SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ३ / ६९ नविशेषणेष्वपि, चः समुच्चये, वर्द्धमाने स्वस्तिके रुचके तथा सर्वतोभद्रसन्निवेशे च बहुर्विशेषः -प्रकारो ज्ञेयतया कर्त्तव्यतया च यस्य तत् तथा, सूत्रे च कचित् सप्तमीलोपः प्राकृतत्वात्, नन्द्यावर्त्तादिगृहविशेषस्त्वयं वराहोक्तः 119 11 २०८ ॥२॥ ॥३॥ “नन्द्यावर्त्तमलिन्दैः शालाकुड्यात् प्रदक्षिणान्तगतैः । द्वारं पश्चिममस्मिन् विहाय शेषाणि कार्याणि ॥ द्वारालिंदोऽन्तगतः प्रदक्षिणोऽन्यः शुभस्ततश्चान्यः । तद्वच्च वर्द्धमाने द्वारं तु न दक्षिणं कार्यम् ॥ अपरान्तगतोऽलिन्दः प्रागन्तगतौ तदुत्थितौ चान्यी । तदवधिविधृतश्चान्यः प्राग्द्वारं स्वस्तिकं शुभदम् ॥ अप्रतिषिद्धालिन्दं समन्ततो वास्तु सर्वतोभद्रम् । 118 11 नृपविबुधसमूहानां कार्यं द्वारैश्चतुर्भिरपि ॥ पुनस्तदेव विशिनष्टि - ऊर्ध्व दण्डे भव उद्दण्डिकः, भवार्थे इकः, अर्थात् ध्वजः, देवा:इन्द्रादिप्रतिमाः कोष्ठः - उपरितनगृहं धान्यकोष्ठो वा दारूणि वास्तूचितकाष्ठानि गिरयो - दुर्गादिकरणार्थं जनावासयोग्याः पर्वताः खातानि - पुष्करिण्यादिकानि वाहनानि - शिबिकादीनि एतेषां विभागे कुशलं, ध्वजविभागस्त्वेवं 119 11 " दण्डः प्रकाशे प्रासादे, प्रासादकरसङ्ख्यया । सान्धकारे पुनः कार्यो, मध्यप्रासादमानतः ॥ इअ तस्स बहुगुणद्धे थवईरयणे नरिंदचंदस्स । तवसंजमनिव्विट्टे किं करवाणीतुवट्ठाई । मू. (७०) वृ. शेषं तत्तदग्रन्थेभ्योऽवसेयं, इत्युक्तप्रकारेण बहुगुणाढ्यं तस्य नरेन्द्रचन्द्रस्यः भरतचक्रिणः स्थपतिरलं- वर्द्धकिरलं तपः संयमाभ्यां करणभूताभ्यां निर्विष्टं लब्धमिति निर्विष्टं - लब्धमिति, किं करवाणीत्यादि तु प्रायोजितमेव, अथोपस्थितः सन् वर्द्धकिर्यकरोत्तदाहसो देवकम्मविहिणा खंधावारं नरिंदवयणेणं । आवसहभवणकलिअं करेइ सव्वं मुहुत्तेणं ॥ मू. (७१) वृ. 'सोदेव' इत्यादि, स - वर्द्धकि देवकर्मविधिना - देवकृत्यप्रकारेण चिन्तितमात्रकार्यकरणरूपेणेत्यर्थः - स्कन्धावारं नरेन्द्रवचनेन आवासा - राज्ञां गृहाणि भवनानीतरेषां तैः कलितं करोति सर्वं मुहूर्त्तेन निर्विलम्बमित्यर्थः । मू. (७२) करेत्ता पवरपोसहधरं करेइ २ त्ता जेणेव भरहे राया जाव एवमाणत्तिअं खिप्पामेव पञ्चप्पिणइ, सेसं तहेव जाव मज्जणधराओ पडिनिक्खमइ २ त्ता जेणेव बाहिरिआ उवट्ठाणसाला जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ । वृ. कृत्वा च प्रवरपौषधगृहं करोति, कृत्वा च भरो राजा यावत्पदात् 'तेणेव उवागच्छइ २ त्ता' इति ग्राह्यम्, एतामाज्ञप्तिकां क्षिप्रमेव प्रत्यर्पयति, 'सेसं तहेवे' त्यादि सर्वं प्राग्वत् । मू. (७३) ( उवागच्छित्ता) तते णं तं घरणितलगमणलहुं ततो बहुलक्खणपसत्थं हिमवतंकंदरंतरणिवायसंवद्धिअचित्ततिणिसदलिअं जंबूणयसुकयकूबरं कणयदंडियारं For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy