SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१६९ सेकेणणं भंते! एवं वुच्च कच्छे विजए २?, गो० कच्छे विजए वे अद्धस्स पव्वयस्स दाहिणेणं सीआ महानईए उत्तरेणं गंगाए महानईए पच्चत्थिमेणं सिंधूए महानईए पुरत्थिमेणं दाहिणद्धकच्छविजयस्स बहुमज्झदेसभाए, एत्थ णं खेमानामं रायहाणी पं० विणीआरायहाणीसरिसा भा० । तत्थ णंखेमाए रायहाणीए कच्छे नामं राया समुप्पज्जइ, महया हिमवंत जाव सव्वं भरहोअवणं भा० निक्खमणवज्जं सेसं सव्वं भा० जाव भुंजए माणुस्सए सुहे, कच्छनामधेजे अ कच्छे इत्थ देवे महद्धीए जाव पलिओवमट्ठिईए परिवसइ, से एएणट्टेणं गो० एवं वुच्चइ कच्छे विजए कच्छे विजए जाव निच्चे । ३४२ वृ. अथोत्तरार्द्धक्छं प्रश्नयति- 'कहिण 'मित्यादि, व्यक्तं तथैव दक्षिमार्द्धकच्छवद् ज्ञेयं यावत्सिद्धयन्तीति, अथैतदन्तर्वर्त्तिसिन्धुकुंडं वक्तव्यमित्याह - 'कहि ण' मित्यादि, व्यक्तं, परं नितम्बः- कटकः, लाघवार्थमतिदेशमाह- 'भरतसिन्धुकुंडसिसं सव्वं नेअव्वं' इत्यादि, सर्वं गतार्थं, गङ्गागमेन व्याख्यातत्वात्, तत्रैव ऋषभकूटवक्तव्यमाह - 'कहि न 'मित्यादि, प्राग्वत्, अथ गङ्गाकुंडप्रस्तावनार्थमाह-'कहि ण' मित्यादि, सिन्धुकुंडगमो निर्विशेषः सर्वोऽपि वाच्यः, परं ततो गङ्गानदी खण्डप्रपातगुहाया अधो वैताढ्यं विभिद्य दक्षिणे भागे शीतां समुपसर्प्यतीति, ननु भरते नदीमुख्यत्वेन गङ्गामुपवर्ण्य सिन्धुरुपवर्णिता इह तु सिन्धुरुपवर्ण्य सा वर्ण्यते इति कथं व्यत्ययः ?, उच्यते, इह माल्वद्वक्षस्कारतो विजयप्ररूपणायाः प्रकान्तत्वेन तदासन्नत्वात् सिन्धुकुंडस्य प्रथमं सिन्धुप्रूपणा ततो गङ्गाया इति । अथ केनार्थेन भदन्त ! एवमुच्यते कच्छो विजयः २ ? गौ० कच्छे विजये वैताढयस्य दक्षिणस्यां शीताया महानद्या उत्तरस्यां गङ्गायाः महानद्याः पश्चिमायां सिन्धो- महानद्याः पूर्वस्यां दक्षिणार्द्धकच्छविजयस्य बहुमध्यदेशभागे - मध्यखण्डेऽत्रान्तरे क्षेमानाम्ना राजधानी प्रज्ञप्ता, विनीताराजधानीसध्शी भणितव्या, तत्र क्षेमायां राजधान्या कच्छो नाम - राजा चक्रवर्ती समुत्पद्यते, कोऽर्थः ? - यस्तत्र षट्खण्डभोक्ता समुत्पद्यते स तत्र लोकैः 'कच्छ' इति व्यवह्नियते, अत्र वर्त्तमाननिर्देशेन सर्वदापि यथासम्भवं चक्रवर्त्यत्पत्ति सूचिता, न तु भरत इव चक्रवर्त्तयुत्पत्तौ कालनियम इति, 'महयाहि मवन्ते' त्यादिकः सर्वो ग्रन्थो वाच्यः यावत्सर्वं भरतस्य क्षेत्रस्य ओअवणमिति - साधनं स्वायत्तीकरणं भरतस्य चक्रिण इति शेषः, निष्क्रमणं - प्रव्रज्याप्रतिपत्तिस्तद्वर्जं भणितव्यं, भरतचक्रिणा सर्वविरतिर्गृहीता कच्छचक्रिणस्तु तदग्रहणेऽनियम इति, कियत्पर्यन्तमित्याह यावद् भुङ्क्ते मानुष्यकानि सुखानि, अथवा कच्छनामधेयश्चात्र कच्छे विजये देवः पल्योपमस्थितिकः परिवसति तेनार्थेन गौ० एवमुच्यते- कच्छराजस्वामिकत्वात् कच्छदेवाधिष्ठितत्वाच्च कच्छविजयः २ इति, यावन्नित्य इत्यन्त मन्योऽन्याश्रयनिवारणार्थकं सूत्रं प्राग्वदेव योजनीयमिति गतः प्रथमो विजयः, अथ यतोऽयं पश्चिमायामुक्तं तं चित्रकूटं वक्षस्कारं लक्षयन्नाह मू. (१७०) कहि णं भंते! जंबुद्दीवेदीवे महाविदेहे वासे चित्तकूडे नामं वक्खारपव्वए पन्नत्ते ?, गोअमा ! सीआए महानईए उत्तरेणं णीलवंतस्स वासहरपव्वयस्स दाहिणेणं कच्छविजयस्स पुरत्थिमेणं सुकच्छविजयस्स पच्चत्थिमेणं एत्थ णं जंबुद्दीवे दीवे महाविदेहे वासे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy