SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३६४ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१९६ प्रासादयोर्मध्ये ज्ञेयः, एतस्यापि नीलवान् देवः प्रभुस्तस्य राजधानी दक्षिणपूर्वस्यामिति, ‘एवं सुहत्थि'इत्यादि, नवरं दाक्षिणात्याया-मेरुतो दक्षिणदिग्वर्त्तिन्याः शीतोदायाः पूर्वतः, अनेन मेरुतः पश्चिमदिग्वतिन्याः शीतोदायाः व्यवच्छेदः कृतः, अत्रान्तरे सुहस्थिदिगहस्तिकूटः ३, आग्नेयप्रासाददाक्षिणात्यजिनभवनमद्यवर्तीत्यर्थः, एतस्यापि सुहस्ती देवः राजधानी तस्य दक्षिणपूर्वस्यां, नीलवतसुहस्तिनोरेकस्यामेव दिशिराजधानीत्यर्थः, एवंसमविदिग्वर्तिनोदिगहस्तिकूटाधिपयोरेकस्यां विदिशि राजधानीद्वयं २ अग्रेऽपि भाव्यं । - ‘एवं चेव'इत्यादि, व्यक्तं, नवरं दाक्षिणात्यजिनगृहनैऋतप्रासादयोर्मध्ये इत्यर्थः ४, 'एव'मित्यादि, व्यक्तं, नवरं पाश्चात्यायाः-पश्चिमाभिमुखं वहन्त्याः शीतोदाया दक्षिणस्यामिति, नैऋतप्रासादपाश्चात्यजिनभवनयोर्मध्यवर्तीत्यर्थः, 'एव'मिति, व्यक्तं, पाश्चात्यजिनभवनवायव्यप्रासादयोरन्तरे इत्यर्थः, एवंवडेसे विदिसाहस्थिकूडे इत्यादि,गतार्थं, नवरंऔत्तराह्याः-मेरुतः उत्तरदिग्वर्त्तिन्याःशीतायाः पश्चिमतः,अनेनपूर्वदिग्वर्त्तिन्याःशीतायाःव्यवच्छेदः कृतः, वायव्यप्रासादौत्तराहभवनयोर्मध्यवर्तीत्यर्थः “एवं रोअणागिरी दिसाहत्थिकूडे' इत्यादि व्यक्तं, नवरं औत्तराह्याः-शीतायाः पूर्वतः औत्तराह्यजिनभवनैशानप्रासादयोरन्तराले इत्यर्थः, एषुचबहुभि पूर्वाचार्य शाश्वतजिनभवनसूत्रेषु जिनभवनान्युच्यन्ते इह तुसूत्रकृता नोक्तानितेनतत्वंकेवलिनो विदन्ति, अत एवोक्तं रत्नशेखरसूरिभि खोपज्ञक्षेत्रविचारे॥१॥ “करिकूडकुंडनइदहकुरुकंचणजमलसमविअड्डेसुं। जिनभवणविसंवाओ जो तं जाणंति गीअत्था॥" इति । अथैषां वापीचतुष्कप्रासादानां जिनभवनानां करिकूटानां च स्थाननियमनेऽयं वृद्धानां सम्प्रदायः, तथाहि-भद्रशालवने हि मेरोश्चतम्रऽपि दिशो नदीद्वयप्रवाहैः रुद्धाः, अतो दिक्ष्वेव भवनानि न भवन्ति, किन्तु नदीतटनिकटस्थानि भवनानि गजदन्तनिकटस्थाः प्रासादा भवनप्रासादान्तरालेष्वष्टसुकरिकूटाः, अतएव विशेषतो दर्श्यते-मेरोरुत्तरपूर्वस्यामुत्तरकुरूणांबहिः शीताया उत्तरदिग्भागेपञ्चाशद्योजनेभ्यः परःप्रासादः तत्परिक्षेपिण्यश्चतस्रो वाप्यः, एवं शेषेष्वपि प्रासादेषुज्ञेयं, मेरोः पूर्वस्यांशीतायाः दक्षिणतः ५० योजनेभ्यः परं सिद्धायतनं, मेरोदक्षिणपूर्वस्यां ५० योजनातिक्रमे देवकुरूणांबहि शीताया दक्षिणत एवप्रासादः मेरोदक्षिणतः ५० योजनातिक्रमे देवकुरूणांमध्येशीतोदायाः पूर्वतः सिद्धायतनं, मेरोरपरदक्षिणतः ५० योजनान्यवगाह्य देवकुरूणां बहि शीतोदायादक्षिणतःप्रासादः मेरोः पश्चिमायां५० योजनातिक्रमेशीतोदाया उत्तरतःसिद्धायतनं मेरोरपरोत्तरस्यां ५० योजनान्यवगाह्योत्तरकुरूणांबहिः शीतोदायाउत्तरतएव प्रासादः, मेरोरुत्तरतः पञ्चाशदयोजनेभ्यः उत्तरकुरूणांमध्ये शीतायाः पश्चिमतः सिद्धायतनमिति, एतेषांचाष्टस्वन्तरेष्वष्टौ कूटा इति__मू. (१९७) कहिणं भंते ! मंदरे पव्वए नंदनवने नामं वने पन्नत्ते?, गो० ! भद्दसालवनस्स बहुसमरमणिज्जाओ भूमिभागाओ पञ्चजोअणसयाई उद्धं उप्पइत्ता एत्थ णं मंदरे पव्वए नंदनवने नामं वने पन्नत्ते पञ्चजोअमसयाई चक्कवालविक्खम्भेणं वट्टे वलयाकारसंठाणसंठिए जेणं मंदरं पव्वयं सव्वओ समंता संपरिक्खित्ताणं चिट्ठइत्ति नवजोअणसहस्साइंनव य चउप्पन्ने जोअणसए छच्चेगारसभा जोअणस्स बाहिं गिरिविक्खम्भो एगत्तीसं जोअणसहस्साइंचत्तारिअ Jain Education International For For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy