SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ २०६ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ३/६९ पलक्षणाद् दोषाणां च ज्ञायकं, पण्डा जाता अस्येति तारकादित्वादिते पण्डितं - सातिशयबुद्धिमत्, अथ यदि वास्तुक्षेत्रस्यैकाशीत्याद्या विभागास्तर्हि तावतां विभागानां विभाजकास्तावत्यो देवता भविष्यन्तीत्याशङ्कयाह - विधिज्ञं पञ्चचत्वारिंशतो देवतानां उचितस्थाननिवेशनार्द्धनादिविधिज्ञमित्यर्थः । पञ्चचत्वारिंशतोऽपि देवानामेकासीत्यादिपदवास्तुन्यासस्तथा तच्छिल्पिशास्त्रनुसारेण दर्श्यते, एतत्संवादनाय सूत्रधारमण्डनकृतवास्तुसारोक्तिरपि लिख्यते, “चतुःषष्टया पदैर्वास्तु, पुरे राजगृहेऽर्चयेत् । एकाशीत्या गृहे भागः, शतं प्रासादमण्डपे ॥ || 9 || ॥ २ ॥ ईशः १ पर्जन्यो २ जये ३ न्द्रौ ४, सूर्य: ५ सत्यो ६ भृशो ७ नमः ८ । अग्नि ९ पूषा १० थ वितथो ११, गृहक्षत १२ यमौ १३ ततः ॥ गन्धर्वो १४ भृङ्गराज १५ श्च, मृगः १६ पितृगण १७ स्तथा । दौवारिकोऽथ १८ सुग्रीव १९ पुष्पदन्तौ २० जलाधिपः २१ ॥ ॥३॥ ॥ ४ ॥ असुरः २२ शोष २३ यक्ष्माणी २४, रोगो २५ऽहि २६ मुख्य २७ एव च । भल्वाट २८ सोम २९ गिरय ३० स्तथा बाह्येऽदिति ३१ र्दिति ३२ ॥ ॥६॥ ॥ ५ ॥ आपो ३३ ऽपवत्सा ३४ वीशेऽन्तः, सावित्रः ३५ सविता ३६ ऽग्निगौ । इन्द्र ३७ इन्द्रजयो ३८ ऽन्यस्मिन्, वायौ रुद्र ३९ श्च रुद्रराट् ४० ॥ मध्ये ब्रह्मा ४१ ऽस्य चत्वारो, देवाः प्राच्यादिदिग्गताः । अर्यमाख्यो ४२ विवस्वां ४३ श्च, मैत्रः ४४ पृथ्वीधरः ४५ क्रमात् ॥ ईशकोणादितो बाह्ये, वरकी १ च विदारिका २ । पूतना ३ पापा ४ राक्षस्यो, हेतुकाद्याश्च निष्पदाः ॥ चतुःषष्टिपदैर्वास्तु, मध्ये ब्रह्मा चतुष्पदः । अर्यमाद्याश्चतुर्भागा, द्विद्यंशा मध्यकोणगाः ॥ बहिः कोणेष्वर्द्धभागाः, शेषा एकपदाः सुराः । एकाशीतिपदे ब्रह्मा, नवार्याद्यास्तु षटपदाः ॥ द्विपदा मध्यकोणेऽष्टौ, बाह्ये द्वात्रिंशदेकशः । शते ब्रह्माष्टसत्यांशो, बाह्यकोणेषु सार्द्धगी ।। अर्यमाद्यास्तु वस्वंशाः, शेषाः स्यु पूर्ववास्तुवत् । हेमरत्नाक्षताद्यैस्तु, वास्तुक्षेत्राकृतिं लिखेत् ॥ अभ्यर्च्य पुष्पगन्धाढयैर्बलिदध्याज्यमोदनम् । दद्यात् सुरेभ्यः सोङ्कारैर्नमोऽन्तैर्नामभि पृथक् ॥ वास्त्वारंभे प्रवेशे वा, श्रेयसे वास्तुपूजनम् । अकृते स्वामिनाशः स्यात्, तस्मात्पूज्यो हितार्थिभिः ॥ - अत्र च वराहमिहिरोक्त एकाशीतिपदस्य स्थापनाविधिरयं"एकाशीतिविभागे दश २ पूर्वोत्तरायता रेखाः । अंतस्त्रयोदश सुरा द्वात्रिंशद्वाह्यकोष्ठस्थाः ॥” इति । For Private & Personal Use Only ॥७॥ 112 11 ॥९॥ ॥१०॥ 1199 11 ॥१२॥ ॥१३॥ 1198 11 Jain Education International www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy