SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः - २ १५७ छिन्नजाइजरामरणबंधणे सिद्धे बुद्धेमुत्ते अंतगडे परिनिव्वुडे' इति संग्रहः, तत्र सम्यग् - अपुनरावृत्या ऊर्ध्वं - लोकाग्रलक्षणं स्थानं यातः - प्राप्तो न पुनः सुगतादिवदवतारी, यतस्तद्वचः"ज्ञानिनो धर्मतीर्थस्य, कर्त्तारः परमं पदम् । 119 11 गत्वाऽऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ॥” इति । छिन्नं जात्यादीनां बन्धनं-बन्धनहेतुभूतं कर्म्म येन स तथा सिद्धो- निष्ठितार्थ बुद्धो - ज्ञातत्वः मुक्तो भवोपग्राहिकमशिभ्यः अन्तकृत्सर्वदुःखानां परिनिर्वृतः समन्ताच्छीतिभूतः कर्मकृतसकलसन्तापविरहात् सर्वाणि शारीरादीनि दुःखानि प्रहीणानि यस्य स तथा । अथ भगवति निर्वृते यद्देवकृत्यं तदाह - 'जं समयं च ण'मित्यादि, यस्मिन् समये सप्तम्यर्थे द्वितीया एवं तच्छब्दवाक्येऽपि, अवधिना ज्ञानेनाभोगयति उपयुनक्ति, शेषं सुगमं, उपयुज्य एवमवादीत् किमित्याह - 'परिनिव्वुए' इत्यादि, परिनिर्वृतः खलुरिति वाक्यालङ्कारे जम्बूद्वीपे द्वीपे भरते वर्षे ऋषभोऽर्हन् कौशलिकस्तत्-तस्माद्धेतोः जीतं - कल्पः आचारः एतद् - वक्ष्यमाणं वर्त्तते अतीतप्रत्युत्पन्नानागतानां - अतीतवर्त्तमानानागतानां 'शक्राणां' आसनविशेषाधिष्ठातृणां देवानां मध्ये 'इन्द्राणां परमैश्वर्ययुक्तानां देवानां देवेषु (वा) राज्ञांकान्त्यादिगुणैरधिकं राजमानानां तीर्थकराणां परिनिर्वाणमहिमां कर्तुं तद्गच्छामि णमिति प्राग्वत् अहमपि भगवतस्तीर्थकरस्य परिनिर्वाणमहिमां करोमीतिकृत्वा भगवन्तं निर्वृतं वन्दते - स्तुतिं करोति नमस्यति प्रणमति, यच्च जीवरहितमपि तीर्थकरशरीरमिन्द्रवन्द्यं तदिन्द्रस्य सम्यग्द्दष्टित्वेन नामस्थापनाद्रव्यभावार्हता वन्दनीयत्वेन श्रद्धानादिति तत्वं, वंदित्वा नमस्यित्वा च किं चक्रे इत्याह 'चउरासीई' इत्यादि, चतुरशीत्या सामानिकानां प्रभुत्वमन्तरेण वपुर्विभवद्युतिस्थित्यादिभि शक्रतुल्यानां सहस्रैः - त्रयस्त्रिंशता त्रायस्त्रिंशकैः - गुरुस्थानीयैर्देवैः चतुर्भिर्लोकपालैः- सोमयमवरुण-कुबेरसंज्ञैः यावत्पदात् 'अट्ठहिं अग्गमहिसीहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अनीएहिं'ति, अत्र व्याख्या - अग्रमहिष्योऽष्टौ पद्मा १ शिवा २ शची ३ अश्रू ४ अमला ५ अप्सर ६ नवमिका ७ रोहिणी ९, एताभिः षोडशसहस्रैः २ देवीपरिवारयुताभिः तिसृभिः पर्षद्भिःबाह्यमध्याभ्यन्तररूपाभिः सप्तभिरनीकैर्हय १ गज २ रथ ३ सुभट ४ वृषभ ५ गन्धर्व ६ नाट्य ७ रूपैः सप्तभिः अनीकाधिपतिभि चतसृभिश्चतुरशीतिभिश्चतुर्दिशं प्रत्येकं चतुरशीतिसहस्राङ्गरक्षकसद्भावात् षट्त्रिंशत्सहस्राधिकलक्षतरयप्रमितैरङ्गरक्षकदेवसहस्रैः अन्यैश्च बहुभिः सौधर्मकल्पवासिभिर्देवैर्देवीभिश्च सार्द्ध संपरिवृतः तया - देवजनप्रसिद्धया उत्कृष्टया - प्रशस्तविहायोगतिषूत्कृष्टतमत्वात्, यावत्पदात् 'तुरिआए चवलाए चंडाए जयणाए जाव वीईवयमाणे २ 'त्ति । अत्र व्याख्या- त्वरितया मानसौत्सुक्यात् चपलया कायतः चण्डया क्रोधाविष्टयेव श्रमासंवेदनात् जवनया परमोत्कृष्टवेगवत्वात्, अत्र च समयप्रसिद्धाश्चण्डादिगतयो न ग्राह्याः, तासां प्रतिक्रमं संख्यातयोजनप्रमाणक्षेत्रातिक्रमणात्, तेनैतानि पदानि देवगतिविशेषणतया योज्यानि, देवास्तु तताभवस्वभावादचिन्त्यसामर्थ्यतोऽत्यन्तशीघ्रा एव चलन्तीति, अन्यथा जिनजन्मादिषु महिमानिमित्तं तत्रैव दिवसे झटित्येवात्यन्तदूरे कल्पादिभ्यः सुराः कथमागच्छेयुरिति ?, उद्धूतया उद्धूतस्य दिगन्तव्यापिनो रजस इव या गति सा तया अत एव निरन्तरं शीघ्रत्वयोगाच्छीघ्रयां दिव्यया- देवोचितया देवगत्या व्यतिव्रजन् सम्भ्रमे द्विर्वचनं, तिर्यगसङ्घयेयानां द्वीपसमुद्राणां Jain Education International For Private & Personal Use Only www.jainelibrary.org ,
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy