SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् १ / ३ विशेषप्रतिपत्ति' रिति न्यायात् यवादिकमप्यानीयते, तथाहि ते ह्यांशा 'अष्टभिर्यवैरङ्गुल' मिति अष्टभिर्गुण्यन्ते, जाताः ३२५८७६८ छेदः स एव लब्धाः यवाः ५ । - ततोऽप्यष्टगुणने यूकादयः स्यु, तत्र यूका १, एतत्सर्वमप्यर्द्धाङ्गुलस्य किञ्चिद्विशेषाधिकत्वकथेन सूत्रकारेणापि सामान्यतः संगृहीतमिति बोध्यं, गणितपदं तत्करणं च सोदाहरणमग्रे भावयिष्यत इति । अथाकारभावप्रत्यवतारविषयकं प्रश्नं निर्वक्तुमाह- २४ मू. (४) से णं एगाए वइरामईए जगईए सव्वओ समंता संपरिक्खित्ते, सा णं जगई अट्ठ जोयणाई उड्ड उच्चत्तेणं मूले बारस जोअणाइं विक्खंभेणं मज्झे अट्ठ जोयणाई विक्खंभेणं उवरिं चत्तारि जोअणाइं विक्खंभेणं मूले विच्छिन्ना मज्झे संक्खित्ता उवरिं तणुया गोपुच्छसंठाणसंठिया सव्ववइरामई अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया निम्मा निप्पंका निक्कंकडच्छाया सप्पभा समिरीया सउज्जोया पासादीया दरिसणिजा अभिरुवा पडिरूवा । साणं जगई एगेणं महंतगवक्खकडएणं सव्वओ समंता संपरिक्खित्ता, सेणं कवक्खकडए अद्धजोअणं उडुं उच्चत्तेणं पंच धनुसयाई विक्खंभेणं सव्वरयणामए अच्छे जाव पडिरूवे, तीसे णं जगईए उप्पिं बहुमज्झदेसभाए एत्थ णं महई एगा पउमवरवेइया पन्नत्ता, अद्धजोयणं उड्डुं उच्चत्तेणं पंच धनुसयाइं विक्खंभेणं जगईसमिया परिक्खेवेणं सव्वरयणामई अच्छा जाव पडिरूवा तीसे णं पउमवरवेइयाए अयमेयारूवे वण्णावासे पन्नत्ते, तंजहा - वइरामया नेमा एवं जहा जीवाभिगमे जाव अट्ठो जाव धुवा नियया सासया जाव निच्चा ॥ वृ. 'सेण' मिति, सोऽनन्तरोदितायामविष्कम्भपरिक्षेपपरिमाणो जम्बूद्वीपः, णमिति पूर्ववत्, 'एकया' एकसंख्यया अद्वितीयया (वा) 'वज्रमय्या' वज्ररत्नात्मिकया 'जगत्या' जम्बूद्वीपप्राकाररूपया द्वीपसमुद्रसीमाकारिण्या महानगरप्राकारकल्पया सर्वतो दिक्षु समन्ताद्विदिक्षु सम्परिक्षिप्तःसम्यग्वेष्टितः, प्राकृतत्वाद्दीर्घत्वं वज्रशब्दस्य, सा जगती अष्ट योजनान्युद्धच्चत्वेन, वस्तुनो ह्यनेकधोच्चत्वं ऊर्ध्वस्थितस्यैकं अपरं तिर्यकस्थितस्य अन्यद् गुणोन्नतिरूपं तत्रेतरापोहेनार्ध्वस्थितस्य यदुच्चत्वं तदूर्ध्वोच्चत्वमित्यागमे रूढमिति, अत्रानुस्वारः प्राकृतत्वात्, मूले द्वादश योजनानि विष्कम्भेन मध्येऽष्टौ उपरि चत्वारि, अत एव मूले विष्कम्भमधिकृत्य विस्तीर्णा मध्ये सङ्क्षिप्ता त्रिभागोनत्वात् उपरि तनुका मूलापेक्षया त्रिभागमात्रविस्तारभावात्, एतदेवोपमया प्रकटयति-गोपुच्छस्येव संस्थानं तेन संस्थिता, ऊर्ध्वकृतगोपुच्छाकारेति भावः । सर्वात्मनासामस्त्येन वज्रमयी - वज्ररत्नात्मिका, दीर्घत्वं च प्राकृतशैलीप्रभवं, 'अच्छा' आकाशस्फटिकवदति-स्वच्छा 'सण्हा' श्लक्ष्णा श्लक्ष्णपुद्गलस्कन्धनिष्पन्ना श्लक्ष्णपुद्गलस्क्धनिष्पन्ना श्लक्ष्णदलनिष्प-न्नपटवत्, 'लण्डा' मसृणा घुटितपटवत्, 'घट्ठा' घृष्टा इव घृष्टा खरशाणया पाषाप्रतिभावत्, तथा मृष्टा इव मृष्टा सुकुमारशाणया पाषाणप्रतिभावत्, तथा 'नीरजाः' सहजरजोरहिता, तथा 'निर्मला' आगन्तुकमलरहिता, तथा 'निष्पङ्का' कलङ्कविकला कर्द्दमरहिता वा, तथा निष्ककटा - निष्कवचा निरावरणा छाया-दीप्तिर्यस्याः सा तथा, सप्रभा - स्वरूपतः प्रभावती अथवा स्वेन - आत्मना प्रभाति -शोभते प्रकाशते वेति स्वप्रभा, तथा समरीचिका - सकिरणा वस्तुस्तोमप्रकाशकरी इत्यर्थः तथा प्रसादाय - मनःप्रसत्तये हिता तत्कारित्वात् प्रासादीया मनःप्रह्लाद- कारिणीति भावः, तथा 'दर्शनीया' दर्शनयोग्या यां पश्यतश्चक्षुषी श्रमं न गच्छत " Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy