SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-१ १९ सकलसङ्घाधिपतित्वमाह, इन्द्रभूतिरिति मातपितृकृतनामधेयः 'नाम'न्ति विभक्तिपरिणामेन नाम्नेत्यर्थः, अन्तेवासी किल विवक्षया श्रावकोऽपि स्यादित्यत आह-नास्यागारं-गृहं विद्यत इत्यनगारः, अयंचविगीतगोत्रोऽपि स्यादतआह-गौतमोगोत्रेण, गोतमाह्वयगोत्रजात इत्यर्थः, अयं च तत्कालोचितदेहमानापेक्षया न्यूनाधिकदेहोऽपि स्यादिति ‘सप्तोत्सेधः' सप्तहस्तप्रमाणकायोच्छ्रायः, मयूरव्यंसकादित्वात मध्यपदलोपः सहस्रर्जुनशब्दवत्। अयंच लक्षणहीनोऽपिस्यादिति 'समचतुरन' समाः-शरीरलक्षणशास्त्रोक्तप्रमाणाविसंवादिन्यश्चतसोऽश्रयः-चतुर्दिग्विभागोपलक्षिताः शरीरावयवायस्य सतथा, अन्ये त्वाहुः-समा अन्यूनाधिकाश्चतम्रऽप्यश्रयो यस्येतिपूर्ववत्, अम्रयश्चपर्यङ्कासनोपविष्टस्य जानुनोरन्तरंआसनस्य ललाटोपरिभागस्य चान्तरंदक्षिणस्कन्धस्य जानुनश्चान्तरंवामस्कन्धस्य दक्षिणजानुनश्चान्तरमिति, यावच्छब्दादिदमवसेयं-“वारिसहनारायसंघयणे कणगपुलगनिघसपम्हगोरे उग्गतवे ओराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्तविउलतेउलेसे चउदसपुवी चउनाणोवगए सव्वक्खरसन्निवाई जाव अप्पाणं भावेमाणे विहरइ। -तएणं से भगवं गोअमे जायसड्ढे जायसंसए जायकोऊहल्ले उप्पन्नसट्टे ३-संजायसढे ३ समुप्पन्नसड्ढे ३ उठाए उठेइ २ त्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ तासमणं भगवंमहावीरंतिक्खुत्तो आयाहिणंपयाहिणंकरेइ२ त्ता वंदइनमसइ वंदित्तानमंसित्तानच्चासन्ने नाइदूरे सुस्सूसमाणे नमसमाणे अभिमुहे विनएणं पंजलिउडे पजुवासमाणे एवं वयासी' अत्र व्याख्या-अनन्तरोक्तविशेषणोहीनसंहननोऽपि स्यादत आह-'वज्जत्ति, वज्रर्षभनाराचसंहननः, तत्र नाराचम्-उभयतो मर्कटबन्धः ऋषभः-तदुपरि वेष्टनपट्टः कीलिका-अस्थित्रयस्यापि भेदकमस्थि एवंरूपं संहननं यस्य स तथा, अयं च निन्द्यवर्णोऽपि स्यादत आह-'कणग'त्तिकनकस्य-सुवर्णस्य पुलकोलवस्तस्ययोनिकषः-कषपट्टके रेखारूपः तद्वत, तथा पम्ह'त्ति अवयवे समुदायोपचारात् पद्मशब्देन पद्मकेसराण्युच्यन्ते तद्वद् गौर इति, अयंच विशिष्टचरणरहितोऽपि स्यादतआह-उग्रम्-अप्रधृष्यं तपः-अनशनादि यस्य सतथा, यदन्येन चिन्तितुमपिन शक्यते तद्विधेन तपसा युक्त इत्यर्थः, तथा दीप्तं-जाज्वल्यमानदहन इव कर्मवनगहन दहनसमर्थतया ज्वलितं तपो-धर्मध्यानादि यस्य स तथा, तथा सप्तं तपो येन स तथा -एवं हितेन तप्तंतपोयेन सर्वाण्यशुभानिकर्माणि भस्मसात्कृतानीति, तथा महत्-प्रशस्तमाशंसादिदोषरहितत्वात् तपो यस्य स तथा, तथा उदारः-प्रधानः, अथवा 'ओरालो' भीष्मः, उग्रादिविशेषणविशिष्टतपःकरणतः पार्श्वस्थानामल्पसत्वानांभयानक इत्यर्थः, तथाधोरो-निघृणः, परीषहेन्द्रियादिरिपुगणविनाशनमाश्रित्य निर्दय इत्यर्थः, अन्ये तुआत्मनिरपेक्षं घोरमाहुः, तथा घोरा-इतरैर्दुरनुचरा गुणाः-मूलगुणादयो यस्य स तथा, तथा घोरैस्तपोभिस्तपस्वी, तथा घोरंदारुणमल्पस्त्वैर्दुरनुचरत्वात् यद् ब्रह्मचर्यं तत्र वस्तुं शीलं यस्य स तथा, उच्छूढं-उज्झितं संस्कारपरित्यागात् शरीरं येन स तथा, सङ्क्षिप्ता-शरीरान्तर्गतत्वेन ह्रस्वतांगता विपुला–विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्थत्वात् तेजोलेश्या-विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथा, चतुर्दश पूर्वाणि विद्यन्ते यस्य स तथा, तेन तेषां रचितत्त्वात्, अनेन तस्य श्रुतकेवलितामाह, स चावधिज्ञानादिविकलोऽपिस्यादतआह-'चतुर्ज्ञानोपगतः' मतिश्रुता For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy