SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १३८ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/४३ ॥२॥मन्त्रि १ भू२ धन ३ कुल ४ क्षयावहा रोग ५ मृत्यु ६ जननाश्च पर्वभिः । दव्याभिर्द्विकविवर्द्धितैः क्रमाद्, द्वादशान्तविरतैः समैः फलम् ।। ॥३॥यात्राप्रसिद्धि १ द्विषतां विनाशो २, लाभाः ३ प्रभूता वसुधाऽऽगमश्च ४ । वृद्धि ५ पशूनामभिवाञ्छिताप्ति ६-स्त्रयादिष्वयुग्मेषु तदीश्वराणाम् ॥ ॥१॥ 'अङ्गुलशतार्द्धमुत्तम ऊनः स्यात्पञ्चविंशतिं खड्गः । अङ्गुलमानाद्-ज्ञेयो व्रणोऽशुभो विषमपर्वस्थः ।। अत्र व्याख्या-अड्गुलशतार्द्धमुत्तमः खड्गः पञ्चविंशत्यमुलानि ऊनः, अनयोः प्रमाणयोर्मध्यस्थितःपञ्चाशदगुलादूनः पञ्चविंशतेरधिकोमध्यमः,अङ्गुलमानाद्-अङ्गुलप्र-माणाद् यो व्रणो विषमपर्वस्थः-विषमपर्वाड्गले स्थितः प्रथमतृतीयपञ्चमसप्तमादिष्वङ्गुलेषु स्थितः सः अशुभः, अदिवसमाङ्गुलेषुद्वितीयचतुर्थषष्ठाष्टमादिषुयःस्थितः सशुभः, मिश्रेषुसमविषमाङ्गुलेषु मध्यम इत्यादि ४०, मणिलक्षणं रत्नपरीक्षाग्रन्थोक्तकाकपदमक्षिकापदकेश-राहित्यसशर्करतास्वस्ववर्णोचितफलदायित्वादिमणिगुणदोषविज्ञानं ४१ काकणी-चक्रिणोरलविशेषस्तस्य लक्षणंविषहरममानोन्मानादियोगप्रवर्तकत्वादि ४१ वास्तुनो-गृहभूमेर्विद्या वातुशास्त्रप्रसिद्धं गुणदोषविज्ञानं ४२ स्कन्धवारस्य मान॥१॥ “एकेभैकरथास्त्रयश्वाः, पत्ति पञ्चपदातिका। सेना सेनामुखं गुल्मो, वाहिनी पृतना चमूः॥ अनीकिनीच पत्तेः स्यादिभाधैस्त्रगुणैः क्रमात्।दशाकिन्योऽक्षौहबिणी'त्यादि४४ नगरमानं द्वादशयोजनायामनवयोजनव्यासादिपरिज्ञानं, उपलक्षणाच्च कलशादिनिरीक्षणपूर्वकसूत्रन्यासयथास्थानवर्णादिव्यवस्थापरिज्ञानं४५ चारो-ज्योतिश्वारस्तद्विज्ञानं ४६प्रतिचारः-प्रतिकूलश्चारो ग्रहाणां वग्रगमनादिस्तत्परिज्ञानं अथवा प्रतिचरणं प्रतिचारो-रोगिणः प्रतीकारकरणं तद्ज्ञानं ४७ व्यूह-युयुत्सूनां सैन्यरचनां यथा चक्रव्यूहे चक्रावृतौ तुम्बारकप्रध्यादिषु राजन्यकस्थापनेति ४८, प्रतिव्यूह-तप्रतिद्वन्द्विनां तद्भगोपायवृत्तानां व्यूहं ४९ सामान्यतो व्यूहान्तर्गतत्वेऽपि प्रधानत्वेन त्रीन् व्यूहविशेषनाह-चक्रव्यूह-चक्राकृतिसैन्यरचनामित्यर्थः ५०, गरुडव्यूहगरुडाकृतिसैन्यरचनामित्यर्थः ५१ एवं शकटव्यूह ५२ ।युद्धं कुर्कुटानामविमुण्डामुण्डि श्रड्गिणामिव श्रगाश्र ड्गि युयुत्सया योधयोर्वल्गनं ५३ नियुद्धं मल्लयुद्धं ५४, युद्धातियुद्धंखड्गादिप्रक्षेपपूर्वकं महायुद्धं यत्र प्रतिद्वन्द्विहतानां पुरुषाणां पातः स्यात् ५५ ६ष्टियुद्धं-योधप्रतियोधयोश्चक्षुषोर्निर्निमेषावस्थान ५६ मुष्टियुद्धं-योधयोः परस्परं मुष्टया हननं ५७ बाहुयुद्धं योधप्रतियोधयोः अन्योऽन्यं प्रसारितबाह्वोरेव निनंसया वल्गनं ५८ लतायुद्धं योधयोः यथा लता वृक्षमारोहन्ती आमूलमाशिरस्तं वेवेष्टि तथा यत्र योधः प्रतियोधश(री) रंगाढं निपीडय भूमौ पतति तल्लतायुद्धं ५९ 'इसत्यं ति प्राकृतशैल्या इषुशास्त्र नागबाणादिदिव्याश्त्रादिसूचकं शास्त्र ६० 'छरुप्पवाय'ति सरु खड्गमुष्टिस्तदवयवयोगात् त्सरुशब्देनात्र खड्ग उच्यते, तस्य प्रवादो यत्र शास्त्र तत्सरुप्रवाद, खड्गशिक्षाशास्त्रमित्यर्थः, प्रश्नव्याकरणे तु त्सरुप्रगतमिति पाठः ६१, धनुर्वेद-धनुःशास्त्र ६२, हिरण्यपाकसुवर्णपाकौ-रजतसिद्धिकनकसिद्धी ६३, ६४। - 'सुत्तखेड्डु'तिसूत्रखेल-सूत्रक्रीडा, अत्र खेलशब्दस्यखेड्ड इत्यादेशः ६५, एवं वस्त्रखेड्डमपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy