ! एवं वुच्चइ-नीलवंते वासहरपव्वए २?, गोअमा! नीले नीलोभासे नीलवंते अइत्थ देवे महिद्धीए जावपरिवसइ सव्ववेरुलिआमए नीलवंते जाव निचेति । वृ.एतानिच कूटानि हिमवत्कूटवत् पञ्चशतिकानि-पञ्चशतयोजनप्रमाणानि वाच्यानि वक्तव्यताऽपितद्वत्, कूटाधिपानां राजधान्यो मेरोरुत्तरस्याम्।अथास्य नामनिबन्धनं पृच्छन्नाह__'सेकेणटेणं इत्यादि, प्रश्नः प्राग्वत्, उत्तरसूत्रे चतुर्थो वर्षधरगिरिनीलो-नीलवर्णवान् नीलावभासो-नीलप्रकाशः आसनं वस्त्वन्यदपिनीलवर्णमयंकरोतितेन नीलवर्णयोगान्नीलवान्, नीलवांश्चात्र महर्द्धिको देवः पल्योपमस्थितिको यावत्परिवसतितेन तद्योगाद्वानीलवान्, अथवा असौसर्ववैडूर्यरलमयस्तेनवैडूर्यरलपर्यायकनीलमणियोगानीलः शेषं प्राग्वत्।अथपञ्चमंवर्षप्रश्नयन्नाह मू. (२०९) कहि णं भंते ! जंबुद्दीवे २ रम्मए नामं वासे पन्नते?, गो० नीलवंतस्स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy