SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-४ ३५१ वृ. 'कहिण'मित्यादि, स्वभदन्त! जम्बूद्वीपे द्वीपे महाविदेहे वर्षेशीतामहानद्या दाक्षिणात्यं शीतामुखवनं शीतानिषधमध्यवर्तीत्यर्थः अतिदेशसूत्रत्वेनोत्तरसूत्रं स्वयं भाव्यं, परं वच्छस्य विजयस्य-विदेहद्वितीयभागाद्यविजयस्य पूर्वत इति । अथ द्वितीये महाविदेहविभागे विजयादिव्यवस्थामाह–'कहिणमित्यादि, प्रश्नः सुलभः, उत्तरसूत्रे निषधस्य वर्षधरपर्वतस्योत्तरस्यां शीताया महानद्या दक्षिणस्यां दाक्षिणात्यस्यशीतामुखवनस्यपश्चिमतः त्रिकूटस्यवक्षस्कारपर्वतस्य पूर्वस्यां अत्रान्तरे जम्बूद्वीपे महाविदेहे वर्षे वत्सो विजयः प्रज्ञप्तः, सुसीमा राजधानी विजयविभाजकश्च त्रिकूटनामा वक्षस्कारपर्वतः १ सुवच्छो विजयः कुंडला राजधानी तप्तजलाऽन्तरनदी २ महावत्सो विजयः अपराजिता राजधानी वैश्रमणकूटो नाम वक्षस्काराद्रि ३, वत्सावती विजयः प्रभङ्करा राजधानी मत्तजला नदी ४, रम्यो विजयः अङ्कावती राजधानी अञ्जनो वक्षस्कारः ५, रम्यको विजयः पक्ष्मावती राजपूः उन्मत्तजला महानदी ६ रमणीयो विजयः शुभा राजपू:मातअनो वक्ष-स्काराद्रिः ७, मङ्गलावती विजयः रत्नसञ्चया नगरी ८, सुलभसूत्रेशब्दसंस्कार एव विवरममिति, इमाश्च राजधान्यः शीतादक्षिणदिग्भाविराजधानीत्वेन विजयानामुत्तरार्द्धमध्यमखण्डेषु ज्ञेयाः,अथविजयादीनांव्यासादिसाम्येदर्शितेऽपि केनचिप्रकारेण न पार्श्वयोः परस्परं भेदो भविष्यतीत्याशङ्कानिवृत्यर्थमाह ‘एवं जह'इत्यादिएवं-प्रागुक्तप्रकारेण यथैव शीताया महानद्या उत्तरं पार्श्वप्राच्यमिति शेषः तथैव दाक्षिणात्यं पावमितिशेषः भणितव्यं, अत्र विशेषणद्वारेणसंग्रहमाह, किंविशिष्टमिदं पार्श्वम् ?-दाक्षिणात्यशीतामुखवनमादौ यत्र तद् दाक्षिणात्यशीतामुखवनादि, अनेन यथा प्रथमविभागस्य कच्छविजय आदिरुक्तस्तथा द्वितीयविभागस्य दाक्षिणात्यशीतामुखवनमादिरुक्तमिति, तथा इमे वक्ष्यमाणा वक्षस्कारकूटाः, कूटशब्देनात्रकूटान्येषां सन्तीत्यभ्रादित्वादप्रत्यये कूटाः-पर्वताः, तद्यथा-त्रिकूटेत्यादि, विजयानां राजधानीनां च संग्रहाय पद्यमेकैकं, इमानि च संग्रहसूत्राणि सुखप्रतिपत्तिहेतुभूतानीति न पुनरुक्तिर्विभाव्या, अथ पूर्वसूत्राल्लब्धेऽपि वत्सविजयदिग्नियमे विचित्रत्वात् सूत्रप्रवृत्ते रीत्यन्तरमाह मू. (१७७) वच्छस्स विजयस्स निसहे दाहिणेणं सीआ उत्तरेणं दाहिणिल्लसीदामुहवणे पुरस्थिमेणंतिउडे पञ्चत्थिमेणं सुसीमा रायहाणी पमाणंतंचेवेति, वच्छाणंतरंतिउडेतओ सुवच्छे विजए एएणं कमेणंतत्तजला नई महावच्छे विजए वेसमणकूडे वक्खारपब्बए वच्छावई विजए मत्तजला नई रम्मे विजए अंजणे वक्खारपव्वए रम्मए विजए उम्मत्तजला नई रमणिज्जे विजए मायंजणे वक्खारपव्वए मंगलावई विजए। वृ. 'वच्छस्स'इत्यादि, वत्स्यस्य विजयस्य निषधो दक्षिणेनतथातस्यैव शीता उत्तरेणेत्यादि स्पष्टं, नचैवं निषधादयो लक्ष्याः लक्षणंवत्सविजय इति वाच्यं, लक्ष्यलक्षणभावस्य कामचारात्, प्रस्तुतेच प्रकरणबलात्वत्स एव लक्ष्यत इति, सुसीमा राजधानी प्रमाणंतदेव-अयोध्यासम्बन्धेयव, प्रमाणाभिधानाय राजधान्याः पुनरुपन्यासेन न पुनरुक्तिदोषः, अथैषां विजयादीनां स्थानक्रमदर्शनायाह-'वच्छाण'मित्यादि, सुगम, नवरं वत्सानन्तरं त्रिकूटः पश्चिमत इति बोध्यं, अन्यथा पूर्वतो दाक्षिणात्यशीतामुखवनस्य प्रतिपत्ति स्यादित्युक्तो द्वितीयो विदेहविभागः। अथ क्रमायातं गजदन्तगिरिं सौमनसाख्यं लक्षयितुमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy