SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ १४ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/१ वृ. 'नमोअरिहंताणं'० अस्य च व्याख्या संहितादिक्रमेण, तत्रास्खलितसूत्रपाठः संहिता, सूत्रे चास्खलितादिगुणोपेते उच्चारिते केचिदर्थाअवगताःप्राज्ञानां भवन्त्यतः संहिता व्याख्याभेदो भवत, अनधिगतार्थाधिगमाय चपदादयो व्याख्याभेदाः प्रवर्तन्तइति,तत्र पदानिनमः अर्हद्भ्यः इति, एवंपदकरणे सूत्रालापकनिष्पननिक्षेपावसरः, तत्र नमस्कारस्य नामदिभिश्चतुर्द्धा निक्षेपः, तत्र नामनमस्कारो नम इत्यभिधानं, स्थापनानमस्कारो नमस्कारकरणप्रवृत्तस्य संकोचितकरचरणस्य काष्ठपुस्तचित्रादिगतः साध्वादेराकारः, द्रव्यनमस्कार आगमतो नोआगमतश्च, तत्रागमतस्तदर्थज्ञाताऽनुपयुक्तः, नोआगमतो ज्ञशरीरभव्यशरीरनमस्कारौ प्रतीतौ, ज्ञशरीरभव्यशरीरव्यतिरिक्तोद्रव्यनमस्कारोनिलवादीनां, तेषां मिथ्याष्टित्वेनाप्रधानत्वात्, सम्यग्दृष्टेरप्यनुपयुक्ततया नमस्कुर्वतो द्रव्यनमस्कारः, राजादेर्द्रव्यार्थं वा नमस्करणं तस्यैव वा भयादिना द्रमकादेमस्करणं बलवन्नरपुरुषाक्रान्तस्य धनुरादेर्नम्रीभावोवाद्रव्यनमस्कारः, भावनमस्कारोऽपि आगमतोनोआगमतश्च, आगमतस्तदर्थज्ञातोपयुक्तो,यदातुमनसोपयुक्तोवचनेननमोऽर्हद्भ्य इति ब्रुवाणः कायेन तु सङ्कोचितकरचरणो नमस्कारं करोति तदा नोआगमतो भावनमस्कारः, अनेन चात्राधिकार-, अर्हन्-जिनः सोऽपि नामादिभेदैश्चतुर्द्धा, तेच नामादयो भेदाः॥१॥ “नामजिना जिननामा ठवणजिणा पुण जिणिंदपडिमाओ। दव्वजिना जिनजीवा भावजिना समवसरणत्था ।" अनया गाथया अवगन्तव्याः, अत्र प्रकारान्तरेणापि निक्षेपः सम्भवति परं स विस्तरभयानोपदय॑ते, एवमन्येष्वपि सूत्रालापकेषु स्वधिया यथासम्भवं निक्षेपः कार्य इति । उक्तः सूत्रालापकनिष्पन्ननिक्षेपः, पदार्थ पुनरेवं-नम इति नैपातिकं पदं द्रव्यभावसंकोचार्थं, आह च–'नेवाइयंपयं दब्वभावसंकोयणपयत्यो" नमः-करचरणमस्तकसुप्रणिधानरूपो नमस्कारो भवत्वित्यर्थः, केभ्य इत्याह-'अर्हद्भ्यः' अमरवरविनिर्मिताशोकाद्यष्टमहापातिहार्यरूपां पूजामर्हन्तीत्यर्हन्तस्तेभ्यः, इह च चतुर्थ्यर्थे षष्ठी प्राकृतशैलीवशात्, अत्र द्रव्यसङ्कोचो करशिरःपादादिसङ्कोचः, भावसङ्कोचनं तु विशुद्धस्य मनसोऽहंदादिगुणेषु निवेशः, तत्रच भङ्गचतुष्कं-द्रव्यसङ्कोचोनभावसङ्कोचो यथापालकादीनाम् १ भावसङ्कोचो नद्रव्यसोचो यथाऽनुत्तरसुरादीनां २ द्रव्यसङ्कोचो भावसङ्कोचश्च यथा शाम्बस्य न द्रव्यसङ्कोचो न भावसङ्कोच इति भङ्गः शून्यः ४, इह च तृतीयभङ्गस्योपयोगः, भावसङ्कोचप्रधानद्रव्यसङ्कोचरूपत्वात्प्रस्तुतनमस्कारस्य, अनेन च मङ्गलान्तरस्य फलव्यभिचारित्वेनानैकान्तिकत्वात्तदपहायतदन्यस्वरूपतयाऽवश्यं भावेनामिलषितार्थसाधनसमर्थत्वादत्यन्तोपादेयं परमेष्ठिनमस्कारलक्षणं भावमङ्गलमुपात्तं, सत्स्वपि तपःप्रभृतिष्वन्यभावमङ्गलेषु यदस्योपादानं तत् शास्त्रदावस्यैव व्यवहारप्राप्तत्वमिति ज्ञापनार्थं, अत्र च बहुवचनं व्याप्तयर्थं, तेन सकलनिक्षेपगतजिनपरिग्रहः । अथपदविग्रहः, सचसमस्तपदे सति सम्भवतीत्यत्र नोक्तः। अथ चालनाप्रत्यवस्थानेनन्वर्हतां परममङ्गलत्वेन नमस्काराभिदानतोऽप्यादौ तदुपादानमुचितमिति, सत्यं, स्वयंमङ्गलभूता अप्यर्हन्तः परेषां नमनस्तवनादिनैवाभीष्टफलदाभवन्तीतिज्ञापनायार्हद्भ्योऽपिनमस्कारस्यादावुपन्यासइति, किञ्च-'अरिहंताणमित्यत्र जात्यपेक्षयैकवचनेनापि सर्वार्हतांग्रहणेसिद्धे बहुवचनेन नामस्थापनाद्रव्यभावार्हतां चतुर्णामपि तुल्यकक्षतया नमस्कार्यत्वस्य ज्ञापितत्वादेकान्ततः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy