SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ३१४ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१४२ गौतम! मन्दरस्य पर्वतस्योत्तरतोनीलवतोवर्षधरपर्वतस्यदक्षिणतोगन्धमादनस्यवक्षस्कारपर्वतस्य पूर्वतो वक्ष्यमाणस्वरूपस्य माल्यवतः पश्चिमतः अत्रान्तरे उत्तरकुरवो नाम्ना कुरवः प्रज्ञप्ताः, प्राकपश्चिमायता उत्तरदक्षिणाविस्तीर्णा अर्द्धचन्द्राकारा एकादशयोजनसहस्राण्यष्टौ शतानि द्वाचत्वा- रिंशदधिकानि द्वौ चैकोनविंशतिभागौ योजनस्य विष्कम्भेन, अत्रोपपत्तिर्यथा महाविदेहविष्कम्भात् ३३६८४ कला ४ इत्येवंरूपात् मेरुविष्कम्भेऽपनीते शेषस्या? कृते उक्ताङ्कराशिस्यात्, ननु वर्षवर्षधरादीनांक्रमव्यवस्थाप्रज्ञापकापेक्षयाऽस्ति यथाप्रज्ञापकासन्नं भरतं ततो हिमवानित्यादि, ततो विदेहकथनानन्तरं क्रमप्राप्ता देवकुरुर्विमुच्य कथमुत्तरकुरूमां निरूपणं ?, उच्यते, चतुर्दिग्मुखे विदेहे प्रायः सर्वं प्रादक्षिण्येन व्यवस्थाप्यमानं समये श्रूयते, तेनप्रथमतउत्तपरकुरुकथनंभरतपार्श्वस्थौ विद्युप्रभसौमनसौविहाय गन्धमादनमाल्यवद्वक्षस्कारप्ररूपणंभरतासन्नविजयान् विहायकच्छमहाकच्छादिविजयकथनं चेति, अर्थतासांजीवामाह ___ 'तीसे'इत्यादि, तासामुत्तरकुरूणां, सूत्रेएकवचनंप्राकृतत्वात्, जीवा-उत्तरतोनीलवद्वर्षधरासन्ना कुरुचरमप्रदेशश्रेणिः पूर्वापरायता द्विधा पूर्वपश्चिमभागाभ्यां वक्षस्कारपर्वतं स्पृष्टा, एतदेव विवृणोति, तद्यथा-पौरस्त्ययाकोट्या पौरस्त्यं वक्षस्कारपर्वतमाल्यवन्तंस्पृष्टा पाश्चात्यया पाश्चात्यंगन्धमादननामानंवक्षस्कारपर्वतंस्पृष्टा, त्रिपञ्चाशद्योजनसहस्राणि आयामेन, तत्कथमिति उच्यते, मेरोः पूर्वस्यां दिशि भद्रशालवनमायामतो द्वाविंशतिर्जनसहस्राणि एवं पश्चिमायामपि, उभयमीलनेजातंचतुश्चत्वारिंशत्सहस्राणिमेरुविष्कम्भेदशसहस्रयोजनात्मकेप्रक्षिप्तेजातंचतुष्पश्चाशदयोजनसहस्राणि, एकैकस्य वक्षस्कारगिरेवर्षधरसमीपे पृथुत्वं पञ्च योजनशतानि ततो द्वयोर्वक्षस्कारगिर्यो पृथुत्वपरिमाणं योजनसहस्रं तत्पूर्वराशेरपनीयते, जातः पूर्वराशिस्त्रिपञ्चाशदयोजनसहस्राणीति। अर्थतासांधनुःपृष्ठमाह-'तीसेणंधनुदाहिणेण मित्यादि, तासांधनुःपृष्ठंदक्षिणतो मेसिन्न इत्यर्थः, षष्टियोजनसहस्राणि चत्वारिच योजनशतानि अष्टादशानि-अष्टादशाधिकानि द्वादश चैकोनविंशतिभागान् योजनस्य परिक्षेपेण, तथाहि-एकैकवक्षस्कारगिरेरायामस्त्रिशयोजनसहनिणि द्वे च नवोत्तरे षट् च कलाः, ततो द्वयोर्वक्षस्कारयोर्मीलने यथोक्तं मानमिति, अथैतासां स्वरूपप्ररू- पणायाह-'उत्तरकुराए ण मित्यादि, उत्तरकुरूणां भदन्त ! कीद्दश आकारभावप्रत्यवतारः-स्वरूपाविर्भावः प्रज्ञप्तः?,गौतम! बहुसमरमणीयो भूमिभागःप्रज्ञप्तः, एवमुक्तन्यायेन पूर्वं भरतप्रकरणे वर्णिता या एव सुषमसुषमायाः आधारकस्य वक्तव्यता सैव निरवशेषा नेतव्या, कियत्पर्यन्तमित्याह-यावत्षट्प्रकाराः पद्मगन्धादयो मनुष्यास्तावदिति । उक्तोत्तरकुरुवक्तव्यताऽथ तद्वर्तिन यमकपर्वतौ प्ररूपयति मू. (१४३) कहि णं भंते ! उत्तरकुराए जमगानाम दुवे पव्वया प० गो० नीलवंतस्स वासहरपव्वयस्स दक्खिणिल्लाओ चरिमन्ताओ अट्ठजोअणसए चोत्तीसे चत्तारि अ सत्तमाए जोअणस्स अबाहाए सीआए महानईए उभओ कूले एत्थ णं जमगानामंदुवे पव्वया पन्नत्ता। जोअणसहस्सं उद्धं उच्चत्तेणं अड्डाइजाइं जोअणसयाइं उव्वेहेणं मूले एगं जोअणसहस्सं आयामविक्खम्भेणंमज्झे अद्धट्टमाणिजोअणसयाइंआयामविक्खम्भेणं उवरिपंचजोअणसयाई आयामविक्खम्भेणं मूले तिन्नि जोअणसहस्साई एगं च बावट्ठ जोअणसयं किंचिविसेसाहिअं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy